Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 338
________________ भाष्यगाथाः ४४५२-५८] तृतीय उद्देशः । १२०३ सा वि य इरियासमिती, न केवलं चंकमंतस्स ॥ ४४५५ ॥ न केवलं 'चमतः' चक्रमणं कुर्वत एव ईर्यासमितिः किन्तु 'स्थितस्य' गमना-ऽऽगमनक्रियामकुर्वतः 'भङ्गिकादिषु' भङ्गबहुल-गमबहुलादिश्रुतेषु परावर्त्यमानेषु भङ्गकादिरचनाय याऽपि हस्तादीनां चेष्टा साऽपि परिस्पन्दरूपत्वादीर्यासमितिः प्रतिपत्तव्या ॥ ४४५५ ॥ यच्च परेण प्रागुक्तम् “चङ्कमणं निरर्थकम्" (गा० ४४४७) इत्यादि तत्परिहाराय b चङ्गमणगुणानुपदर्शयति वायाई सट्टाणं, वयंति कुविया उ सनिरोहेणं । लाघवमग्गिपडुत्तं, परिस्समजतो य चंकमतो ।। ४४५६ ॥ अनुयोगदानादिनिमित्तं यश्चिरमेकस्थानोपवेशनलक्षणः सन्निरोधस्तेन 'कुपिताः' खस्थानात् चंलिता ये वातादयो धातवस्ते चमतो भूयः स्वस्थानं व्रजन्ति । 'लाघवं' शरीरे लघुभाव उप-10 जायते । 'अमिपटुत्वं' जाठरानलपाटवं च भवति । यश्च व्याख्यानादिजनितः परिश्रमस्तस्य जयः कृतो भवति । एते चमतो गुणा भवन्ति अतो न निरर्थकं चक्रमणम् ॥ ४४५६ ।। - आह-यद्येवं ततः किमवश्यं तत्राभ्युत्थानं कर्त्तव्यम् उत न ? इति अत्रोच्यते चंकमणे पुण भइयं, मा पलिमंथो गुरूविदिन्नम्मि। पणिवायवंदणं पुण, काऊण सई जहाजोगं ॥ ४४५७ ॥ पुनःशब्दो विशेषणे, स चैतद् विशिनष्टि-पश्रवण-विचारभूम्यादेरागतस्य गुरोः कर्त्तव्यमेवाभ्युत्थानम् , चङ्कमणे पुनः 'भक्तं' विकल्पितम् । कथम् ? इति अत आह-मा सूत्रा-ऽर्थपरावर्तनयोः 'परिमन्थः' व्याघातो भवत्विति कृत्वा यदि गुरवोऽनभ्युत्थानं वितरन्ति तदा नाभ्युत्थातव्यम् , परमेवं गुरुभिर्वितीर्णे सति 'सकृद' एकवारमभ्युत्थानं विधाय 'प्रणिपातवन्दनं' शिरःप्रणामलक्षणं कृत्वा 'भगवन् ! अनुजानीध्वम्' इति भणित्वा 'यथायोगं' यथेप्सितं 20 सूत्रार्थगुणनादिकं व्यापारं कुर्यात् । अथ गुरवो न वारयन्ति ततो नियमादभ्युत्थातव्यम् ॥ ४४५७ ॥ पुनरपि परः प्रेरयति-यदि चक्रमणा-ऽभ्युत्थाने सूत्रार्थपरिमन्थदोषो भवति तत इदमस्माभिरुच्यते अइमुद्धमिदं वुच्चइ, जं चंकमणे वि होइ उट्ठाणं । __ एवमकारिजंता, भद्दगभोई व मा कुजा ॥ ४४५८ ॥ 'अतिमुग्धम्' अतीवाप्रबुद्धजनोचितमिदं भवद्भिरुच्यते-यत् चङ्क्रमणेऽप्यभ्युत्थानं कर्त्तव्यं भवति । सूरिराह-एवं चक्रमणविषयमभ्युत्थानमकार्यमाणा भद्रकभोजिकस्येव प्रसङ्गतो मा शेषमप्यविनयं कार्युरिति कृत्वा चक्रमणेऽप्यभ्युत्थानं कार्यन्ते । अथ कोऽयं भद्रकभोजिकः ? इति उच्यते___ जहा-एगो भोइतो । तस्स रन्ना तुट्टेणं गाममंडलं पसाएण दिन्नं । सो तत्थ गतो 30 १ अत्रान्तरे भा० प्रतिसत्को द्वितीयः खण्डः समाप्यते । प्रान्ते च तत्र-॥ छ ॥ इति श्रीकल्पाध्ययनटीकायां द्वितीय खण्डं समाप्तमिति भद्रमस्तु ॥... .. ...प्रन्थानं सहश्राणि चतुर्दश ॥छ । इत्युल्लिखितं वरीवृत्यते ।। 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444