Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 336
________________ १२०१ भाष्यगाथाः ४४४५-५१] तृतीय उद्देशः । जावं च णं से जीवे सयासमियं एयइ० तावं च णं से जीवे आरंभे वट्टइ संरंभे वट्टइ० । जावं च णं से जीवे आरंभे चट्टइ० तावं च णं तस्म जीवम्स अंतकिरिया न भवइ (श० ३ ॥४४४७ ।। अत्र सूरिः प्रतिविधानमाहकामं तु एअमाणो, आरंभाईसु वट्टई जीवो। सो उ अणट्ठा णेट्टो, अवि बाहूणं पि उक्खेवो ॥४४४८॥ 'कामम्' अनुमतमिदं यद् एष जीवः 'एजमानः' स्पन्दमानः 'आरम्भादिषु' कर्मबन्धकारणेषु वर्त्तते, 'स तु' स पुनः परिस्पन्दः 'अनर्थ' निष्कारणं 'नेष्टः' नाभिमतः अपि 'बाह्वोरु क्षेपः' बाहूत्क्षेपमात्रोऽपि, किं पुनश्चमणादिरित्यपिशब्दार्थः, १ अर्थादापन्नम्-यः सार्थकश्चमणादिव्यापारः स इष्ट एवेति ॥ ४४४८ ॥ ___ अथ सार्थकोऽपि व्यापारः कथमिष्टः ? इत्यस्यां जिज्ञासायां यथा योगत्रयेऽपि व्यापार्यमाणे 10 दोषां यथा च गुणा भवन्ति तदेतत् प्रतिपादयति मणो य वाया काओ अ, तिविहो जोगसंगहो । ते अजुत्तस्स दोसाय, जुत्तस्स उ गुणावहा ॥ ४४४९ ॥ मनोयोगो वाग्योगः काययोगश्चेति त्रिविधो योगसङ्ग्रहो भवति, सङ्केपतस्त्रिधा योगो भवतीत्यर्थः। ते च' मनो-वाक्-काययोगाः 'अयुक्तस्य' अनुपयुक्तस्य 'दोषाय' कर्मबन्धाय भवन्ति, 15 युक्तस्य तु त एव 'गुणावहाः' कर्मनिर्जराकारिणः सम्पद्यन्ते ॥४४४९॥ इदमेव भावयति जह गुत्तस्सिरियाई, न होंति दोसा तहेव समियस्स । गुत्तीट्ठिय प्पमायं, रंभइ समिई सचेझुस्स ॥ ४४५०॥ यथा किल मनो-वाक्-कायगुप्तस्य ईर्यादिप्रत्यया अनुपयुक्तगमना-ऽऽगमनादिक्रियासमुत्था दोषा न भवन्ति तथैव 'समितस्यापि' चङ्क्रमणं कुर्वत ईयोदिप्रत्यया दोषा न भवन्त्येव । किं 20 कारणम् ? इत्याह-यदा किल गुप्तिषु-मनोगुप्त्यादिषु स्थितो भवति तदा योऽगुप्तिप्रत्ययः प्रमादस्तं निरुणद्धि, तन्निरोधाच्च तत्प्रत्ययं कर्मापि न बध्नाति । यस्तु समितौ स्थितः स सचेष्टस्य यः प्रमादो यश्च तत्प्रत्ययः कर्मबन्धस्तयोनिरोधं विदधाति ॥ ४४५० ॥ परः प्राह-यो गुप्तः स समितो भवति उत न ? इति यो वा समितः स गुप्तो भवति उत न ? इति अत्रोच्यते समितो नियमा गुत्तो, गुत्तो समियत्तणम्मि भइअव्यो। 25 कुसलवइमुदीरंतो, जं वइसमितो वि गुत्तो वि ॥ ४४५१॥ इह समितयः प्रवीचाररूपा इण्यन्ते, गुप्तयस्तु प्रवीचारा-ऽप्रवी चारोभयरूपाः । प्रवीचारो नाम-कायिको वाचिको वा व्यापारः । ततो यः 'समितः' सम्यग्गमन-भाषणादिचेष्टायां प्रवृतः स नियमाद् 'गुप्तः' गुप्तियुक्तो मन्तव्यः, यस्तु गुप्तः स समितत्वे 'भक्तव्यः' विकल्पनीयः । तत्र व सेमितः कथं नियमाद् गुप्तः ? इत्याह-» 'कुशलां' निरवद्यादिगुणोपेतां वाचमुदी-30 रयन् 'यद्' यस्माद् वाक्समितोऽपि गुप्तोऽपि । किमुक्तं भवति ?-यः सम्यगनुविचिन्त्य निरवद्यां भाषां भाषते स भाषासमितोऽपि वाग्गुप्तोऽपि च भवति, गुप्तेः प्रवीचाररूपतयाऽप्य १-२ - एतचिहान्तर्गतः पाटः भा० नास्ति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444