________________
११९०
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ यथारत्ना ० प्रकृते सूत्रम् १७
ग्लानस्य संस्तारकं यः करोति, 'इतरद्वा' संज्ञाद्युत्सर्जनां यो ग्लानं कारयति, मात्रकं वा परिष्ठापयति, उद्वर्त्तन- परावर्त्तनादीनि वा 'तस्य' ग्लानस्य यः करोति तं वैयावृत्यकरं तस्यैव पार्श्वे स्थापयन्ति । यो वा शैक्षं 'मेरां' सामाचारी ग्राहयति तं तस्यैव सकाशे कुर्वन्ति ॥४४०४॥ एवं विस्तीर्णायां वसतौ तावद् विधिरुक्तः, अथ सङ्कीर्णायां विधिमभिधित्सुराह - सम-विसमा थेराणं, आवलिया तत्थ अप्पणो. इच्छा ।
6
खेल पवाय निवाए, पाहुणए जं विहिग्गहणं ॥ ४४०५ ॥
सङ्कीर्णायां वसतौ सर्वत्रापि संस्तारणीयम्, न पुनर्विषम इति कृत्वा कश्चिदप्यवकाशः शून्यो मोक्तव्यः । ततः ‘आवलिकया' पतया यथारलाधिकं विभज्यमाना संस्तारकभूमिः ' स्थविराणां ' वृद्धानां समा वा समागच्छेद् विषमा वा । 'तत्र' विषमायां तेषामात्मीया इच्छा, कोऽर्थः ? यदि 10 सहिष्णुतया विषमेऽपि संस्तारयितुं शक्नुवन्ति ततस्तत्रैव संस्तारयन्ति, अथासहिष्णवस्ततस्तरुणान् समां भूमिमनुज्ञापयन्ति । " खेल" त्ति यस्य खेलः स्पन्दते तस्य मध्येऽवकाशः समायातः, ततस्तेन विविक्तेऽवकाशे यस्य संस्तारकः सोऽनुज्ञापनीयः । यः पित्तलः स प्रवाते स्थातुमभिलषति, यस्तु वातलः स निवाते, एतयोः परस्परं संस्तारकपरावर्त्तो भवति । 'प्राघुणक: ' आचार्यादिः समागतस्तस्यापि यद् विधिना वक्ष्यमाणेन संस्तारकग्रहणं तदनुज्ञातमिति पुरातन - 10 गाथासमासार्थः ॥ ४४०५ ॥ अथैनामेव विभावयिषुराह -
विसमो मे संथारो, गाढं पासा मि एत्थ भजंति ।
को देज मज्झ ठाणं, समं ति तरुणा सयं बेंति ॥ ४४०६ ॥
संस्तारकभूमिः स्थविराणां विषमा तरुणानां समा समायाता, ततो यः स्थविरोऽसहिष्णुः स ब्रूयात् - विषमः 'मे' मदीयः संस्तारकः, पार्श्वाणि च 'अत्र' विषमे शयानस्य गाढं मम 20 भज्यन्ते, अतः को नाम मह्यं समं स्थानं दद्यात् ? इति । ततो ये तरुणास्ते स्वयमेव गुरुभिरनुक्ता ब्रुवते - अस्माकमवकाशे यूयं संस्तारयतेति ॥ ४४०६ ॥
ज पुण अत्थिता, न देंति ठाणं बला न दावेंति ।
देति तहिँ पुंछणादी, बहिभावाऽसंखडं मा वा ॥ ४४०७ ॥
यदि पुनस्तरुणाः समं भूभागमर्थ्यमाना अपि न प्रयच्छन्ति ततो वृषभाः सूरयो वा न 20 तैर्बलाद् दापयन्ति, मा बलाद् दाप्यमानास्ते बहिर्भावं गच्छेयुः असङ्घडं वा कुर्युः । स्थविराश्च 'तत्र' विषमेऽवकाशे पादप्रोज्छनादिकं ददति येन सुखेनैव संस्तारयितुं शक्यते ॥ ४४०७ ॥ खेलद्वारमाह
मज्झम्मि ठाओ मम एस जातो, पासंदए निच्च ममं च खेलो ।
ठाओ सरावस् य नत्थि एत्थं, सिंचिज खेलेण य मा हु सुते ॥ ४४०८ ॥ 30 श्लेष्मलो ब्रूयात् - मम तावदेषः 'स्थायः' अवकाशो मध्ये सञ्जातः, मम च ' खेल: ' श्लेष्मा नित्यं प्रस्पन्दते, अत्र चोभयतोऽपि पार्श्ववर्त्तिसंस्तारकाकीर्णे 'शरावस्य' खेलमल्लकस्य नास्त्यवकाशः, अत्र च संस्तारयन्नहं प्रत्यासन्नसुप्तान् शेषसाधूनपि मा लेष्मणा सिञ्चयमिति ।
१त्थं, सिंभेज ताटी• ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org