________________
भाष्यगाथाः ४४२९-३६] तृतीय उद्देशः ।
११९७ सर्वस्वमपहृत्य ते खनगरादे "निजटा' निकाशिताः । ये च तत्र निष्काश्यमाना विवदन्ते-'किमस्माभिरपराद्धम् ? यो यो छाक्षरको भविष्यति तस्य तस्य किं वयमभ्युत्थानं करिष्यामः ?' इत्यादि कलहायन्ते ते विवदमाना मारिताः । ये तु तत्र 'अनुकूलाः' अभ्युस्थानादिकारिणः 'अनुल्यणाः' अगर्वितास्ते भोगैः 'संविभक्ताः' राज्यभोगसंविभागस्तेषां कृतः ॥ ४४३२ ॥ एष दृष्टान्तः, अयमर्थोपनयः
अहिराया तित्थयरो, इयरो उ गुरू उ होइ नायव्यो ।
साहू जहा व दंडिय, पसत्थमपसत्थगा होंति ॥ ४४३३ ॥ यथा 'अधिराजः' मौलः पृथिवीपतिः तथा तीर्थकरः । यथा 'इतरः' यक्षरकराजः तथा तीर्थकराधिराजेनैवानुज्ञाताचार्यपदपट्टबन्धसहितगणाधिपत्यराज्यः 'गुरुः' आचार्यों ज्ञातव्यो भवति । यथा च ते प्रशस्ता-ऽप्रशस्तरूपा दण्डिकास्तथा साधवोऽप्युभयस्वभावा भवन्ति 10 ॥ ४४३३ ॥ तत्र
जह ते अणुट्ठिहंता, हियसव्वस्सा उ दुक्खमाभागी।
इय णाणे आयरियं, अणुट्टिहंताण वोच्छेदो ॥४४३४ ॥ यथा ते दण्ड-भट-भोजिकादयो यक्षरकनृपतिमनुत्तिष्ठन्तो हृतसर्वखा ऐहिकस्य दुःखस्याभागिनः सञ्जाताः 'इति' एवमाचार्यमप्यनुत्तिष्ठतां दुर्विनीतसाधूनां ज्ञाने उपलक्षणत्वाद् दर्शन-15 चारित्रयोश्च व्यवच्छेदो भवति । ततश्चानेकेषां जन्म-जरा-मरणादिदुःखानामाभागिनस्ते सञ्जायन्ते ॥ ४४३४ ॥ एषोऽप्रशस्तोपनयः, अथ प्रशस्तोपनयः
उठाण-सेजा-ऽऽसणमाइए हिं, गुरुस्स जे होंति सयाऽणुकूला। नाउं विणीए अह ते गुरू उ, संगिण्हई देइ य तेसि सुत्तं ॥ ४४३५ ।। उत्थानं-गुरुमागच्छन्तं दृष्ट्वा ऊर्धीभवनम् , शय्या-सम-सुन्दरावकाशे गुरूणां संस्तारक- 20 रचनम् , आसनम्-उपवेशनयोग्यनिषद्यादिरचनम् , यद्वा "सेज्जा-ऽऽसणं" ति गुरूणां शय्याया आसनाच्च नीचतरशय्या-ऽऽसनयोराश्रयणम् , आदिशब्दादञ्जलिप्रग्रहादिपरिग्रहः । एवमादिभिर्विनयभेदैर्ये शिष्याः सदैव गुरोरनुकूला भवन्ति तान् विनीतान् ज्ञात्वा 'अथ' अनन्तरं गुरुः 'संगृह्णाति' 'मयैते सम्यक् पालनीयाः' इत्येवं सङ्ग्रहबुद्ध्या स्वीकरोति सूत्रं च तेषां प्रयच्छति । ततश्च ते इह परत्र च कल्याणपरम्पराभाजनं जायन्ते ॥ ४४३५ ॥
25 अथाप्रशस्तोपनयं विशेषतो भावयन्नाह - पजाय-जाई-सुततो य वुड्डा, जच्चनिया सीससमिद्धिमंता ।
कुव्वंतवणं अह ते गणाओ, नितहई नो य ददाइ सुत्तं ॥ ४४३६ ॥ पर्यायतो ये वृद्धास्ते 'अवमरालिकोऽयम्' इति बुद्ध्या, जातिमधिकृत्य ये वृद्धाः-षष्टिवर्षजन्मपर्याया इत्यर्थस्ते 'बालकोऽयम्' इति बुद्ध्या, 'श्रुततश्च' श्रुतमङ्गीकृत्य ये वृद्धास्ते 30 'अल्पश्रुतोऽयम्' इति कृत्वा, 'जात्यन्विताः' विशिष्टजातिसम्भूताः 'हीनजात्युद्भवोऽयम्' इति मत्या, 'शिष्यसमृद्धिमन्तः' परिवारसम्पदुपेताः 'अल्पपरिवारोऽयम्' इति बुद्ध्या गुरोः 'अवज्ञाम्'
१°द् "निच्छूढा" मो. ताटी० । °द् 'नियूंढा' निष्का डे० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org