________________
१९८४ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ यथारना०प्रकृते सूत्रम् १७ भावः । 'जं च" त्ति यच्चे रात्रावन्योऽन्यालपनेऽप्कायानयनादिकमधिकरणं तन्निष्पन्नं प्रायश्चित्तम् । » तथा तत्रोपाश्रये रात्री प्राप्ताः सन्तः 'कालभूमी न प्रत्युपेक्षिता' इति कृत्वा यदि खाध्यायं न कुर्वन्ति ततः सूत्रा-ऽर्थनाशादयो दोषाः । अथ कुर्वन्ति ततः सामाचारीविराधना ॥ ४३७७ ॥ अथ संस्तारकद्वारं व्याख्याति
अप्पडिलेहिय कंटा, बिलं व संथारगम्मि आयाए। [ओ.नि. १९६]
छकायाण विराहण, विलीण सेहऽनहाभावो ॥ ४३७८॥ अप्रत्युपेक्षितायां वसतौ कण्टका भवेयुः, बिलं वा सर्पादिसम्बन्धि, ततः संस्तारके प्रस्तीर्यमाणे आत्मनि विराधना भवेत् । पृथिव्यादयो वा षट्कायास्तत्र भवेयुः, तेषां संस्तारकेणाक्रम्य
माणानां विराधना भवति । 'विलीनं वा' जुगुप्सितं संज्ञा-कायिक्यादिकं तत्र भवेत् , ततः 10 शैक्षस्य जुगुप्सया 'अन्यथाभावः' उन्निष्क्रमणाभिप्रायो भवेत् ॥ ४३७८ ॥ अथोच्चार-प्रश्रवणद्वारद्वयं युगपदाह
खाणुग-कंटग-वाला, बिलम्मि जइ वोसिरिज आयाए । [ओ.नि.१९७]
संजमओ छक्काया, गमणे पत्ते अइंते य ॥ ४३७९ ॥ अप्रत्युपेक्षिते प्रतिश्रये स्थाणु-कण्टक-व्याला भवेयुः, तदाकुले बिलसमाकुले वा प्रदेशे 15 यदि व्युत्सृजति तत आत्मविराधना । अथ पृथिव्यादिषट्कायवति भूभागे व्युत्सृजति ततः संयमविराधना । एते द्वे अपि विराधने “गमणे" त्ति संज्ञा-कायिकीव्युत्सर्जनार्थं गच्छतः "पत्ते" त्ति संज्ञाभुवं कायिकीभुवं वा प्राप्तस्य “अइंते अ" त्ति संज्ञां कायिकी वा व्युत्सृज्य भूयोऽपि वसतिं प्रविशतो यथासम्भवं मन्तव्ये ॥ ४३७९ ॥ अथ विराधनाभयाद् न व्युत्सृजति तत इमे दोषाः
मुत्तनिरोहे चक्, वच्चनिरोहेण जीवियं चयइ । [ओ.नि. १९८]
उड्डनिरोहे कोडं, गेलनं वा भवे तिसु वि ॥ ४३८० ॥ मूत्रस्य निरोधे विधीयमाने चक्षुरुपहन्यते । वर्चः-पुरीषं तस्य निरोधेन जीवितं परित्यजति, अचिरादेव मरणं भवतीत्यर्थः । ऊर्द्ध-वमनं तस्य निरोधे कुष्ठं भवति । 'ग्लान्यं वा'
सामान्यतो मान्द्यं त्रिष्वपि' मूत्र-पुरीष-वमनेषु निरुध्यमानेषु भवेत् ।। ४३८० ॥ 25 यत एते दोषा अतः
पढम-विइयाएँ तम्हा, गमणं पडिलेहणा पवेसो य ।
पुव्वठियाऽसइ गच्छं, ठवेत्तु बाहिं इमे तिन्नि ॥ ४३८१ ॥ तस्मात् प्रथमायां द्वितीयस्यां वा पौरुण्यां विवक्षितग्रामे गमनं कृत्वा ततो वसतेः प्रत्युपेक्षणा प्रवेशश्च तस्यां कर्तव्यः । कथम् ? इत्याह-यदि तत्र केऽपि साधवः पूर्वस्थिताः 30 सन्ति तदा सर्वेऽपि प्रविशन्ति । अथ न सन्ति पूर्वस्थिताः ततो गच्छं क्वचिद् वृक्षादेरधो बहिः स्थापयित्वा 'इमे' ईदृशास्त्रयः साधवो ग्रामं प्रविशन्ति ॥ ४३८१ ॥
परिणयवय गीयत्था, हयसंका पुंछ चिलिमिली दोरे । AD एतदन्तर्गतः पाठः भा० नास्ति ॥ २ °व्याल-बिलसमाकुले प्रदेशे भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org