________________
10
-
जो पुण काय-वतीओ, निरुज्झ कुसलं मणं उदीरेइ |
चिट्ठ एकग्गमणो, सो खलु गुत्तो न समितो उ ।। ४४५२ ।। 5 यः पुनः काय-वाचौ निरुध्य 'कुशल' शुभं मन उदीरयन् एकाग्रमना धर्मध्यानाद्युपयुक्तचित्तस्तिष्ठति स खलु गुप्त उच्यते, न समितः, समितेः. प्रवीचाररूपत्वात् । यस्तु काय-वाचौ सम्यक् प्रयुङ्क्ते स गुप्तोऽपि समितोऽपि मन्तव्यः ॥ ४४५२ ॥
अथ समिति - गुप्तीनां परस्परमवतारं दर्शयन्नाह-
वाइस मई बिइया, तइया पुण माणसा भवे समिई । सेसा उ काइयाओ, मणो उ संव्वासु अविरुद्धो ॥ ४४५३ ॥ 'वाचिकसमितिर्नाम' भाषासमितिः सा द्वितीया वाग्गुप्तिर्मन्तव्या । यदा किल भाषासमितो भवति तदा यथा भाषाया असमितिप्रत्ययं कर्मबन्धं निरुणद्धि तथा वागगुप्तिप्रत्ययमपि कर्मबन्धं निरुणद्धि, एवं भाषा समिति - वाग्गुत्योरेकत्वम् । 'तृतीया पुनः' एषणाख्या समितिः 'मानसी' मानसिकोपयोगनिष्पन्ना । किमुक्तं भवति ? - यदा साधुरेषणासमितो भवति तदा 15 श्रोत्रादिभिरिन्द्रियैर्हस्त-मात्रकधावनादिसमुत्थेषु शब्दादिषूपयुज्यते, अत एवास्या मनोगुप्तेश्चकत्वम् । ‘शेषास्तु समितयः' ईर्या - ऽऽदाननिक्षेपोच्चारादिपारिष्ठापनिकाख्याः 'कायिक्यः' कायचेष्टानिष्पन्ना, अत एवासां तिसृणामपि कायगुत्या सहैकत्वम् । “मणो उ सबासु अविरुद्धो" चि मानसिक उपयोगः 'सर्वासु ' पञ्चखपि समितिषु 'अविरुद्धः ' समितिपञ्चकेऽप्यस्तीति भावः । अत एव मनोगुप्तस्य सचेष्टस्य सर्वासां समितीनां मनोगुध्या सहैकत्वं मन्तव्यम् ॥ ४४५३ ॥ 20 आह - भिक्षार्थं गृहद्वारे स्थितस्य तत्राहारादीनि कल्पनीयानि मार्गयतः श्रोत्रादिभिरुपयुतस्य भाषासमिति - मनोगुत्येषणासमितीनां तिसृणामपि सम्भवो दृश्यते अतः किमासामेकत्वम् उतान्यत्वम् ? इत्याशङ्कयाह-
वयसमितो च्चिय जाय, आहारादीणि कप्पणिजाणि ।
एस उवओगे पुण, सोयाई माणसा न वई || ४४५४ ॥
१२०२
भिधानात् ; अंतः समितो नियमाद् गुप्त इति ॥ ४४५१ ॥
गुप्तः समितत्वे कथं भजनीयः ? इत्याह
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [कृतिकर्मप्रकृते सूत्रम् १८
25
'शङ्कित- म्रक्षितादिदशदोषरहितं मया ग्राह्यम्' इत्येषणासमितिभावसंयुक्तो यदा साधुराहारादीनि कल्पनीयानि मार्गयति तदा वाक्समित एवासौ जायते, न पुनर्मनोगुप्त इत्येवकारार्थः । यदा तु श्रोत्रादिभिरेषणायामुपयोगं करोति तदा मानसी नाम गुप्तिर्भवेत्, मनोगुप्तिरित्यर्थः, न पुनः ‘वाग्’ भाषासमितिः । इदमत्र तात्पर्यम् — भाषासमितिर्मनोगुप्तिश्चेति द्वे समिति-गुप्ती युगपन्न भवतः किन्तु भिन्नकालम्, यद्यपि च “मणो य सवत्थ अविरुद्धो" ( गा० ४४५३ ) 30त्ति वचनाद् भाषासमितावपि मानसिकोपयोगः समस्ति तथापि गौणत्वादसौ सन्नपि न विक्ष्यत इति ॥ ४४५४ ॥ अपि च
जावि यठियस्स चेडा, हत्थादीणं तु भंगियाईसु ।
१ सव्वत्थ अवि' भा० तांभा० ॥ २ प्रारूपा, अत भा० ॥ ३ 'वक्षित मो० ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org