Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 317
________________ १९८२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ यथारना प्रकृते सूत्रम् १७ दिकं न पश्येयुः, एवं च यथाक्रम संयमा-ऽऽत्मनोविराधना । ततः 'भक्तार्थि-व्युत्सृष्टाः' पूर्व भक्तार्थिताः-बहिरेव समुद्दिष्टास्ततो व्युत्सृष्टाः-कृतपुरीष-प्रश्रवणोत्सर्गाः सन्तो ग्रामम् 'अतियन्तु' प्रविशन्तु, एवं हि 'दोषाः' संयमा-ऽऽत्मविराधनालक्षणाः परित्यक्ता भवन्ति ॥ ४३७०॥ अथाचार्यः प्रत्युत्तरयति आयरियवयण दोसा, दुविहा नियमा उ संजमा-ऽऽयाए । [ओ.नि. १८९] वञ्चह को वा सामी, असंखडं मंडलीए वा ॥ ४३७१ ।। आचार्यस्य वचनमिदम्-त्वदुक्तनीत्या बहिर्मुञ्जानानां नियमाद् 'द्विविधाः' संयमा-ऽऽत्मविराधना[लक्षणाः ] दोषा भवन्ति । तथाहि-तैस्तत्र भक्त-पानमानीतं सागारिकाश्च कुतूहल वशात् तदर्शनार्थमागताः, ततो यदि तावन्तं कालं भक्त-पानं धारयन्तस्तिष्ठन्ति तदा भारेण 10 महती परितापना भवेत् सूत्रार्थयोश्च परिहाणिरुपजायेत । अथ सागारिकान् ब्रुवते-'व्रजत यूयम्' ततोऽधिकरणं भवति । अथवा ते सागारिका एवमुच्यमाना ब्रवीरन्-कोऽस्य वृक्षस्य देवकुलस्य वा खामी ये चास्माकं सम्मुखं 'व्रजत' इति भणत ? । एवमसङ्खडे तैः सह सञ्जाते ततश्च भाजनभेदादयो दोषाः । अथ मण्डल्यां रचितायां सागारिकाः समागच्छन्ति ततो महान्तमुड्डाहं कुर्युः ॥ ४३७१ ॥ अमुमेवार्थ सविशेषमाह भत्तद्वण सज्झाए, पडिलेहण रत्तिगेण्हणे जं च ।। पुव्वण्हम्मि उ गहणे, परिहरिया ते भवे दोसा ॥ ४३७२ ॥ 'भक्तार्थनं' मण्डल्या भोजनं खाध्यायं प्रत्युपेक्षणां वा क्रियमाणां विलोक्य ते उड्डाहं उड्डञ्चकान् वा कुर्वीरन् , तत्रापि तथैवासङ्खडदोषः । अथ ते सागारिकाः प्रद्विष्टाः सन्तो वसतिं न प्रयच्छन्ति ततोऽपरं ग्रामं गच्छेयुः, तत्र च विकाले प्राप्ताः सन्तो रात्रौ वसतिग्रहणं 20 कुर्वन्तो यद् दोषजालमापद्यन्ते तन्निष्पन्नं प्रायश्चित्तम् , अतः पूर्वाह्ने एव वसतेर्ग्रहणं कर्तव्यम् । ततश्च 'ते' पूर्वोक्ता दोषाः परिहृता भवन्ति ॥ ४३७२ ॥ किञ्च कोतूहल आगमणं, संखोहेणं अकंठगमणादी। [ओ.नि. १९०] ' ते चेवऽसंखडादी, वसहिं च न देति जं चऽन्नं ॥ ४३७३ ॥ मण्डल्यां सागारिकाः कौतूहलेनागमनं कुर्युः तत्र कस्यापि संयतस्य संक्षोभेण भक्त-पानस्य 25 अकण्ठगमनादिकम्' अश्नोतोगमनप्रभृतिकं भवेत् । अथवा कोऽप्यसहिष्णुर्च्यात्-किमेवं प्रलोकयथ ?; ततस्त एवासङ्खडादयो दोषाः । अथ 'सागारिकम्' इति कृत्वा अभुक्ता एव भक्त-पानव्यग्रहस्ता ग्रामं प्रविशन्ति तत्र च यैः सममसङ्खडं कृतं ते वसतिं न प्रयच्छेयुः, अन्यानपि च ददतो निवारयेयुः । “जं चऽन्नं" ति वसतावप्राप्यमाणायां यदन्यद् दोषजातमापद्यन्ते तनिष्पन्नम् ॥ ४३७३ ॥ 30 अथ वसत्यभावादकृतभोजना एवान्यं ग्राम गच्छेयुः तत इमे दोषाः भारेण वेयणाए, न पेहई खाणुमाइए दोसे । [ओ.नि. १९१] इरियाइ संजमम्मी, परिगलमाणे य छक्काया ।। ४३७४ ।। १°-किमस्य वृक्षस्य देवकुलस्य वा यूयं स्वामिनः ? । एव भा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444