________________
११७६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ यथारना०प्रकृते सूत्रम् १६ देतत् ॥ ४३४५ ॥ अथ यदुक्तम् 'बाल-वृद्धादयो लोकेऽप्यनुकम्पनीयाः' (गा० ४३४२) इति तत्परिहाराय लौकिकमेव दृष्टान्तमाह
दुग्घासे खीरवती, गावी पुस्सइ कुडुंबभरणट्ठा।
मोत्तु फलदं च रुक्खं, को मंदफला-ऽफले पोसे ॥ ४३४६॥ । दुर्गासं-दुर्भिक्षं तत्र यथा 'क्षीरवती' भूम्नि मतुप्रत्ययविधानाद् बहुक्षीरा गौः कुटुम्बभरणार्थ पोष्यते' चारीप्रदानादिना पुष्टिं नीयते, एवमस्माकमपि य आचार्यादिस्तरुणादिगुणोपेततयाऽऽत्मनः परेषां चोपग्रहं कर्तुं समर्थः स निस्तार्यते । तन्निस्तारणे हि बहूनां बाल-वृद्धा. दीनामपि तदाश्रितानामनुकम्पा कृता भवति । अथ तं परित्यज्य क्षुल्लक स्थविरादिस्तस्या
आपदस्तार्यते ततो बहवो बालादयस्तदाश्रिताः परित्यक्ता भवन्ति । अपि च-'फलदं' प्रभूतफल. 10 दायिनं वृक्षं मुक्त्वा को नाम मन्दफलान् अफलान् वा वृक्षान् 'पुष्णीयात्' सारणीसलिलसेचनादिना पुष्टिं प्रापयेत् ? न कोऽपीत्यर्थः । उपनययोजना प्राग्वद् द्रष्टव्या ॥ ४३४६ ॥ उक्तं सचित्तग्रहणम् । अथ मिश्रग्रहणमाह
एमेव मीसए वी, नेयव्वं होइ आणुपुबीए ।
__वोचत्थे चउगुरुगा, तत्थ वि आणाइणो दोसा ॥ ४३४७ ॥ 16 एवमेव मिश्रविषयमपि ग्रहणम् 'आनुपूर्व्या' आचार्य-प्रवर्तिन्यादिपरिपाट्या ज्ञातव्यं भवति ।
अथ यथोक्तक्रममुल्लङ्ग्य विपर्यासेन पुरुषाणां स्त्रीणां वा ग्रहणं करोति ततश्चतुर्गुरुकाः । तत्रापि चाज्ञादयो दोषा भवन्ति ॥ ४३४७ ॥ अथ मिश्रग्रहणं कीदृशं प्रतिपत्तव्यम् ? इति उच्यते
मीसगगहणं तत्थ उ, विणिवाओ जो सभंड-मत्ताणं ।
अहवा वि मीसयं खलु, उभओपक्खऽच्चओ घोरो ॥ ४३४८॥ इह यः 'सभाण्ड-मात्राणां' पात्र-मात्रकाद्युपकरणसहितानां साधूनां साध्वीनां वा 'विनिमातः' उदकवाह के निमज्जनं 'तत्र' तद्विषयं यद् ग्रहणं तद् मिश्रग्रहणमुच्यते । अथवा यद् उभयोरपि-साधु-साध्वीलक्षणयोः पक्षयोः 'घोरः' रौद्रो युगपदुदकवाहकेनापहरणलक्षणः 'अत्ययः' प्रत्यपायस्ततो यद् ग्रहणं तद् मिश्रग्रहणमिति मन्तव्यम् ॥ ४३४८ ॥ 26 अथामुमेव द्वितीयव्याख्यानपक्षमङ्गीकृत्य निस्तारण विधिमाह
सव्वत्थ वि आयरिओ, आयरियाओ पवत्तिणी होइ ।
तो अभिसेगप्पत्तो, सेसेसु तु इत्थिया पढमं ॥ ४३४९ ॥ द्वयोरपि पक्षयोरुदकेन ह्रियमाणयोर्यद्यस्ति शक्तिस्ततो युगपद् निस्तारणं कार्यम् । अथ नास्ति युगपद् निस्तारणसामर्थ्य ततः सर्वत्रापि प्रथममाचार्यों निस्तारणीयः । आचार्यानन्तरं 20 प्रवर्तिनी तारयितव्या भवति । 'ततः' प्रवर्त्तिन्या अनन्तरमभिषेकपदप्राप्तः । ततः 'शेषेषु तु' भिक्षुप्रभृतिषु पदेषु प्रथमं स्त्री निस्तारयितव्या, ततः पुरुषः । तथाहि-भिक्षु-भिक्षुण्योर्मध्ये प्रथमं भिक्षुणी ततो भिक्षुस्तारणीयः, क्षुल्लक-क्षुल्लिकयोर्मध्ये प्रथमं क्षुल्लिका ततः क्षुल्लकः,
१ च फलनादिना पुष्टिफलदा भा० का• विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org