________________
११९८ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [कृतिकर्मप्रकृते सूत्रम् १८ अनभ्युत्थानलक्षणां कुर्वन्ति । अथैवमवज्ञाकरणानन्तरं गुरुस्तान् खगच्छनगराद् नियूहति । ये च बहुपाक्षिकत्वादिभिः कारणैर्निहितुं न शक्यन्ते तेषां भोगसंविभागकल्पं 'सूत्र' श्रुतं न प्रयच्छति ॥ ४४३६ ॥ एवं तावत् प्राघुणकमाचार्यमङ्गीकृत्याभ्युत्थाना-ऽनभ्युत्थानयोर्गुण-दोषा उपवर्णिताः । अथ सामान्यतो गच्छमध्यस्थितस्यैवाचार्यस्यानभ्युत्थाने दोषमाह
मज्झत्थ पोरिसीए, लेवे पडिलेह आइयण धम्मे।
पयल गिलाणे तह उत्तिमट्ठ सव्वेसि उट्ठाणं ॥ ४४३७॥ आचार्यमागच्छन्तं दृष्ट्वा गच्छसाधवो मध्यस्थास्तिष्ठन्ति न पुनरभ्युत्तिष्ठन्ति पूर्वोक्तमेव प्रायश्चित्तम् । सूत्रा-ऽर्थपौरुषी लेपप्रदानं प्रतिलेखनां “आइयणं" ति समुद्देशनं धर्मकथां वा विदधानाः प्रचलायमाना वा नाभ्युत्तिष्ठन्ति अत्रापि 'तदेव' वृषभादिविषयं प्रायश्चित्तम् । 10 ग्लानो वा उत्तमार्थप्रतिपन्नो वा शक्तौ सत्यां यदि नोत्तिष्ठति तदा तस्यापि प्रायश्चित्तम् । यत एवमतः सर्वेषामप्यभ्युत्थानं भवति । इदमत्र हृदयम्-आचार्याणामनभ्युत्थाने सूत्रपौरुषीकरणादीनि कदालम्बनानि नालम्बनीयानि, यथा-ममायमालापकोऽर्धपठितो वर्त्तते, लेपो वा पात्रके नाद्यापि परिपूर्णो दत्तः, प्रतिलेखनादिकं वा सम्प्रति कुर्वाणोऽस्मि, ग्लानो वा कृतभक्त
प्रत्याख्यानो वा अहमसीति; किन्तु सर्वैरपि सूत्राध्ययनादिव्यापारं परिहृत्याभ्युत्थातव्यम् 15॥ ४४३७ ॥ एवं तावदुपाश्रये विधिरभिहितः, अथान्यत्र गृहादौ रथ्यादिषु वा यत्र दृश्यते तत्रायं विधिः
दूरागयमुढेउं, अभिनिग्गंतुं नमंति णं सव्वे ।
दंडगहणं च मोत्तुं, दिद्वे उट्ठाणमन्नत्थ ॥ ४४३८ ॥ दूरादाचार्यमागतं दृष्ट्वा अभि-आभिमुख्येन निर्गत्य सर्वेऽपि साधवः 'ण"मिति एनमाचार्य 20 'नमन्ति' शिरसा वन्दन्ते । यदा च गुरव उपाश्रयं प्रविशन्ति तदा दण्डकग्रहणमपि कर्त्तव्यम् । 'अन्यत्र तु' गृहादौ दृष्टे गुरौ दण्डकग्रहणं मुक्त्वा अभ्युत्थानमेव कर्त्तव्यम् ॥ ४४३८॥ .. ___ एवमभ्युत्थाने के गुणाः ? इत्याह
परपक्खे य सपक्खे, होइ अगम्मत्तणं च उट्ठाणे।
सुयपूयणा थिरत्तं, पभावणा निजरा चेव ॥ ४४३९ ॥ 25 परपक्षः-परपाषण्डिनः खपक्षः-पार्थस्थादिवर्गस्तयोः 'अगम्यत्वम्' अनभिभवनीयता गुरो
रभ्युत्थाने भवति । तथा गुरवो बहुश्रुता भवन्तीति श्रुतपूजनमपि कृतं स्यात् । अन्येषामभ्यु. स्थानादौ विनये सीदता स्थिरत्वमनुष्ठितं भवति । प्रभावना च शासनस्यैवं कृता भवेत्-अहो ! शोभनमिदं प्रवचनं यत्रैवंविधो विनयो विधीयते । निर्जरा च कर्मक्षयरूपा विपुला भवति, विनयस्याभ्यन्तरतपोभेदत्वात् , न तस्य च निर्जरानिबन्धनतया सुप्रतीतत्वात् ~ ॥ ४४३९।। 30 आह-यः प्रव्रजितः सर्वपापोरतस्तस्य किं नाम विनयेन कार्यम् ? इति उच्यते
अकारणा नत्थिह कञ्जसिद्धी, न याणुवाएण वदेति तण्णा ।
उवायचं कारणसंपउत्तो, कजाणि साहेइ पयत्तवं च ॥ ४४४०॥ १°खनाम् 'अदनं वा' समु भा० ॥ २१ एतन्मध्यगतः पाठः भा० नास्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org