________________
११८५
भाग्यगाथाः ४३७८-८६] तृतीय उद्देशः।
तिन्नि दुवे एको वा, वसहीपेहट्ठया पविसे ॥ ४३८२ ।। ये गीतार्थाः परिणतवयसो अत एव 'हतशङ्काः' अशङ्कनीयाः ते गुरुमापृच्छय दण्डप्रोञ्छनकं चिलिमिली दवरकांश्च गृहीत्वा त्रयो जनास्तदभावे द्वौ जनौ तदप्राप्तावेको वा वसतिप्रत्युपेक्षणार्थ ग्रामं प्रविशन्ति । ततो वसतिं गृहीत्वा प्रमृज्य च चिलिमिलिकां च दत्त्वा सबालवृद्धमपि गच्छं तत्र प्रवेशयन्ति ॥ ४३८२ ॥ १ अथ 'विकालवेलायां न प्रवेष्टव्यम्' इति यदुक्तं तदपवदन्नाह--
बिइयं ताहे पत्ता, पए व पत्ता उवस्सयं न लभे।
सुन्नघर देउले वा, उजाणे वा अपरिभोगे ॥ ४३८३ ॥ द्वितीयपदमत्राभिधीयते--'तदानीं' विकालवेलायामेव प्राप्ताः, यद्वा 'प्रगे' प्रभाते प्राप्ताः परमुपाश्रयं न लभन्ते ततो विकालेऽपि प्रविशेयुः । प्रभातप्राप्ताश्च दिवा शून्यगृहे देवकुले वा 10 उद्याने वा 'अपरिभोग्ये' जनोपभोगरहिते तिष्ठन्ति, तत्रैव च समुद्देशनं कुर्वन्ति ॥ ४३८३ ॥
आवाय चिलिमिणीए, रन्ने वा निब्भये समुद्दिसणं । [ओ.नि. २००]
सभए पच्छन्नाऽसइ, कमढग कुरुया य संतरिया ॥ ४३८४ ॥ अथ शून्यगृहादौ सागारिकाणामापातो भवति ततश्चिलिमिलिकां दत्त्वा समुद्देष्टव्यम् । अरण्यं वा यदि निर्भयं ततस्तत्र गत्वा समुद्दिशन्ति । अथारण्यं सभयं ततो वसिमसमीपे 15 एव यः प्रच्छन्नः प्रदेशस्तत्र समुद्देशनं कर्त्तव्यम् । अथ प्रच्छन्नस्थानं नास्ति ततस्तत्रैव शून्यगृहादौ 'कमठकेषु' शुक्ललेपेन सबाह्याभ्यन्तरं लिप्तेषु कांस्यकरोटकाकारेषु समुद्दिशन्ति, 'कुरुकुचा च' समुद्देशनानन्तरं पादप्रक्षालनादिका बहुना द्रवेण कर्तव्या, समुद्दिशन्तश्च 'सान्तराः' सावकाशा बृहदन्तराला उपविशन्ति । एवं भुक्त्वा बहिरेव संज्ञादि व्युत्सृज्य ततो ग्रामं प्रविशन्ति । प्रविष्टाश्च या पूर्व भिक्षां हिण्डमानैर्वसतिः प्रत्युपेक्षिता तस्यां वसन्ति ॥ ४३८४ ॥ 20 कथम् ? इत्याह
कोढग सभा व पुव्वं, काल-वियाराइभूमिपडिलेहा । [ओ.नि. २०१]
पच्छा अतिति रतिं, अहवण पत्ता निसिं चेव ॥ ४३८५ ॥ 'कोष्ठकः' आवासविशेषः 'सभा' प्रतीता, एवमादिकं यत् 'पूर्व' भिक्षां पर्यटद्भिः प्रत्युपेक्षितं तत्र कालग्रहणयोग्यां भूमिं विचारस्य च-संज्ञाया आदिशब्दात् कायिक्याश्च भूमि सूर्ये ध्रिय-25 माण एव प्रत्युपेक्षन्ते । ततः पश्चात् सर्वेऽपि वसतौ 'रात्रौ' प्रदोषसमये 'अतियन्ति' प्रविशन्ति । "अहवण" ति अथवा ते साधवस्तत्र निशायामेव प्राप्ता भवेयुः ।। ४३८५॥ ततः को विधिः ? इत्याह
गोम्मिय भेसण समणा, निब्भय बहि ठाण वसहिपडिलेहा। [ओ.नि. २०२]
सुन्नघर पुव्यमणिए, कंचुग तह दारुदंडे य ॥ ४३८६ ॥ गुल्मेन-समुदायेन चरन्तीति 'गौल्मिकाः' स्थानरक्षपालाः ते यदि 'भेषणं' वित्रासनं १ गुरूनापृ भा. कां० ॥ २ एतदन्तर्गतमवतरणं भा० नास्ति ॥ ३°त्र प्रोच्यते का। ४ रति, पत्ता वा ते भवे रति भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org