________________
भाष्यगाथाः ४३५४-६२) तृतीय उद्देशः । तदानीं परिभुज्यते एष यथाभावो भवति, स्वपरिग्रहे धारणमित्यर्थः । परिभोगो नाम यत् पात्रादि यस्यां वेलायां परिभुज्यते तत्र सत्-शोभनमाचार्यादिप्रायोग्यं यद् द्रव्यं यच्च पानकं भैक्षं चात्मनो योग्यं तत्पात्रे गृह्यते निर्लेपनं च-आचमनं च तेन विधीयते एष पात्रस्य परिभोगः । इह च पात्रशब्देन प्रतिग्रहो मात्रकं वा गृहीतम् ॥ ४३५९ ॥ तथा
पाणदय सीयमत्थुय, पमञ्ज चिलिमिलि निसिज कालगते । ।
गेलन लज्ज असहू, छेअण सागारिए भोगो ॥ ४३६० ॥ वर्षाकल्पादिकं प्राणिदयार्थम्' अकायादिजीवरक्षानिमित्तं परिभोक्तव्यम् । कल्पत्रयं शीतरक्षार्थम् । संस्तारकोत्तरपट्टको आस्तरणमास्तृतं तदर्थम् । रजोहरणं च प्रमार्जनार्थ गृह्यते । चिलिमिलिका ज्योतिःशाला-दकतीरादावुपयुज्यते । रजोहरणस्य निषद्याद्वयं निषदनार्थमादीयते। "कालगए" ति कालगतस्याच्छादनार्थ नन्तकादिकं गृह्यते । ग्लानत्वं वा कस्यापि सञ्जातं सः 10 अप्रावृतः सुखेनास्तामिति कृत्वा तस्याग्रे चिलिमिलिका दीयते । “लज्ज" ति लज्जाव्यपगमार्थ चोलपट्टकः परिभुज्यते । “असहु" त्ति राजादिप्रव्रजिता असहिष्णवः ते कल्पादिकं प्रावृणीयुः । “छेदण" त्ति नखहरणिका-पिप्पलकादिना नखप्रलम्बादीनां छेदनं क्रियते । "सागारिए" ति शैक्षस्य सज्ञातकानां सागारिकं ततः कल्पादिकं प्रावार्य प्रच्छन्ने स्थाप्यते । एवमादिकः सर्वोऽपि यथायोगमौधिकस्यौपग्रहिकस्य चोपधेः परिभोगो मन्तव्यः ॥ ४३६० ॥ 15
उक्तं पुराणग्रहणम् । तदुक्तौ च समर्थितमचित्तग्रहणम् । एवं क्षपकेण त्रिविधे ग्रहणे प्ररूपिते सति इतरः प्राह
उवरिं कहेसि हिट्ठा, न याणसी वयणं न होइ एवं तु ।
चतुरो गुरुगा पुच्छा, नासेहिसि तं जहा वेजो ॥ ४३६१॥ __यद् उपरि कथयितुं योग्यं तत् त्वम् 'अधस्तात्' पूर्व कथयसि । इयमत्र भावना-यद् 20 भवता प्रथममेवाचार्यादिविषयं पुराणसचित्तग्रहणमभिहितं तदशैक्षलक्षणाभिनवसचित्तग्रहणप्ररूपणादूर्द्ध प्ररूपयितुं योग्यमासीत् , अभिनव-पुराणपर्याययोः पूर्व-पश्चात्कालभावित्वेन भावात् ; तस्य चाभिनवसचित्तग्रहणस्य भवता प्ररूपणैव न कृता, अत एव न जानासि ग्रहणखरूपम् । यथा च "वन्दित्वा विनयेन पृच्छ” इत्येवमहङ्कारदूषितं वचनं त्वयोक्तम् (गा० ४३३२) एवमभिधीयमानं न भवति, सतां पूजनीयमिति वाक्यशेषः । एवं च ब्रुवाणस्य भवतश्चत्वारो 25 गुरुकाः । क्षपकः पृच्छति-किमत्र मम शूणमापतितं येनैवं प्रायश्चित्तं प्राप्नोमि ? । इतरः प्राह-त्वं पल्लवग्राहितया सम्यक् सिद्धान्ताभिप्रायमविज्ञाय जल्पसि । एवं च प्रज्ञापयन् त्वमात्मना नष्टोऽन्यानपि नाशयिष्यसि, यथा से प्रथमोद्देशकभणितो (गाथा ३२५९-६०) वैद्यः
पूर्वाह्ने वमनं दद्यादपराह्ने विरेचनम् । वातिकेष्वपि रोगेषु, पथ्यमाहुर्विशोषणम् ।। इति श्लोकमात्रं गृहीत्वा चिकित्सां कुर्वन् विनष्टः एवं भवानपीति चिरन्तनगाथासमा-30 सार्थः ॥ ४३६१ ॥ अथैनामेव किञ्चिद् विवृणोति
वयणं न वि गव्वभालियं, एलिसयं कुसलेहिँ पूजियं । अहवा न वि एत्थ लूसिमो, पगई एम अजाणुए जणे ।। ४३६२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org