Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 320
________________ ११८५ भाग्यगाथाः ४३७८-८६] तृतीय उद्देशः। तिन्नि दुवे एको वा, वसहीपेहट्ठया पविसे ॥ ४३८२ ।। ये गीतार्थाः परिणतवयसो अत एव 'हतशङ्काः' अशङ्कनीयाः ते गुरुमापृच्छय दण्डप्रोञ्छनकं चिलिमिली दवरकांश्च गृहीत्वा त्रयो जनास्तदभावे द्वौ जनौ तदप्राप्तावेको वा वसतिप्रत्युपेक्षणार्थ ग्रामं प्रविशन्ति । ततो वसतिं गृहीत्वा प्रमृज्य च चिलिमिलिकां च दत्त्वा सबालवृद्धमपि गच्छं तत्र प्रवेशयन्ति ॥ ४३८२ ॥ १ अथ 'विकालवेलायां न प्रवेष्टव्यम्' इति यदुक्तं तदपवदन्नाह-- बिइयं ताहे पत्ता, पए व पत्ता उवस्सयं न लभे। सुन्नघर देउले वा, उजाणे वा अपरिभोगे ॥ ४३८३ ॥ द्वितीयपदमत्राभिधीयते--'तदानीं' विकालवेलायामेव प्राप्ताः, यद्वा 'प्रगे' प्रभाते प्राप्ताः परमुपाश्रयं न लभन्ते ततो विकालेऽपि प्रविशेयुः । प्रभातप्राप्ताश्च दिवा शून्यगृहे देवकुले वा 10 उद्याने वा 'अपरिभोग्ये' जनोपभोगरहिते तिष्ठन्ति, तत्रैव च समुद्देशनं कुर्वन्ति ॥ ४३८३ ॥ आवाय चिलिमिणीए, रन्ने वा निब्भये समुद्दिसणं । [ओ.नि. २००] सभए पच्छन्नाऽसइ, कमढग कुरुया य संतरिया ॥ ४३८४ ॥ अथ शून्यगृहादौ सागारिकाणामापातो भवति ततश्चिलिमिलिकां दत्त्वा समुद्देष्टव्यम् । अरण्यं वा यदि निर्भयं ततस्तत्र गत्वा समुद्दिशन्ति । अथारण्यं सभयं ततो वसिमसमीपे 15 एव यः प्रच्छन्नः प्रदेशस्तत्र समुद्देशनं कर्त्तव्यम् । अथ प्रच्छन्नस्थानं नास्ति ततस्तत्रैव शून्यगृहादौ 'कमठकेषु' शुक्ललेपेन सबाह्याभ्यन्तरं लिप्तेषु कांस्यकरोटकाकारेषु समुद्दिशन्ति, 'कुरुकुचा च' समुद्देशनानन्तरं पादप्रक्षालनादिका बहुना द्रवेण कर्तव्या, समुद्दिशन्तश्च 'सान्तराः' सावकाशा बृहदन्तराला उपविशन्ति । एवं भुक्त्वा बहिरेव संज्ञादि व्युत्सृज्य ततो ग्रामं प्रविशन्ति । प्रविष्टाश्च या पूर्व भिक्षां हिण्डमानैर्वसतिः प्रत्युपेक्षिता तस्यां वसन्ति ॥ ४३८४ ॥ 20 कथम् ? इत्याह कोढग सभा व पुव्वं, काल-वियाराइभूमिपडिलेहा । [ओ.नि. २०१] पच्छा अतिति रतिं, अहवण पत्ता निसिं चेव ॥ ४३८५ ॥ 'कोष्ठकः' आवासविशेषः 'सभा' प्रतीता, एवमादिकं यत् 'पूर्व' भिक्षां पर्यटद्भिः प्रत्युपेक्षितं तत्र कालग्रहणयोग्यां भूमिं विचारस्य च-संज्ञाया आदिशब्दात् कायिक्याश्च भूमि सूर्ये ध्रिय-25 माण एव प्रत्युपेक्षन्ते । ततः पश्चात् सर्वेऽपि वसतौ 'रात्रौ' प्रदोषसमये 'अतियन्ति' प्रविशन्ति । "अहवण" ति अथवा ते साधवस्तत्र निशायामेव प्राप्ता भवेयुः ।। ४३८५॥ ततः को विधिः ? इत्याह गोम्मिय भेसण समणा, निब्भय बहि ठाण वसहिपडिलेहा। [ओ.नि. २०२] सुन्नघर पुव्यमणिए, कंचुग तह दारुदंडे य ॥ ४३८६ ॥ गुल्मेन-समुदायेन चरन्तीति 'गौल्मिकाः' स्थानरक्षपालाः ते यदि 'भेषणं' वित्रासनं १ गुरूनापृ भा. कां० ॥ २ एतदन्तर्गतमवतरणं भा० नास्ति ॥ ३°त्र प्रोच्यते का। ४ रति, पत्ता वा ते भवे रति भा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444