________________
११९२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [कृतिकर्मप्रकृते सूत्रम् १८
चरिमो बहिं न कीरइ, सेहं न सहायगा विजुयलेंति ।
रंगिद्धिपुरिसनायं, सव्वे तत्थेव मावेति ॥ ४४१३ ॥ 'चरमः' पर्यन्तवर्ती बहिर्न क्रियते, शैक्षमपि 'सहायकात्' शिक्षाग्राहकान्न 'वियुगलयन्ति' युगलान्न स्फेटयन्ति, बहिनिष्काश्यमानौ हि तो बहिर्भावं गच्छेताम् , बहिर्भावगमनतः प्रति5 गमनादीनि कुर्याताम् , अतः संस्तारकाः संक्षिप्य तथा प्रस्तरणीयाः यथा 'तयोरपि' चरम-शैक्षयोः संस्तारको प्रतिश्रयमध्य एव पूर्यते । तथा चात्र रङ्गे ये ऋदिमन्तः पुरुषास्तैख़तम्दृष्टान्तः कर्तव्यः --यथा रङ्गभूमौ पूर्व प्राकृतजनैराकीर्णायामपि ये राजा-ऽमात्य-श्रेष्ठिप्रभृतयः प्रधानपुरुषाः पश्चादागच्छन्ति तेषामुपवेशनयोग्यान् अवकाशान् दत्त्वा संक्षिप्ततरावकाशस्थापनेन प्रागुपविष्टा अपि तत्रैव माप्यन्ते; एवमस्माकमपि प्राघूर्णकाः प्रधानपुरुषकल्पाः, ततस्तेषां यथा10 योग्यमवकाशान् दत्त्वा वृषभाः संस्तारकभूमीः संक्षिप्य प्रयच्छन्तः सर्वानपि साधून् तत्रैव मापयन्ति इति ॥ ४४१३ ॥' (ग्रन्थाग्रम् -२९४२०) ॥ यथारलाधिकशय्यासंस्तारपरिभाजनप्रकृतं समाप्तम् ॥
कति कर्म प्रकृतम् सूत्रम्15 कप्पइ निग्गंथाण वा निग्गंधीण वा अहारायणियाए
किड़कम्म करित्तए १८॥ अथ कोऽस्य सूत्रस्य सम्बन्धः ? इत्याह
संथारं दुरुहंतो, किइकम्म कुणइ वातिगं सायं ।
पातो वि य पणिवायं, पडिबुद्धो एक्कमेक्कस्स ॥ ४४१४ ॥ 20 'सायं' प्रदोषसमये पौरुष्यां पूर्णायां गुरुप्रदत्तायां भुवि प्रस्तीर्य संस्तारकमारोहन् 'वाचिकं
कृतिकर्म' 'नमः क्षमाश्रमणेभ्यः' इति लक्षणं वाचनिकं प्रणामं करोति, 'प्रातरपि च' प्रभातेऽपि प्रतिबुद्धः सन्नेकैकस्य साधोः 'प्रणिपातं' वन्दनं यथारत्नाधिकं करोति, अत इदं कृतिकर्मसूत्रमारभ्यते ॥ ४४१४ ॥
अनेन सम्बन्धेनायातस्यास्य व्याख्या--कल्पते निर्ग्रन्थानां वा निम्रन्थीनां वा 'यथारानिक' 25 यो यो रत्नाधिकस्तदनतिक्रमेण कृतिकर्म कर्तुमिति सूत्रसङ्केपार्थः ॥ अथ विस्तरार्थ भाष्यकार आह
किइकम्मं पि य दुविहं, अब्भुट्ठाणं तहेव वंदणगं ।
वंदणगं तहिँ ठप्पं, अब्भुट्ठाणं तु वोच्छामि ॥ ४४१५ ॥ १ एतदने त० पुस्तके-॥ छ ॥ ग्रन्याग्रं० १४१६० ॥ चतुर्दशमसहस्र एकाग्रशतषष्टिः ॥ एतत् ग्रन्थाग्रं ॥ छ ॥ ॥छ ॥ कल्पटीका द्वितीयखंडं ॥ ॥ श्रीः॥ ॥ इति वर्तते । डे० पुस्तके-॥ छ ॥ ग्रन्थाग्रं० १४१६० ॥ इति वर्तते । ताटी० पुस्तके-॥छ ॥ ग्रंथाग्रं १४१६० ॥ ॥छ॥ मंगलं महाश्रीः॥ शुभं भवतु समस्तसंघस्य ॥छ॥श्रीकल्पवृत्तिद्वितीयखंडं इति वर्तते ॥
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org