________________
१९७७
भाष्यगाथाः ४३४६-५३] तृतीय उद्देशः । स्थविर-स्थविरयोः प्रथमं स्थविरा ततः स्थविर इति ॥ ४३४९ ॥ अथ किमर्थमेषु प्रथमं स्त्री निस्तार्यते ? इत्याह -
अन्नस्स वि संदेहं, द8 कंपति जा लयाओ वा ।
अबलाओ पगइभयालुगाउ रक्खा अतो इत्थी ॥ ४३५० ॥ 'अन्यस्यापि' पुरुषादेः 'सन्देहम्' आपदं दृष्ट्वा याः स्त्रियः पवनसम्पर्कतो लता इव कम्पन्ते, । याश्चाबलाः प्रकृत्या-स्वभावेनैव च "भयालुयाउ" ति भयबहुलाः, अतस्ताः स्त्रियः प्रथमं रक्षणीयाः ॥ ४३५० ॥ आह–साधु-साध्वीनां निस्तारणे किमेष एवाचार्य-प्रवर्तिन्यादिकः क्रमः ? उतान्यथाऽप्यस्ति ? उच्यते-अस्तीति ब्रूमः । तथा चाह
जं पुण संभावेमो, भाविणमहियममुकातों वत्थूओ।
तत्थुक्कम पि कुणिमो, छेओदइए वणियभूया ॥ ४३५१ ॥ _ 'यं पुनः' क्षुल्लकादिकमपि 'अमुकाद् आचार्यादेर्वस्तुनः सकाशात् प्रवचनप्रभावनादिभिर्गुणैः 'अधिक' सातिशयं 'भाविनं' भविष्यन्तं सम्भावयामः तत्र वयम् 'उत्क्रममपि' यथोक्तक्रमोल्लङ्घनमपि कुर्महे, क्षुल्लकादिकमपि प्रथमं तारयाम इत्यर्थः । कथम्भूताः ? इत्याहछेदश्च–व्यय औदयिकश्च-लाभः छेदौदयिकं तत्र पणिग्भूताः सन्तः । किमुक्तं भवति ?यथा वणिग् यदेव प्रभूतलाभमल्पव्ययं वस्तु तस्य ग्रहणं करोति, एवं वयमपि यत्र विशिष्टपात्र-15 भूते वस्तुनि गृहीते प्रवचनप्रभावना-तीर्थाव्यवच्छेदादिको भूयान् लाभः समुज्जम्भते खल्पश्चेतरपरित्यागलक्षणो व्ययः तं क्षुल्लकादिकमपि गृह्णीम इति ॥ ४३५१ ॥ एवं तावदुदकविषयं ग्रहणमभिहितम् , अथामि-तेनादिविषयं तदेवातिदिशन्नाह
अगणी सरीरतेणे, ओमऽद्धाणे गिलाणमसिवे य ।
सावयभय रायभए, जहेव आउम्मि गहणं तु ॥ ४३५२ ॥ 30 अग्निसम्भ्रमे शरीरस्तेनभये अवमे अध्वनि ग्लानत्वे अशिवे श्वापदभये राजभये च यथैवाप्काये ग्रहणमभिहितं तथैवैतेष्वपि सचित्त-मिश्रभेदाद् द्विविधमपि वक्तव्यम् ॥ ४३५२ ॥ अथाचित्तग्रहणमभिधित्सुराह
अच्चित्तस्स उ गहणं, अभिनवगहणं पुराणगहणं च ।
उवठावणाएँ गहणं, तह य उवट्ठाविए गहणं ॥ ४३५३ ॥ अचित्तं-वस्त्र-पात्रादिकमुपकरणं तस्य ग्रहणं द्विधा–अभिनवग्रहणं पुराणग्रहणं च । तत्राभिनवं-प्रथममेव यद वस्त्रादेर्ग्रहणं तदभिनवग्रहणम् , पुराणस्य-प्राग्गृहीतस्य चोलपट्टकादेः कूर्परादिना ग्रहणं पुराणग्रहणम् । तच द्विधा-उपस्थापनायां ग्रहणम् उपस्थापिते ग्रहणं च । तत्रोपस्थापनायां विधीयमानायां हस्तिदन्तोन्नताकारहस्तादिभिर्यद् रजोहरणादि गृह्यते तद् उपस्थापनाग्रहणम् । उपस्थापितस्य-छेदोपस्थापनीयचारित्रं प्रापितस्य यद् उपधेर्धारणं परिभोगो वा 30 तद् उपस्थापितग्रहणम् ॥ ४३५३ ॥ एनामेव गाथां व्याख्यानयति
ओहे उवग्गहम्मि य, अभिनवगणं तु होइ अच्चित्ते । १इदमेव व्या भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org