SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ 10 भाष्यगाथाः ४४०५-१२] तृतीय उद्देशः । ११९१ ततो यस्य विविक्ते प्रदेशे संस्तारकः स तस्यात्मीयमवकाशं प्रयच्छति ॥ ४४०८॥ प्रवातनिवातद्वारमाह निदं न विंदामिह उव्वरेणं, को मे पवायम्मि दएज भूमि । सीएण वारण य मज्झ बाहिं, न पचए अन्नमहऽन्न आह ॥४४०९॥ पित्तलो ब्रूयात्-अहम् 'इह' निवाते संस्तारयन् 'उद्वरेण' घर्मोपतापेन निद्रां 'न विन्दामि' । न लभे, अतः को नाम मे प्रवाते भूमिकां दद्यात् ?; 'अथ' अनन्तरम् 'अन्यः' वातलः सः 'आह' ब्रूयात्-शीतेन वातेन च पीड्यमानस्य मम बहिः प्रसुप्तस्यान्नं 'न पच्यते' न जीर्यते; तत एतौ परस्परं संस्तारकं परिवर्तयतः ॥ ४४०९॥ इह सङ्ग्रहगाथायां खेल-प्रवात-निवातग्रहणमुपलक्षणं तेनेदमभिधीयते जोइंति पक्कं न उ पक्कलेणं, ठावेंति तं सूरहगस्स पासे । एकम्मि खंभम्मि न मत्तहत्थी, बझंति वग्धा न य पंजरे दो ॥४४१०॥ यः 'पक्कः' असङ्खडिकः कलहनशील इत्यर्थः तं पक्केन सह न योजयन्ति, किन्तु यः 'शूरहकः' कलहादिकुर्वतां शिक्षा कत्तुं समर्थस्तस्य पार्श्वे तं स्थापयन्ति । यत एकस्मिन्नालानस्तम्भे द्वौ मत्तहस्तिनौ न बध्येते, परस्परं भण्डनसम्भवात् ; एवमेकस्मिन् पञ्जरे द्वौ व्याघ्रौ न प्रक्षिप्येते ॥ ४४१०॥ 15 अथ "पाहुणए जं विहिग्गहणं" ( गा० ४४०५) ति पदं व्याख्यातुमाह रायणिओ आयरिओ, आयरियस्सेव अकमइ ठागं। इतरो वसभट्ठाए, ठायइ जे ते व दो ठागा ॥ ४४११ ॥ यदि प्राघूर्णक आचार्य रत्नाधिकस्ततोऽसावाचार्यस्यैव 'स्थानम्' अवकाशमाक्रामति, वास्तव्याचार्यस्थाने संस्तारयतीत्यर्थः । 'इतरः' वास्तव्याचार्यः 'वृषभस्य' उपाध्यायस्य 'स्थाने' 20 अवकाशे तिष्ठति' संस्तारयति; अथवा यद् आचार्यसत्कं संस्तारकत्रयं तन्मध्यादेकस्मिन् प्राघुणकाचार्यः प्रसुप्तः, “जे ते व दो ठाग" त्ति ततो यौ तौ द्वाववशिष्यमाणौ संस्तारको तयोरेकस्मिन् वास्तव्याचार्यः संस्तारयति ॥ ४४११ ॥ ओमो पुण आयरिओ, वसभोगासे अणंतरे वसभो। संछोभपरंपरओ, चरिमं सेहं च मोत्तणं ॥ ४४१२॥ 25 अथासौ प्राघुणक आचार्यः 'अवमः' पर्यायलघुस्ततोऽसौ वृषभस्यावकाशे संस्तारयति । वृषभस्तु तदनन्तरे-अवमरानिकस्थाने खपिति । एवं संस्तारकाणां 'संछोभपरम्परकः' परम्परया स्थानान्तरसङ्क्रमणरूपः तावद् मन्तव्यो यावद् द्विचरमः साधुः । यस्तु चरमः-सर्वपाश्चात्यावकाशशायी तं शैक्षं च मुक्त्वा, तयोः संस्तारको नान्यत्र सङ्क्रामयितव्य इति भावः ॥ ४४१२ ॥ इदमेव व्याचष्टे१°हकरणशील तं भा०॥ २°स्य "ठाए" अब भा० ॥ ३ एतदने का० पुस्तके-॥ छ ॥ इति श्रीकल्पस्य द्वितीयं खण्डं। छ॥ इति वर्तते । मो. पुस्तके -ग्रन्था० १४१६० इवि वर्तते ।। 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy