________________
10
११९४ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [कृतिकर्मप्रकृते सूत्रम् १८ पलम्भकात्मकेन प्रकारेण गतं-ज्ञानमेषां ते 'तथागताः' सद्भूतार्थवेदिनः तीर्थकर-गणधरा इत्यर्थः तेषामवर्णवादो भवति, यथा-नामी सम्यग् मोक्षमार्ग दृष्टवन्त इति ॥ ४४१९ ॥ अथ संयतीनामभ्युत्थाने दोषं विशेषतो दर्शयन्नाह
पायं तवस्सिणीओ, करेंति किइकम्म मो सुविहियाणं ।
एसुत्तिद्वइ वतिणिं, भवियव्वं कारणेणेत्थं ॥ ४४२० ॥ संयतीमभ्युत्तिष्ठन्तं दृष्ट्वा कश्चिदभिनवधर्मा चिन्तयेत्-प्रायः 'तपखिन्यः' संयत्यः सुविहितानां कृतिकर्म कुर्वन्ति, “मो" इति पादपूरणे, एष पुनर्वतिनीमुत्तिष्ठति, तद् भवितव्यमत्र कारणेनेति । स एवं शङ्कायां चतुर्गुरु, निःशविते मूलम् । » यत एते दोषास्ततो नैषामभ्युस्थानं विधेयम् ॥४४२०॥ अथ येषामभ्युत्थातव्यं तदभ्युत्थानाकरणे प्रायश्चित्तमभिधित्सुराह
आयरिए अभिसेगे, भिक्खुम्मि तहेव होइ खुड्डे य ।
गुरुगा लहुगा लहुगो, मिन्ने पडिलोम बिइएणं ॥ ४४२१ ॥ आचार्येऽभिषेके भिक्षौ तथैव क्षुल्लके आचार्यादीन् प्राघुणकान् यथाक्रममनभ्युत्तिष्ठति गुरुका लघुका लघुको भिन्नमासश्चेति प्रायश्चित्तानि । द्वितीयादेशेनेदमेव प्रायश्चित्तं 'प्रतिलोमं' प्रतीपक्रमेणाचार्यादीनां वक्तव्यम् , आचार्यस्य भिन्नमासः, अभिषेकस्य लघुमासः, भिक्षोश्चतु. 15 र्लघवः, क्षुल्लकस्य चतुर्गुरव इति भावः । एष सङ्ग्रहगाथासमासार्थः ॥ ४४२१ ॥ अथैनामेव विवृणोति
आयरियस्सायरियं, अणुट्ठियंतस्स चउगुरू होति ।
वसमे भिक्खू खुड्डे, लहुगा लहुगो य भिन्नो य ॥ ४४२२ ॥ आचार्यस्याचार्य प्राघूर्णकमायान्तमनुत्तिष्ठतश्चतुर्गुरवो भवन्ति, वृषभमनभ्युत्तिष्ठतश्चतुर्लघुकाः, 20 मिक्षुमनुत्तिष्ठतो लघुमासः, क्षुल्लकमनुत्तिष्ठतो भिन्नमासः ॥ ४४२२ ॥ A ऍवमाचार्यस्य प्रायश्चित्तमुक्तम् । अथ शेषाणामतिदिशति-~
सट्ठाण परवाणे, एमेव य वसह-भिक्खु-खुड्डाणं । [पिं.नि. २७७]
जं परठाणे पावइ, तं चेव य सोहि सट्ठाणे ॥ ४४२३ ॥ एवमेव वृषभ-भिक्षु-क्षुल्लकानामपि खस्थान-परस्थानप्रायश्चित्तं वक्तव्यम् । खस्थानं नाम-वृष25 भस्य वृषमः, परस्थानं वृषभस्याचार्य- भिक्षु-क्षुल्लकाः; एवं » भिक्षु-क्षुल्लकयोरपि स्वस्थान-पर
स्थानभावना कर्त्तव्या । अत्र च यत् परस्थाने आचार्यः प्राप्नोति तदसावपि वृषभादिः स्वस्थाने प्रामोति । किमुक्तं भवति?-वृषभस्य प्राघूर्णकमाचार्यमनभ्युत्तिष्ठतश्चतुर्गुरुकाः, वृषभस्यानभ्युस्थाने चतुर्लघवः, भिक्षोरनभ्युत्थाने मासलघु, क्षुल्लकस्यानभ्युत्थाने भिन्नमासः; एवं भिक्षु-क्षुल्लक
योरपि मन्तव्यम् । अत्र परस्थानमाचार्यस्य वृषभादयः, तेषामनभ्युत्थाने यथाऽसौ चतुर्लघुका. 30 दिकमापन्नवान् तथा वृषभादयोऽपि खस्थानमनभ्युत्तिष्ठन्तस्तदेव प्रामुवन्ति ॥ ४४२३ ॥
१°लम्भात्म भा० ॥२ 4 एतन्मध्यगतः पाठः भा. नान्ति ॥ ३ वुम्मि तह य होइ ताभा० ॥ ४ अत्र बहुषु स्थलेषु भा० पुस्तके प्राघूर्णिक इति पाठः दृश्यते ॥ ५॥ एतन्मध्य गतमवतरणं भा० नास्ति ॥ ६ एतदन्तर्गतः पाठः भा० का ० एव वर्तते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org