SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ११८८ धम्महालक्खेण च, आवज मासि मादी || ४३९५ ॥ एवमेव विचारविषयेऽपि ऋजुरनृजुश्च वक्तव्यः, मायी मायी चेत्यर्थः । तथैव प्रश्रवणद्वारेsपि विभाषा कर्त्तव्या । धर्मकथाया वा लक्ष्येण - व्याजेन कश्चित् क्रमागत संस्तार कव्यत्यासं करोति सोऽपि 'मायी' मायावानिति कृत्वा मासिकं लघुकमापद्यते । अथ सद्भावतो धर्मकथां 5 करोति ततः शुद्ध एव ॥ ४३९५ ॥ अपि च - तदानीं सद्भावतो धर्मकथायां विधीयमानायाममी गुणाः 15 दुविबुद्धिमलणं, सड्ढा सेजायरेयराणं च । तित्थविवढि पभावण, असारियं चैव कहयंते ॥ ४३९६ ॥ श्रोतॄणां या दुर्विदग्धा - विपरीतशास्त्रपल्लवग्राहिणी बुद्धिस्तस्या मलनं - मर्दनं कृतं भवति । 10 शय्यातरस्य इतरेषां च - श्राद्धानां श्रद्धा वर्धिता भवति । धर्मश्रवणानन्तरं च बहुषु भव्येषु प्रव्रज्यां प्रतिपद्यमानेषु तीर्थस्य विवृद्धिः कृता भवति, प्रभावना च प्रवचनस्य जायते - अहो ! विजयते जैनेन्द्रशासनं यत्रेदृशा धर्मकथालब्धिसम्पन्ना इति । अपि च-- सागारिका बहिधर्मश्रवणव्याक्षिप्ताः सन्तः प्रतिश्रयमध्ये न प्रविशेयुः, ततश्च साधूनामुपकरणं प्रत्युपेक्षमाणानामसागारिकं भवति । एवमेते गुणा धर्मं कथयति भवन्ति ॥ ४३९६ ॥ अथ प्रचलायनद्वारं भावयति - सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ यथारला ० प्रकृते सूत्रम् १७ मा पयल गिव्ह संथारगं ति पयलाइ इय वि जइ वुत्तो । को नाम न निग्गिues, खणमित्तं तेण गुरुओ से ।। ४३९७ ।। गणावच्छेदिकादिना कश्चित् प्रचलायमानो भणितः — मा प्रचलाय, गृहाण संस्तारकम् ; इति उक्तोऽपि यद्यसौ प्रचलायते ततो ज्ञातव्यम् - शठ एषः । कुतः ? इत्याह - ' को नाम ' 20 महानिद्रालुरपि ' क्षणमात्रं' यावता संस्तारको गृह्यते तावन्मात्रं कालं निद्रां न निगृह्णाति ? स तु तावन्तमपि कालं निद्रानिरोधमकुर्वाणः परिस्फुटं मायावानेव मन्तव्यः । अत एव "से" तस्य तीव्रतरमायाविनो मासगुरु प्रायश्चित्तम् ॥ ४३९७ ॥ अथ संस्तारकग्रहणे विधिमाह - विच्छिण्ण कोट्टिमतले, डहराए विसमए अ घेष्पंति । 25 sis अहाराइणियं, राइणिया ते इमे होंति ।। ४३९८ ॥ विस्तीर्णायां वा 'डहरायां वा' सङ्कीर्णायां वसतौ कुट्टिमतले वा विषमे वा भूभागे यथालाधिकं संस्तारेका गृह्यन्ते । ते च रत्नाधिका इमे भवन्ति ॥ ४३९८ ॥ उवसंपज्ज गिलाणे, परित्त खमए अवाउडिय थेरे । तेण परं विच्छिणे, परियाए मोतिमे तिनि ॥ ४३९९ ॥ प्रथमतो गुरूणां संस्तारकत्रयं दत्त्वा ततो यो ज्ञानाद्यर्थमुपसम्पदं प्रतिपन्नस्तस्य संस्तारको 30 दातव्यः । ततो ग्लानस्य, ततः परीतोपधेः, ततः क्षपकस्य, ततो 'अपावृतिकस्य' 'अपावृतेन मया सकलाऽपि रजनी गमनीया' इत्येवं प्रतिपन्नाभिग्रहस्य, तदनन्तरं ' स्थविरस्य' श्रुतेन वयसा वा वृद्धस्य, ततः परं विस्तीर्णे प्रतिश्रये पर्यायरत्नाधिकक्रमेण संस्तारैका ग्रहीतव्याः, १ मानोति । अथ कां• ॥ २°रको गृह्यते । ते त० दे० मो० ॥ ३°रको ग्रहीतव्यः । परंत०डे० ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy