________________
भाष्यगाथाः ४४१३-१९] तृतीय उद्देशः ।
११९३ कृतिकर्म द्विविधम् , तद्यथा-अभ्युत्थानं वन्दनकं च । 'तत्र' तयोर्द्वयोर्मध्ये वन्दनकं 'स्थाप्यं पश्चाद् भणिप्यत इत्यर्थः । अभ्युत्थानं तु साम्प्रतमेव वक्ष्यामि ॥ ४४१५ ॥ प्रतिज्ञातमेव निर्वाहयन्नाह
अब्भुट्ठाणे लहुगा, पासत्थाद-ऽण्णतिथि-गिहिएसु ।
अहछंद अण्णतिथिणि, संजइवग्गे अ गुरुगा उ ॥ ४४१६॥ साधुभिः साधूनामेवाभ्युत्थानं विधेयं न गृहस्थादीनाम् , तत्रापि संविमानामेव न पार्श्वस्थादीनाम् । अथ पार्श्वस्थादीनामन्यतीथिकानां गृहिणां च अभ्युत्थानं करोति तदा चत्वारो लघवः । यथाच्छन्दानामन्यतीर्थिनीनां संयतीवर्गस्य चाभ्युत्थाने चतुर्गुरवः ॥ ४४१६ ॥ अथात्रैव दोषानुपदर्शयतिउद्वेइ इत्थि जह एस एंति, धम्मे ठिओ नाम न एस साहू ।
10 दक्खिन्नपन्ना वसमेइ चेवं, मिच्छत्तदोसा य कुलिंगिणीसु ।।४४१७॥ संयतं कस्या अपि स्त्रिय अभ्युत्तिष्ठन्तं दृष्ट्वा श्रावकादिश्चिन्तयेत्-यथैष साधुः स्त्रियमायाती दृष्ट्वाऽभ्युत्तिष्ठति तथा 'नाम' इति सम्भावनायाम् , सम्भावयाम्यहम्-नैष सम्यग् 'धर्मे' श्रुतचारित्रात्मके स्थितः, अन्यथा किमेवमेनामभ्युत्तिष्ठति ?, अपि च-एवं स्त्रिया अभ्युत्तिष्ठन् दाक्षिण्यवान् भवति, दाक्षिण्यपण्याच तस्याः 'वशम्' आयत्ततामुपैति, ततश्च ब्रह्मचर्यविराधना-15 दयो दोषाः । यास्तु कुलिङ्गिन्यः-तापसी-परिव्राजिकाप्रभृतयः ताखभ्युत्थीयमानासु यथाभद्रकादीनां मिथ्यात्वगमनादयो दोषा भवन्ति ॥ ४४१७ ॥ अन्यतीर्थिकेषु पुनरिमे दोषाः
ओभावणा पवयणे, कुतित्थ उम्भावणा अबोही य ।
खिसिजंति य तप्पक्खिएहिँ गिहिसुव्वया बलियं ॥ ४४१८ ॥ भौत-भागवत-सौगतादीनामन्यतीर्थिकानामभ्युत्थाने प्रवचनस्य महती अपभ्राजना भवति-20 अहो ! निःसारं प्रवचनममीषाम् यदेवमन्यदर्शनिनामभ्युत्थानं विदधतीति । तदीयस्य च कुतीर्थस्य 'उद्भावना' प्रभावना भवति-एतदेव दर्शनं शोभनतरं यदेवं जैना अप्येतत्प्रतिपन्नानभ्युत्तिष्ठन्तीति । 'अबोही य" ति प्रवचनलाघवप्रत्ययं मिथ्यात्वमोहनीयं कर्मोपचित्य भवोदधौ परिभ्रमन् बोधिलाभं नासादयति । ये च गृहिणः सुव्रताः-शोभनाणुव्रतधारकाः सुश्रावका इत्यर्थः ते 'तत्पाक्षिकैः' शाक्यादिपक्षपातिभिरुपासकैः ‘बलिकम्' अत्यर्थ खिंस्यन्ते-25 अस्माकमेव दर्शनं सर्वोत्तमम् , भवदीयगुरूणामपि गौरवार्हत्वात् ॥ ४४१८ ॥
एए चेव य दोसा, सविसेसयरऽन्नतिथिगीसुं पि।
लाघव अणुजियत्तं, तहागयाणं अवन्नो य ॥ ४४१९ ॥ एत एव 'दोषाः' प्रवचनापभ्राजनादयोऽन्यतीर्थिकीष्वपि भवन्ति, नवरं 'सविशेषतराः' शङ्कादिभिर्दोषैः समधिकतरा मन्तव्याः । गृहिणामन्यतीर्थिकादीनां चाभ्युत्थाने सामान्यत इमे 30 दोषाः, तद्यथा-'लाघवम्' 'एतेभ्योऽप्ययं हीनः' इत्येवंलक्षणो लघुभाव उपजायते । 'अनूजिंतत्वं' वराकत्वमुपदर्शितं भवति, तथाहि लोको ब्रूयात्-अहो ! अदत्तदाना श्वाना इव वराका अमी, यदेवमाहारादिनिमित्तमविरतकानामपि चाटूनि कुर्वन्ति । तथा-तेन यथावस्थितपदार्थों
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org