________________
भाष्यगाथाः ४४५२-५८] तृतीय उद्देशः ।
१२०३ सा वि य इरियासमिती, न केवलं चंकमंतस्स ॥ ४४५५ ॥ न केवलं 'चमतः' चक्रमणं कुर्वत एव ईर्यासमितिः किन्तु 'स्थितस्य' गमना-ऽऽगमनक्रियामकुर्वतः 'भङ्गिकादिषु' भङ्गबहुल-गमबहुलादिश्रुतेषु परावर्त्यमानेषु भङ्गकादिरचनाय याऽपि हस्तादीनां चेष्टा साऽपि परिस्पन्दरूपत्वादीर्यासमितिः प्रतिपत्तव्या ॥ ४४५५ ॥
यच्च परेण प्रागुक्तम् “चङ्कमणं निरर्थकम्" (गा० ४४४७) इत्यादि तत्परिहाराय b चङ्गमणगुणानुपदर्शयति
वायाई सट्टाणं, वयंति कुविया उ सनिरोहेणं ।
लाघवमग्गिपडुत्तं, परिस्समजतो य चंकमतो ।। ४४५६ ॥ अनुयोगदानादिनिमित्तं यश्चिरमेकस्थानोपवेशनलक्षणः सन्निरोधस्तेन 'कुपिताः' खस्थानात् चंलिता ये वातादयो धातवस्ते चमतो भूयः स्वस्थानं व्रजन्ति । 'लाघवं' शरीरे लघुभाव उप-10 जायते । 'अमिपटुत्वं' जाठरानलपाटवं च भवति । यश्च व्याख्यानादिजनितः परिश्रमस्तस्य जयः कृतो भवति । एते चमतो गुणा भवन्ति अतो न निरर्थकं चक्रमणम् ॥ ४४५६ ।। - आह-यद्येवं ततः किमवश्यं तत्राभ्युत्थानं कर्त्तव्यम् उत न ? इति अत्रोच्यते
चंकमणे पुण भइयं, मा पलिमंथो गुरूविदिन्नम्मि।
पणिवायवंदणं पुण, काऊण सई जहाजोगं ॥ ४४५७ ॥ पुनःशब्दो विशेषणे, स चैतद् विशिनष्टि-पश्रवण-विचारभूम्यादेरागतस्य गुरोः कर्त्तव्यमेवाभ्युत्थानम् , चङ्कमणे पुनः 'भक्तं' विकल्पितम् । कथम् ? इति अत आह-मा सूत्रा-ऽर्थपरावर्तनयोः 'परिमन्थः' व्याघातो भवत्विति कृत्वा यदि गुरवोऽनभ्युत्थानं वितरन्ति तदा नाभ्युत्थातव्यम् , परमेवं गुरुभिर्वितीर्णे सति 'सकृद' एकवारमभ्युत्थानं विधाय 'प्रणिपातवन्दनं' शिरःप्रणामलक्षणं कृत्वा 'भगवन् ! अनुजानीध्वम्' इति भणित्वा 'यथायोगं' यथेप्सितं 20 सूत्रार्थगुणनादिकं व्यापारं कुर्यात् । अथ गुरवो न वारयन्ति ततो नियमादभ्युत्थातव्यम् ॥ ४४५७ ॥ पुनरपि परः प्रेरयति-यदि चक्रमणा-ऽभ्युत्थाने सूत्रार्थपरिमन्थदोषो भवति तत इदमस्माभिरुच्यते
अइमुद्धमिदं वुच्चइ, जं चंकमणे वि होइ उट्ठाणं । __ एवमकारिजंता, भद्दगभोई व मा कुजा ॥ ४४५८ ॥ 'अतिमुग्धम्' अतीवाप्रबुद्धजनोचितमिदं भवद्भिरुच्यते-यत् चङ्क्रमणेऽप्यभ्युत्थानं कर्त्तव्यं भवति । सूरिराह-एवं चक्रमणविषयमभ्युत्थानमकार्यमाणा भद्रकभोजिकस्येव प्रसङ्गतो मा शेषमप्यविनयं कार्युरिति कृत्वा चक्रमणेऽप्यभ्युत्थानं कार्यन्ते । अथ कोऽयं भद्रकभोजिकः ? इति उच्यते___ जहा-एगो भोइतो । तस्स रन्ना तुट्टेणं गाममंडलं पसाएण दिन्नं । सो तत्थ गतो 30
१ अत्रान्तरे भा० प्रतिसत्को द्वितीयः खण्डः समाप्यते । प्रान्ते च तत्र-॥ छ ॥ इति श्रीकल्पाध्ययनटीकायां द्वितीय खण्डं समाप्तमिति भद्रमस्तु ॥... .. ...प्रन्थानं सहश्राणि चतुर्दश ॥छ । इत्युल्लिखितं वरीवृत्यते ।।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org