________________
भाष्यगाथाः ४३९५-४४०४] तृतीय उद्देशः ।
११८९ परं मुक्त्वा 'अमून् त्रीन्' क्षुल्लक-शैक्ष-वैयावृत्यकरान् वक्ष्यमाणगाथायामभिधास्यमानान् ॥ ४३९९ ॥ आह उपसम्पन्न-ग्लानादीनां क्रियतां प्रथमं संस्तारकप्रदानेनानुग्रहः, यस्तु तपस्वी विपुलां निर्जरामभिलषन् स्वयमेव 'अपावृतेन मया स्थातव्यम्' इत्येवमभिग्रहं गृह्णाति तस्य किमर्थं स्थविरादिभ्यः प्रथमं संस्तारको दीयते ? उच्यते___ काम सकामकिच्चो, अभिग्गहो न उ बलाभिओगेणं ।
। तणुसाहारणहेतुं, तह वि निवाएण्हि ठावेंति ॥ ४४००॥ 'कामम्' अनुमतमिदम्-खकामेन-खकीययैव इच्छया कृत्यः-कर्तव्यो अभिग्रहो न तु बलाभियोगेन, परं तथापि 'तनुसाधारणहेतोः' शरीरस्य शीतोपद्रवसंरक्षणनिमित्तं निवाते प्रदेशे तं स्थापयन्ति ॥ ४४०० ॥ कुतः ? इति चेद् इत्याह
अन्नोन्नकारेण विनिजरा जा, न सा भवे तस्स विवजयेणं । जहा तपस्सी धुणते तवेणं, कम्मं तहा जाण तवोऽणुमंता॥४४०१॥ अन्योन्यकारो नाम-परस्परं वैयावृत्यकरणं तेन या 'विनिर्जरा' विशिष्टकर्मक्षयरूपा सा 'तस्य' अन्योन्यकारस्य 'विपर्ययेण' व्यतिरेकेण न भवति । यथा किल तपखी तपसा 'कर्म' ज्ञानावरणादि धुनोति तथा यस्तस्य साहाय्यकरणेन तदीयतपसो अनुमन्ता तमपि तथैव कर्मक्षयकारिणं जानीहि । अतो युक्तमेवापावृताभिग्रहिकस्यानुग्रहविधानम् ॥ ४४०१ ॥ 15 अथ यदुक्तम्-'अमून् त्रीन् मुक्तवा' (गा० ४३९९) इति तस्य व्याख्यानार्थमाह
बीभेत एव खुड्डे, वेयावच्चकरे सेहे जस्स पासम्मि ।
विसमऽप्पे तिनि गुरुणो, इतरे गहियम्मि गिण्हंति ॥ ४४०२॥ क्षुल्लकः खभावादेव बिभ्यन् भवति, ततो बहिः स्थाप्यमानः कूजित-रुदितादि कुर्यात्, अतो यस्तं परिवर्तयति तस्य समीपे स्थाप्यते । 'वैयावृत्यकरः' ग्लानस्य प्रतिचरकः स म्लान-20 स्यैव पार्श्व क्रियते । शैक्षो यस्य पार्धे शिक्षां गृह्णाति तस्यान्तिके स्थापनीयः । तथा विषमे वा 'अल्पे वा' सङ्कीर्णे प्रतिश्रये त्रीन् संस्तारकान् गुरूणां दत्त्वा ततः 'इतरे' उपसम्पन्नादयो गुरुभिर्गृहीते सति संस्तारकत्रये यथोक्तक्रमेण गृह्णन्ति । एष सङ्घहगाथासमासार्थः ॥४४०२॥ अथास्या एव पूर्वाध बिभावयिषुराहबीभेज बाहिं ठवितो उ खुड्डो, तेणाइगम्मो य अजग्गिरो य ।
सारेइ जो तं उभयं च नेई, तस्सेव पासम्मि करेंति तं तू ॥४४०३॥ क्षुल्लको बहिः स्थापितः सन् बिभियात् , स्तेनादिगम्यो वा भवेत् , 'अजागरणशीलश्च' असौ बहिः सुप्तः सन् केनाप्यनुत्थापितः प्रतिक्रमणवेलायामपि न जागृयात् , ततो यः 'त' क्षुल्लक 'सारयति' शिक्षा ग्राहयति 'उभयं च' संज्ञा-कायिकीलक्षणं तदीयं यः 'नयति' परिष्ठापयति तस्यैव पार्वे तं कुर्वन्ति ॥ ४४०३ ॥
30 संथारगं जो इतरं व मत्तं, उच्चत्तमादी व करेइ तस्स ।
गाहेइ सेहं खलु जो व मेरं, करेंति तस्सेव उ तं सगासे ॥ ४४०४॥ १° उच्यते मा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org