________________
भाष्यगाथाः ४३७१-७७] तृतीय उद्देशः।
. भक्त-पानस्योपकरणस्य च सम्बन्धिना भारेण वेदना या भवेत् तया च स्थाणु-कण्टकादीन् दोषान् न प्रेक्षते, ततश्चात्मविराधना । यत् पुनरीर्याया अशोधनं सा संयमविराधना । परिगलति च भक्त-पाने षट्कायविराधना ॥ ४३७४ ॥ तत्रप्राप्तानां दोषानभिधित्सुराह
पविसण मग्गण ठाणे, वेसित्थि दुगंछिए य सुण्णे य । [ओ.नि.१९३]
सज्झाए संथारे, उच्चारे चेव पासवणे ॥ ४३७५ ॥ अन्यस्मिन् ग्रामे विकालवेलायां प्रवेशे कृते वसतेर्मागणे परस्परस्फिटितानामाकारणेन महानधिकरणदोषो भवति । वेश्यास्त्रीपाटके चर्मकारादिस्थाने वा जुगुप्सिते तिष्ठतां वक्ष्यमाणं दोषजातं 'शून्यगृहादौ च' अप्रत्युपेक्षितायां वसतौ स्वाध्याय » संस्तारकमुच्चार प्रश्रवणं च कुर्वतामकुर्वतां च बहवो दोषा भवन्तीति द्वारगाथासमासार्थः ॥ ४३७५ ॥ अथैनामेव विवृणोति
__10 सावय तेणा दुविहा, विराहणा जा य उवहिणा उ विणा [ओ.नि. १९४]
गुम्मिय गहणा-ऽऽहणणा, गोणादी चमढणा रत्तिं ॥ ४३७६ ॥ विकाले प्रविशतां श्वापदभयं भवति । स्तेना द्विविधाः' शरीरापहारिण उपकरणापहारिणश्च, ते तदानीमभिद्रवन्ति । उपधावपहृते या तेन बिना तृणग्रहणा-ऽग्निसेवनादिका संयमविराधना तन्निष्पन्नम् । अथवा स प्रत्यन्तप्रदेशवर्ती ग्रामः ततस्तत्र बद्ध स्थानकाः 'गौल्मिकाः' 15 आरक्षिकपुरुषाः स्तेनादीनभिलीयमानान् रक्षन्ति, ते विकालवेलायां प्राप्तानां 'स्तेना अमी' इति बुद्ध्या ग्रहणा-ऽऽहननादिकं कुर्युः । अथवा विकाले प्रविशन्तो गवादिभिः पादप्रहारादिकां चमढनामासादयन्ति । । ऐते रात्रौ प्राप्तानां दोषाः ॥ ४३७६ ॥ किञ्च
फिडियऽन्नोन्नाऽऽगारण, तेणर्य रतिं दिया व पंथम्मि । [ओ.नि.१९५]
साणाइ वेस कुच्छिय, तवोवणं मूसिगा जं च ॥ ४३७७॥ 20 विकाले वसतिगवेषणार्थ पृथक् पृथग् गताः, ततः 'स्फिटिताः' परस्परपरिभ्रष्टाः सन्तोऽ. न्योऽन्यम् आकारणं-व्याहारणं कुर्युः । स्तेनकास्तद्वचनं श्रुत्वा रात्रौ मुषितुमभिलषेयुः, दिवा वा द्वितीये दिवसे 'पथि' मार्गे गच्छतस्तान् स्तेनका मुषेयुः । श्वानादयो वा रात्रौ वसतिगवेपणार्थं पर्यटतस्तान् उपद्रवेयुः । “वेस कुच्छिय" त्ति रात्रौ च वसतिमन्वेषयन्तो न जानन्ति किमेतद् गृहं वेश्यापाटकस्य प्रत्यासन्नम् ? उत न ? इति, यद्वा किमेतत् चर्मकार-रजकादिजु-25 गुप्सितकुलासन्नम् ? आहोश्चिद् न ? इति । एवं चाजानानास्ते वेश्यापाटकासन्ने प्रतिश्रये वसेयुः ततो लोको ब्रूयात्-अहो! तपोवनमध्यासते जितेन्द्रिया अमी महर्पय इति । अथ जुगुप्सितस्थानासन्ने स्थितास्ततो लोको ब्रवीत-स्वस्थानं मूषिकाः समागताः, एतेऽप्येवंजातीया इति
१'वेदनया' च क्षुदादिरूपया स्था भा० ॥ २ ॥ एतदन्तर्गतः पाठः भा० कां० एव वर्तते ॥ ३ गोमादी ताभा०॥ ४°णा चेव भा० । एतत्पाठानुसारेणैव भा० प्रती व्याख्येति न तत्र "रति" पदव्याख्या वर्तते, दृश्यतां टिप्पणी ५॥५ - एतदन्तर्गतः पाठः भा० नास्ति ॥६°यराओ दि. भा०॥ ७°गा चेव भा० । एतत्पाठानुसारेणैव भा० प्रती व्याख्येति न तत्र "जंच" इति पदस्य व्याख्या वर्तते । दृश्यता पत्रं ११८४ टिप्पणी ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org