Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 312
________________ १९७७ भाष्यगाथाः ४३४६-५३] तृतीय उद्देशः । स्थविर-स्थविरयोः प्रथमं स्थविरा ततः स्थविर इति ॥ ४३४९ ॥ अथ किमर्थमेषु प्रथमं स्त्री निस्तार्यते ? इत्याह - अन्नस्स वि संदेहं, द8 कंपति जा लयाओ वा । अबलाओ पगइभयालुगाउ रक्खा अतो इत्थी ॥ ४३५० ॥ 'अन्यस्यापि' पुरुषादेः 'सन्देहम्' आपदं दृष्ट्वा याः स्त्रियः पवनसम्पर्कतो लता इव कम्पन्ते, । याश्चाबलाः प्रकृत्या-स्वभावेनैव च "भयालुयाउ" ति भयबहुलाः, अतस्ताः स्त्रियः प्रथमं रक्षणीयाः ॥ ४३५० ॥ आह–साधु-साध्वीनां निस्तारणे किमेष एवाचार्य-प्रवर्तिन्यादिकः क्रमः ? उतान्यथाऽप्यस्ति ? उच्यते-अस्तीति ब्रूमः । तथा चाह जं पुण संभावेमो, भाविणमहियममुकातों वत्थूओ। तत्थुक्कम पि कुणिमो, छेओदइए वणियभूया ॥ ४३५१ ॥ _ 'यं पुनः' क्षुल्लकादिकमपि 'अमुकाद् आचार्यादेर्वस्तुनः सकाशात् प्रवचनप्रभावनादिभिर्गुणैः 'अधिक' सातिशयं 'भाविनं' भविष्यन्तं सम्भावयामः तत्र वयम् 'उत्क्रममपि' यथोक्तक्रमोल्लङ्घनमपि कुर्महे, क्षुल्लकादिकमपि प्रथमं तारयाम इत्यर्थः । कथम्भूताः ? इत्याहछेदश्च–व्यय औदयिकश्च-लाभः छेदौदयिकं तत्र पणिग्भूताः सन्तः । किमुक्तं भवति ?यथा वणिग् यदेव प्रभूतलाभमल्पव्ययं वस्तु तस्य ग्रहणं करोति, एवं वयमपि यत्र विशिष्टपात्र-15 भूते वस्तुनि गृहीते प्रवचनप्रभावना-तीर्थाव्यवच्छेदादिको भूयान् लाभः समुज्जम्भते खल्पश्चेतरपरित्यागलक्षणो व्ययः तं क्षुल्लकादिकमपि गृह्णीम इति ॥ ४३५१ ॥ एवं तावदुदकविषयं ग्रहणमभिहितम् , अथामि-तेनादिविषयं तदेवातिदिशन्नाह अगणी सरीरतेणे, ओमऽद्धाणे गिलाणमसिवे य । सावयभय रायभए, जहेव आउम्मि गहणं तु ॥ ४३५२ ॥ 30 अग्निसम्भ्रमे शरीरस्तेनभये अवमे अध्वनि ग्लानत्वे अशिवे श्वापदभये राजभये च यथैवाप्काये ग्रहणमभिहितं तथैवैतेष्वपि सचित्त-मिश्रभेदाद् द्विविधमपि वक्तव्यम् ॥ ४३५२ ॥ अथाचित्तग्रहणमभिधित्सुराह अच्चित्तस्स उ गहणं, अभिनवगहणं पुराणगहणं च । उवठावणाएँ गहणं, तह य उवट्ठाविए गहणं ॥ ४३५३ ॥ अचित्तं-वस्त्र-पात्रादिकमुपकरणं तस्य ग्रहणं द्विधा–अभिनवग्रहणं पुराणग्रहणं च । तत्राभिनवं-प्रथममेव यद वस्त्रादेर्ग्रहणं तदभिनवग्रहणम् , पुराणस्य-प्राग्गृहीतस्य चोलपट्टकादेः कूर्परादिना ग्रहणं पुराणग्रहणम् । तच द्विधा-उपस्थापनायां ग्रहणम् उपस्थापिते ग्रहणं च । तत्रोपस्थापनायां विधीयमानायां हस्तिदन्तोन्नताकारहस्तादिभिर्यद् रजोहरणादि गृह्यते तद् उपस्थापनाग्रहणम् । उपस्थापितस्य-छेदोपस्थापनीयचारित्रं प्रापितस्य यद् उपधेर्धारणं परिभोगो वा 30 तद् उपस्थापितग्रहणम् ॥ ४३५३ ॥ एनामेव गाथां व्याख्यानयति ओहे उवग्गहम्मि य, अभिनवगणं तु होइ अच्चित्ते । १इदमेव व्या भा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444