________________
१९८६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ यथारला०प्रकृते सूत्रम् १७ कुर्वन्ति ततो वक्तव्यम्-श्रमणा वयं न स्तेनाः । यदि च स सन्निवेशो निर्भयो भवति तदा "बहि ठाण" ति बहिरेव गच्छस्तावदवस्थानं करोति, वृषभास्तु वसतिप्रत्युपेक्षणार्थ ग्रामं प्रविशन्ति । तत्र च शून्यगृहं पूर्वभणितेन विधिना प्रत्युपेक्ष्य सर्पादिपतनभयाद् गोपालकञ्चुकं परिधाय 'दारुदण्डेन' दण्डप्रोञ्छनकेन वसतिमुपरि प्रस्फोटयन्ति, ततो गच्छः प्रविशति 6॥ ४३८६ ॥ अथ संस्तारकग्रहणविधिमाह
संथारगभूमितिगं, आयरिए सेसगाण एकेकं । [ओ.नि. २०३]
रंदाएँ पुप्फकिन्ना, मंडलिया आवली इतरे ॥ ४३८७ ॥ "आयरिए" ति षष्ठी-सप्तम्योरथ प्रत्यभेदादाचार्यस्य योग्यं संस्तारकभूमित्रयं प्रथमतो निरूपणीयम्-तत्रैका निवाता संस्तारकभूमिः, अपरा प्रवाता, अन्या निवात-प्रवाता । शेषाणां 10 साधूनां योग्यामेकैकां संस्तारभूमिमन्वेषयेत् । इह च वसतिस्त्रिधा–विस्तीर्णा क्षुल्लिका प्रमाणयुक्ता च । तत्र रुन्दा नाम-विस्तीर्णा घशालादिरित्यर्थः तस्यां 'पुष्पावकीर्णाः' पुष्पप्रकरवदवकीर्णाः-अनियतक्रमा अयथायथं खपन्ति येन सागारिकाणामवकाशो न भवति । अथ क्षुल्लिका ततो मध्ये पात्रकाणि कृत्वा मण्डलिकाकारेण पार्श्वतः शेरते । 'इतरा नाम प्रमाणयुक्ता तस्याम् 'आवल्या' पतया खपन्ति ॥ ४३८७ ॥ 15 . अत्रैव विधिविपर्यासे प्रायश्चित्तमाह----
सीसं इतो य पादा, इहं च मे वेंटिया इहं म ।
जइ अगहियसंथारो, भणाइ लहुगोऽहिकरणादी ॥ ४३८८॥ इतो मे शीर्ष भविष्यति, इह मे पादौ भविष्यतः, इह च मे वेण्टिका भाजनानि वा स्थास्यन्ति, एवं यद्यगृहीतसंस्तारको आत्मीयया इच्छया भणति विण्टिकादिकं च स्थापयति 20 तदा लघुमासः प्रायश्चित्तम् ; अधिकरणादयश्च दोषा भवन्ति । अधिकरणं नाम-द्वितीयोऽपि साधुरेवमेव ब्रूयात्-ममाप्यत्रैव शीर्षादि भविष्यतीति। ततश्चास्थिभङ्गादयो दोषाः ॥ ४३८८॥ यत एवमतः
संथारग्गहणीए, वेंटियउक्खेवणं तु कायव्वं । [ओ.नि. २०४]
संथारो घेत्तव्यो, माया-मयविप्पमुक्केणं ॥ ४३८९ ॥ 25 "संथारग्गहणीए" ति आर्षत्वात् स्त्रीत्वम् , संस्तारकग्रहणकाले वेण्टिकाया उत्क्षेपणं कर्त्तव्यं
येन सुखेनैव दृष्टायां भुवि संस्तारका विभक्तुं शक्यन्ते । स च संस्तारको यो यस्मै साधवे दीयते स तेन माया-मद विप्रमुक्तेन ग्रहीतव्यः । माया नाम-'अहं वातार्थी, ममात्रावकाशं प्रयच्छत' इत्यादिका सुन्दरतरावकाशलोभेनासद्भूतकारणनिवेदनलक्षणा, मदः-अहङ्कारः 'अहो! अहममुष्मादपि गरीयान् येन मे शोभना संस्तारकभूमिः प्रदत्ता' इति ॥ ४३८९ ॥ 30 अथ किमर्थं संस्तारकग्रहणकाले वेण्टिका उत्क्षिप्यन्ते ? उच्यते
सम-विसमा न पासइ, दुक्खं च ठियम्मि ठायई अन्नो ।
नेव य असंखडादी, विणयो अममिजया चेव ॥ ४३९० ॥ १ण्डल्याका भा०॥ २॥ एतचिह्नमध्यगतमवतरणं भा० नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org