________________
१९८२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ यथारना प्रकृते सूत्रम् १७ दिकं न पश्येयुः, एवं च यथाक्रम संयमा-ऽऽत्मनोविराधना । ततः 'भक्तार्थि-व्युत्सृष्टाः' पूर्व भक्तार्थिताः-बहिरेव समुद्दिष्टास्ततो व्युत्सृष्टाः-कृतपुरीष-प्रश्रवणोत्सर्गाः सन्तो ग्रामम् 'अतियन्तु' प्रविशन्तु, एवं हि 'दोषाः' संयमा-ऽऽत्मविराधनालक्षणाः परित्यक्ता भवन्ति ॥ ४३७०॥ अथाचार्यः प्रत्युत्तरयति
आयरियवयण दोसा, दुविहा नियमा उ संजमा-ऽऽयाए । [ओ.नि. १८९]
वञ्चह को वा सामी, असंखडं मंडलीए वा ॥ ४३७१ ।। आचार्यस्य वचनमिदम्-त्वदुक्तनीत्या बहिर्मुञ्जानानां नियमाद् 'द्विविधाः' संयमा-ऽऽत्मविराधना[लक्षणाः ] दोषा भवन्ति । तथाहि-तैस्तत्र भक्त-पानमानीतं सागारिकाश्च कुतूहल
वशात् तदर्शनार्थमागताः, ततो यदि तावन्तं कालं भक्त-पानं धारयन्तस्तिष्ठन्ति तदा भारेण 10 महती परितापना भवेत् सूत्रार्थयोश्च परिहाणिरुपजायेत । अथ सागारिकान् ब्रुवते-'व्रजत यूयम्' ततोऽधिकरणं भवति । अथवा ते सागारिका एवमुच्यमाना ब्रवीरन्-कोऽस्य वृक्षस्य देवकुलस्य वा खामी ये चास्माकं सम्मुखं 'व्रजत' इति भणत ? । एवमसङ्खडे तैः सह सञ्जाते ततश्च भाजनभेदादयो दोषाः । अथ मण्डल्यां रचितायां सागारिकाः समागच्छन्ति ततो महान्तमुड्डाहं कुर्युः ॥ ४३७१ ॥ अमुमेवार्थ सविशेषमाह
भत्तद्वण सज्झाए, पडिलेहण रत्तिगेण्हणे जं च ।।
पुव्वण्हम्मि उ गहणे, परिहरिया ते भवे दोसा ॥ ४३७२ ॥ 'भक्तार्थनं' मण्डल्या भोजनं खाध्यायं प्रत्युपेक्षणां वा क्रियमाणां विलोक्य ते उड्डाहं उड्डञ्चकान् वा कुर्वीरन् , तत्रापि तथैवासङ्खडदोषः । अथ ते सागारिकाः प्रद्विष्टाः सन्तो वसतिं
न प्रयच्छन्ति ततोऽपरं ग्रामं गच्छेयुः, तत्र च विकाले प्राप्ताः सन्तो रात्रौ वसतिग्रहणं 20 कुर्वन्तो यद् दोषजालमापद्यन्ते तन्निष्पन्नं प्रायश्चित्तम् , अतः पूर्वाह्ने एव वसतेर्ग्रहणं कर्तव्यम् । ततश्च 'ते' पूर्वोक्ता दोषाः परिहृता भवन्ति ॥ ४३७२ ॥ किञ्च
कोतूहल आगमणं, संखोहेणं अकंठगमणादी। [ओ.नि. १९०]
' ते चेवऽसंखडादी, वसहिं च न देति जं चऽन्नं ॥ ४३७३ ॥ मण्डल्यां सागारिकाः कौतूहलेनागमनं कुर्युः तत्र कस्यापि संयतस्य संक्षोभेण भक्त-पानस्य 25 अकण्ठगमनादिकम्' अश्नोतोगमनप्रभृतिकं भवेत् । अथवा कोऽप्यसहिष्णुर्च्यात्-किमेवं प्रलोकयथ ?; ततस्त एवासङ्खडादयो दोषाः । अथ 'सागारिकम्' इति कृत्वा अभुक्ता एव भक्त-पानव्यग्रहस्ता ग्रामं प्रविशन्ति तत्र च यैः सममसङ्खडं कृतं ते वसतिं न प्रयच्छेयुः, अन्यानपि च ददतो निवारयेयुः । “जं चऽन्नं" ति वसतावप्राप्यमाणायां यदन्यद् दोषजातमापद्यन्ते तनिष्पन्नम् ॥ ४३७३ ॥ 30 अथ वसत्यभावादकृतभोजना एवान्यं ग्राम गच्छेयुः तत इमे दोषाः
भारेण वेयणाए, न पेहई खाणुमाइए दोसे । [ओ.नि. १९१]
इरियाइ संजमम्मी, परिगलमाणे य छक्काया ।। ४३७४ ।। १°-किमस्य वृक्षस्य देवकुलस्य वा यूयं स्वामिनः ? । एव भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org