SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ११९६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [कृतिकर्मप्रकृते सूत्रम् १८ प्रायेण 'धूलीधवलः' रजोगुण्डितदेहः 'असंस्फुरश्च' असंवृतोऽसौ भवति, अतो यद्यसावपि प्राघुणकमागतं नोत्तिष्ठति तदा महद् दूषणमामोति, अत एतस्य चतुर्गुरुकाः प्रायश्चित्तम् । किञ्च-यश्चञ्चल:- खंभावात् चपलोऽपि सन् गुर्वादीनां नाभ्युत्तिष्ठति तं 'दण्डः' प्रायश्चित्तलक्षणो दीयमानः पालयति, चञ्चलत्वमपनयतीत्यर्थः ॥ ४४२८ ॥ अपि च5 जइ ता दंडत्थाणं, पावइ बालो वि पयणुए दोसे । ह णु दाणि अक्खमं णे, पमाइउं रक्खणा सेसे ॥४४२९ ।। बालस्यापि गुरुके प्रायश्चित्ते दत्ते सति शेषसाधवश्चिन्तयेयुः–यदि तावदयं बालोऽपि 'प्रतनुके' अनभ्युत्थानमात्रलक्षणे स्वल्पेऽप्यपराधे एवं दण्डस्थानं प्राप्नोति "ह णु दाणि" ति तत इदानीमस्माकं 'प्रमत्तुम्' अभ्युत्थाने प्रमादं कर्तुम् 'अक्षमम्' अनुचितमिति शेषसाधुवर्ग10 स्यापि रक्षणं कृतं भवति ॥ ४४२९ ॥ आह–अभ्युत्थानमकुर्वतामात्म-संयमयोस्तावत् काचिदपि विराधना नास्ति ततः किं कारणमेवमेव प्रायश्चित्तं दीयते ? उच्यते दिद्वंतों दुवक्खरए, अब्भुट्टितेहिं जह गुणो पत्तो। तम्हा उठेयव्यो, पाहुणओ गच्छे आयरिओ ॥ ४४३०॥ इह प्राघुणकमाचार्यमनुत्तिष्ठन् भगवतामाज्ञामतिकामति । तथा चात्र 'व्यक्षरकेण' 15 दासेन दृष्टान्तः-- एगो राया, सो केणइ दुअक्खरएणं आराहिओ । रन्ना से पढ़ें बंधिउं पहाणं रजं दिन्नं । तत्थ दंड-भड-भोइयाइणो 'दुअक्खरो' ति काउं परिभवेणं तस्स अभुट्ठाणाइयं न करेंति, ताहे तेण ते अणभुटेता दंडिया मारिया य । जे विणीया ते अब्भुष्टुिति, तेसिं तेण परितुटेण रजसंविभागो दिन्नो ॥ 20 अथार्थोपनयः-यथा तैरभ्युचिष्ठद्भिरिहलोके गुणः प्राप्तः तथा साधवोऽपि प्राघुणकमाचार्यमभ्युत्तिष्ठन्त इह परत्र च गुणानासादयन्ति । तस्मात् प्राघुणक आचार्यः सकलेनापि गच्छेनाभ्युत्थातव्यः ॥१४३० ॥ अमुमेव यक्षरकदृष्टान्तं व्याख्यानयति आराहितो रज सपट्टबंधं, कासी य राया उ दुवक्खरस्स । पसासमाणं तु कुलीयमादी, नादंति तं तेण य ते विणीया ॥ ४४३१ ॥ 25 आराधितः' केनापि गुणविशेषेण परितोषं प्रापितः सन् राजा द्यक्षरकस्य सपट्टबन्धं राज्यमकार्षीत् , पट्टबन्धनृपतिं तं विहितवानिति भावः । ततस्तं यक्षरकराजं राज्यं प्रशासतं 'कुलीनादयो नाद्रियन्ते' 'वयं कुलीनाः, अयं तु हीनकुलोत्पन्नः, आदिशब्दाद् वयं प्रधानपुरुषाः, अयं पुनः कर्मकरः' इत्यादिपरिभवबुद्ध्या नाभ्युत्थानादिकमादरं तस्य कुर्वन्ति । ततस्ते तेन राज्ञा 'विनीताः' शिक्षा प्रापिताः, “विनयः शिक्षा-प्रणत्योः" (हैमाने० त्रिखर० श्लोक 30११०५) इति वचनात् ॥ ४४३१ ॥ कथं शिक्षिताः ? इत्याह सव्वस्सं हाऊणं, निजूढा मारिया य विवदंता । भोगेहिँ संविभत्ता, अणुकूल अणुव्वणा जे उ ॥ ४४३२॥ ११ एतचिहान्तर्गतः पाठः भा० नास्ति ॥ २ निच्छूढा भा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy