________________
१९८७
भाष्यगाथाः ४३८७-९४] तृतीय उद्देशः ।
विण्टिका यदि नोत्क्षिप्यन्ते तदा गणावच्छेदिकादिसंस्तारकान् विभजमानः सम-विषमाणि स्थानानि न पश्यति, अवकाशानित्यर्थः । तथा एकस्मिन् साधौ विण्टिकासहिते पूर्व स्थिते सति अन्यो न तिष्ठति, स्थातुं न शक्नोतीति भावः । अपि च वेण्टिकासूत्क्षिप्तासु असङ्खडादयो दोषा नैव भवन्ति । यथारत्नाधिकं च संस्तारकग्रहणे विनयः कृतो भवति । 'अममता च' ममत्वं संस्तारकभूमिविषयं परिहृतं भवति । अतः साधुभिः स्वखोपकरणे प्रत्यु-5 पेक्षिते उपाश्रये च प्रमार्जिते सति सूरिभिर्वक्तव्यम्-आर्याः ! उत्क्षिपत स्वाः स्वा विण्टिकाः। एवमुक्ते यो नोत्क्षिपति तस्य मासलघु ॥ ४३९० ॥ अथ वेण्टिकासूक्षिप्यमाणासु कश्चिदिमां मायां कुर्यात्
संथारग्गहणीए, कंटग वीयार पासवण धम्मे ।
पयलणे मासो गुरुओ, सेसेसु वि मासियं लहुगं ॥४३९१ ॥ 10 संस्तारग्रहणकाले सम-सुन्दरभूमिलोभेन कण्टकोद्धरणमहं सम्प्रति करिष्यामि, 'विचारं वा' संज्ञां वा व्युत्स्रष्टुं प्रश्रवणं वा कर्तुं बहिर्गमिष्यामि, धर्म वा शय्यातरादेरग्रे कथयिष्यामि इत्यादि ब्रूयात् , प्रचलायनं वा तदानीं विदध्यात् , एवं मायायाः करणे आज्ञादयो दोषाः । अत्र च प्रचलायने मासगुरु । 'शेषेषु' कण्टकादिषु मायाभेदेषु मासलघुकम् ॥ ४३९१ ॥ अथ कण्टकादिपदानि विवृणोति
15 दुक्खं ठिओ व निजइ, न याणुवाएण पेल्लिउं सका। जो वि य णे अवणेहिइ, तं पि य नाहामि इति मंता ॥ ४३९२ ॥ संथारभूमिलुद्धो, भणाइ छंदेण भंते ! गिण्हित्तो।
संथारगभूमीओ, कंटगमहमुद्धरामेणं ॥ ४३९३ ।। कोऽपि सम-सुन्दरे अवकाशे संस्तारकं कर्तुकामः, तत्र चापरः कोऽपि साधुः स्थित उपविष्टो 20 वर्तते, स च 'दुःखं' दुःखेन 'नीयते' अन्यत्र स्थाप्यते, न च 'अनुपायेन' कण्टकोद्धरणादिव्याजमन्तरेण प्रेरयितुं शक्यः, योऽपि च "णे" इति मदीयं कण्टकमपनेष्यति तमप्यह ज्ञास्यामीति मत्वा संस्तारकभूमिलुब्धो भणति-भदन्त ! इतः संस्तारकभूमीत उत्थाय 'छन्देन' खाभिप्रायेण 'गृह्णीत' संस्तारकम् , अहं पुनरत्र कण्टकमेनमुद्धरामीति । एवं मायाकरणे मासलघु प्रायश्चित्तम् ॥ ४३९२ ॥ ४३९३ ॥ १ अथ सद्भावादेव कण्टको लग्नः ततः किम् ? इति अत आह-~
लग्गे व अणहियासम्मि कंटए उक्खिवावे अन्नेणं ।
मज्झच्चगमवणेत्ता, कमागयं गेण्हह ममं पि ॥ ४३९४ ॥ 'वा' इत्यथवा सद्भावेनैव तस्य कण्टको लगः स च अनधिसह्यः-सोढुमशक्यः ततो वेण्टिकामन्येनोत्क्षेपयेत् । उत्क्षेप्य च ब्रूयात्-मदीयं कण्टकमपनीय क्रमागतं ममापि योग्यं 30 संस्तारकं गृहीत; एष शुद्धः ॥ ४३९४ ॥ अथ विचारादिद्वाराण्यतिदिशन्नाह
एमेव य वीयारे, उज्जु अणुज तहेव पासवणे । १°षयं न भव भा० ॥ २॥ एतदन्तर्गतमवतरणं भा० नास्ति ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org