________________
भाष्यगाथाः ४३६३-७०] तृतीय उद्देशः ।
११८१ य था र ला धि क श य्या संस्ता र परि भा ज न प्रकृ तम् सूत्रम्
कप्पइ निगंथाण वा निग्गंथीण वा आहारायणि
याए सेज्जासंथारए पडिग्गाहित्तए १७ ॥ अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह
घेत्तुं जहकमेणं, उवही संथारएसु ठवयंति ।
तेसि पि जदा गहणं, तं पि हु एमेव संबंधो ॥ ४३६७ ॥ यथारत्नाधिकक्रमेणोपधिं गृहीत्वा ततस्ते वस्त्रसंस्तारकभूमीषु स्थापयन्ति । तेषामपि च' संस्तारकाणां यदा ग्रहणं तदा तदपि 'एवमेव' यथारत्नाधिकं कर्तव्यम् । एष पूर्वसूत्रेण सह सम्बन्धः ॥ ४३६७ ॥
10 अनेन सम्बन्धेनायातस्यास्य व्याख्या-कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा यथारत्नाधिक शय्यासंस्तारकान् प्रतिग्रहीतुमिति सूत्रसङ्केपार्थः ॥ अथेदमेव सूत्रं विवरीषुराह
सेजासंथारो या, सेजा वसही उ थाण संथारो ।
पुव्वण्हम्मि उ गहणं, अगेण्हणे लहुगों आणादी ॥ ४३६८ ॥ शय्यासंस्तारो नाम शय्या-वसतिस्तस्यां यत् 'स्थानं' शयनयोग्यावकाशलक्षणं स शय्या-16 संस्तारक उच्यते । तस्य च शय्यासंस्तारकस्योपाश्रयं प्राप्तैः पूर्वाह्नवेलायामेव ग्रहणं कर्त्तव्यम् । अग्रहणे मासलघु प्रायश्चित्तम् , आज्ञादयश्च दोषाः ॥ ४३६८ ॥
चोयगपुच्छा दोसा, मंडलिबंधम्मि होइ आगमणं । [ओ.नि. १८७]
संजम-आयविराहण, वियालगहणे य जे दोसा ॥ ४३६९ ॥ अत्र नोदकः पृच्छां करोति-यदि पूर्वाल एव ग्रामं प्राप्तास्ततस्तदैव शय्यासंस्तारकमपि 20 गृहन्तु, वयमप्येतत् प्रतिपद्यामहे; परं यदि भक्तवेलायां प्राप्तास्तदा प्रथमं भिक्षां पर्यटन्तु, ततो बहिरेव समुद्दिश्य चरमपौरुषीप्रत्युपेक्षणां कृत्वा खाध्यायं च विधाय विकालवेलायां ग्राम प्रविशन्तु । सूरिराह--"दोस" ति बहिर्भुनानानां बहवो दोषाः । कथम् ? इत्याह-'मण्डलीबन्धे' चिलिमिलिकां दत्त्वा मण्डलीरचनया भोजने विधीयमाने कुतूहलेन सागारिकाणामागमनं भवति, तैः सहासङ्खडे क्रियमाणे संयमा-ऽऽत्मविराधना। विकाले च वसतेग्रहणे ये दोषा भवन्ति 25 तन्निष्पन्नं प्रायश्चित्तं भवतीति द्वारगाथासमासार्थः ॥४३६९॥ साम्प्रतमेनामेव विवरीषुराह
अइभारेण व इरियं, न सोहए कंटगाइ आयाए । [ओ.नि. १८८]
भत्तट्ठिय-चोसिरिया, अतितु एवं जढा दोसा ॥ ४३७० ॥ परः प्राह-भक्तवेलायां प्राप्तैस्तावत् प्रथमतो भक्तं ग्रहीतव्यम् , अन्यथा वेलातिक्रमे भक्त-पानलाभो न भवेत् । ततो भक्त-पानं गृहीत्वा वसतिं गवेषयित्वा यदि तदानीमेव तत्र 30 प्रवेशः क्रियते तदा भक्त-पानोपकरणसत्को यो अतिभारतेन वाशब्दस्यानुक्तसमुच्चयार्थतया बुभुक्षया तृष्णापरितापनया चोपयोगमप्रयच्छन्तः संयमे ईयो न शोधयेयुः, आत्मनि कण्टका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org