Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 328
________________ भाष्यगाथाः ४४१३-१९] तृतीय उद्देशः । ११९३ कृतिकर्म द्विविधम् , तद्यथा-अभ्युत्थानं वन्दनकं च । 'तत्र' तयोर्द्वयोर्मध्ये वन्दनकं 'स्थाप्यं पश्चाद् भणिप्यत इत्यर्थः । अभ्युत्थानं तु साम्प्रतमेव वक्ष्यामि ॥ ४४१५ ॥ प्रतिज्ञातमेव निर्वाहयन्नाह अब्भुट्ठाणे लहुगा, पासत्थाद-ऽण्णतिथि-गिहिएसु । अहछंद अण्णतिथिणि, संजइवग्गे अ गुरुगा उ ॥ ४४१६॥ साधुभिः साधूनामेवाभ्युत्थानं विधेयं न गृहस्थादीनाम् , तत्रापि संविमानामेव न पार्श्वस्थादीनाम् । अथ पार्श्वस्थादीनामन्यतीथिकानां गृहिणां च अभ्युत्थानं करोति तदा चत्वारो लघवः । यथाच्छन्दानामन्यतीर्थिनीनां संयतीवर्गस्य चाभ्युत्थाने चतुर्गुरवः ॥ ४४१६ ॥ अथात्रैव दोषानुपदर्शयतिउद्वेइ इत्थि जह एस एंति, धम्मे ठिओ नाम न एस साहू । 10 दक्खिन्नपन्ना वसमेइ चेवं, मिच्छत्तदोसा य कुलिंगिणीसु ।।४४१७॥ संयतं कस्या अपि स्त्रिय अभ्युत्तिष्ठन्तं दृष्ट्वा श्रावकादिश्चिन्तयेत्-यथैष साधुः स्त्रियमायाती दृष्ट्वाऽभ्युत्तिष्ठति तथा 'नाम' इति सम्भावनायाम् , सम्भावयाम्यहम्-नैष सम्यग् 'धर्मे' श्रुतचारित्रात्मके स्थितः, अन्यथा किमेवमेनामभ्युत्तिष्ठति ?, अपि च-एवं स्त्रिया अभ्युत्तिष्ठन् दाक्षिण्यवान् भवति, दाक्षिण्यपण्याच तस्याः 'वशम्' आयत्ततामुपैति, ततश्च ब्रह्मचर्यविराधना-15 दयो दोषाः । यास्तु कुलिङ्गिन्यः-तापसी-परिव्राजिकाप्रभृतयः ताखभ्युत्थीयमानासु यथाभद्रकादीनां मिथ्यात्वगमनादयो दोषा भवन्ति ॥ ४४१७ ॥ अन्यतीर्थिकेषु पुनरिमे दोषाः ओभावणा पवयणे, कुतित्थ उम्भावणा अबोही य । खिसिजंति य तप्पक्खिएहिँ गिहिसुव्वया बलियं ॥ ४४१८ ॥ भौत-भागवत-सौगतादीनामन्यतीर्थिकानामभ्युत्थाने प्रवचनस्य महती अपभ्राजना भवति-20 अहो ! निःसारं प्रवचनममीषाम् यदेवमन्यदर्शनिनामभ्युत्थानं विदधतीति । तदीयस्य च कुतीर्थस्य 'उद्भावना' प्रभावना भवति-एतदेव दर्शनं शोभनतरं यदेवं जैना अप्येतत्प्रतिपन्नानभ्युत्तिष्ठन्तीति । 'अबोही य" ति प्रवचनलाघवप्रत्ययं मिथ्यात्वमोहनीयं कर्मोपचित्य भवोदधौ परिभ्रमन् बोधिलाभं नासादयति । ये च गृहिणः सुव्रताः-शोभनाणुव्रतधारकाः सुश्रावका इत्यर्थः ते 'तत्पाक्षिकैः' शाक्यादिपक्षपातिभिरुपासकैः ‘बलिकम्' अत्यर्थ खिंस्यन्ते-25 अस्माकमेव दर्शनं सर्वोत्तमम् , भवदीयगुरूणामपि गौरवार्हत्वात् ॥ ४४१८ ॥ एए चेव य दोसा, सविसेसयरऽन्नतिथिगीसुं पि। लाघव अणुजियत्तं, तहागयाणं अवन्नो य ॥ ४४१९ ॥ एत एव 'दोषाः' प्रवचनापभ्राजनादयोऽन्यतीर्थिकीष्वपि भवन्ति, नवरं 'सविशेषतराः' शङ्कादिभिर्दोषैः समधिकतरा मन्तव्याः । गृहिणामन्यतीर्थिकादीनां चाभ्युत्थाने सामान्यत इमे 30 दोषाः, तद्यथा-'लाघवम्' 'एतेभ्योऽप्ययं हीनः' इत्येवंलक्षणो लघुभाव उपजायते । 'अनूजिंतत्वं' वराकत्वमुपदर्शितं भवति, तथाहि लोको ब्रूयात्-अहो ! अदत्तदाना श्वाना इव वराका अमी, यदेवमाहारादिनिमित्तमविरतकानामपि चाटूनि कुर्वन्ति । तथा-तेन यथावस्थितपदार्थों Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444