________________
१२८०
सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [ यथारना प्रकृते सूत्रम् १७ इतरः क्षप्रकं ब्रूते-'ईदृशं' 'मां वन्दित्वा विनयेन पृच्छ' इत्येवंरूपं 'गर्वभारितम्' अहङ्कारभारगुरुकं वचनं 'कुशलैः' विद्वद्भिः 'न पूजितं' न श्लाषितम् , अतो नैव भवतो वक्तुं युज्यते । अथवा नाप्यत्र वयं 'रुष्यामः' रोषं कर्तुमर्हामः । कुतः ? इत्याह-'अज्ञे' मूर्ख जने प्रकृतिरेषा यत् तथाविधज्ञानविकलोऽप्येष औद्धत्यमुदहति ॥ ४३६२ ॥ क्षपकः प्राह
मूलेण विणा हु केलिसे, तलु पवले य घणे य सोभई ।
न य मूलविभिन्नए घडे, जलमादीणि धलेइ कण्हुई ॥ ४३६३ ॥ मूलेन विना 'तरुः' वृक्षः चशब्दावपिशब्दार्थो, 'प्रवरोऽपि' प्रधानोऽपि सहकारादिरपीत्यर्थः, 'घनोऽपि' पत्रबहलोऽपि कीदृशः शोभते ? न कीदृगपीति भावः; एवं विनयमूलविकलो
धर्मोऽपि न शोभां बिभर्ति । तथा 'न च' नैव मूले-बुध्ने विभिन्नो घटो जलादीनि वस्तूनि 10 क्वचिदपि धारयति, एवं धर्मघटोऽपि विनयमूले सञ्जातछिद्रो न किमपि ज्ञानादिजलं धारयितुमिष्टे । अतोऽहं विनयं कारयामीति प्रक्रमः ॥ ४३६३ ॥
किं वा मए न नायं, दुविहे गहणम्मि जं जहिं कमती ।
भन्नइ अभिनवगहणं, सचित्तं ते न विनायं ॥ ४३६४ ॥ सचित्ता-ऽचित्तभेदाद् द्विविधेऽपि ग्रहणे यद् यत्राभिनवं पुराणं वा कामति तत् तत्र मया 16 किं वा न ज्ञातं येनैवं 'न जानासि ग्रहणखरूपम्' इत्याद्यभिधीयते ? । इतरः प्रतिब्रूते-भण्यते अत्रोत्तरम्-अभिनवं सचित्तग्रहणं त्वया न विज्ञातम् ॥ ४३६४ ॥ तच्चेदम्
अट्ठारस पुरिसेसुं, वीसं इत्थीसु दस नपुंसेसु । पव्वावणाअणरिहा, अनला एएत्तिया वुत्ता ॥४३६५ ।। अडयालीसं एते, वज्जित्ता सेसगाण तिण्हं पि ।
अभिनवगहणं एयं, सचित्तं ते न विनायं ॥ ४३६६ ॥ 'पुरुषेषु' पुरुषविषयाः "बाले वुड्ढे नपुंसे य०" इत्यादिगाथाद्वयोक्ता अष्टादश भेदाः, स्त्रीषु त एव गुर्विणी-बालवत्सासहिता विंशतिर्भेदाः, नपुंसकेषु तु "पंडेए वाइए कीवे०" इत्यादयो दश भेदाः प्रव्राजनाया अनर्हाः-अयोग्याः । अत एव [ “एएत्तिय" त्ति ] एते एतावन्तो
भेदा अनला इति निशीथाध्ययने उक्ताः, "अली भूषण-पर्याप्ति-वारणेषु" इति धातुपाठाद् 28 अपर्याप्ताः, प्रव्रज्यापरिपालनेऽसमर्था इत्यर्थः ॥ ४३६५ ॥
एतान् सर्वसङ्ख्यया अष्टाचत्वारिंशतं भेदान् वर्जयित्वा शेषाणां 'त्रयाणामपि' पुरुष-स्त्री-नपुंसकानां प्रव्राजनं कर्तुं कल्पते । एतदभिनवग्रहणं सचित्तं "ते" त्वया न विज्ञातम् । एवं तेनोक्ते सति क्षपकः 'सती नोदना' इत्यभिधाय प्रवृत्तस्तथैव यथारत्नाधिकं वस्त्रप्रदानं कर्तुमिति ॥४३६६॥
॥ यथारत्नाधिकवस्त्रपरिभाजनप्रकृतं समाप्तम् ॥
१ बाले वड़े नपुंसे य, जडे कीवे य वाहिए । तेणे रायावगारी य. उम्मत्ते य अदंसणे ॥
दासे दुट्टे य मूढे य, अणत्ते जुंगिते इ य । ओबद्धए य भयए. सेहनिप्फेडिते ति य॥" २"पंडए वाइए कीवे, कुंभी ईसालुय ति य । सउणी तकमसेवी य, पक्खियापक्खिए इ य॥ सोगंधिए य आसत्ते, दस एते गपुंसगा। संकिलिट्ठ त्ति साहूणं, पश्चावेउं अकप्पिया ॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org