SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ४३२७-३५] तृतीय उद्देशः । १९७३ प्रकारेण 'छन्दित-प्रेषितः' पूर्व छन्दितः यस्य रोचते तस्मै दातव्यानीत्येवमनुज्ञातच्छन्दः ततः प्रेषितः-मुत्कलितः सन् स क्षपकस्तत्रावसरे ऋषीणामम्बराणि प्रयच्छति । इह सर्वत्रापि रकारस्य लकारादेशः "र-सोर्ल-शौ” (सिद्धहे० ८-४-२८८) इति मागधभाषालक्षणवशात् ॥ ४३३० ॥ ४३३१ ।। ततश्च खमएण आणियाणं, दिजंतेगस्स वारणावयणं । गहणं तुमं न याणसि, वंदिय पुच्छा तओ कहणं ॥ ४३३२ ॥ क्षपकेणानीतानां तेनैव दीयमानानां वस्त्राणाम् 'एकस्य' कस्यचिद् लुब्धस्य वारणावचनम् , 'एवममीषां रत्नाधिकानां दीयमानानि मां यावद् न समागमिष्यन्ति' इति बुद्ध्या वस्त्रग्राहकसाधून 'मा आर्याः ! गृह्णीध्वम्' इत्येवं कोऽपि निवारितवानिति भावः । ततः क्षपकः प्राहकिं मदीयानि वस्त्राणि न गृह्यन्ते । । इतरः प्राह-ग्रहणमेव तावत् त्वं न जानीषे । क्षपको 10 ब्रवीति-जानामि । इतरो भणति-यद्येवं ततः कीदृशम् ? । क्षपक आह-वन्दित्वा विनयेन पृच्छ येनाहं कथयामि । ततस्तेन क्षपको वन्दित्वा पृष्टः सन् कथयितुमारब्धवान् ॥ ४३३२॥ तिविहं च होइ गहणं, सचित्ताऽचित्त मीसगं चेव ।। एएसिं नाणत्तं, वोच्छामि अहाणुपुवीए ॥ ४३३३ ।। त्रिविधं च भवति ग्रहणम् , तद्यथा-सचित्तग्रहणमचित्तग्रहणं मिश्रग्रहणं चेति । एतेषां 15 त्रयाणामपि नानात्वं यथाऽऽनुपूर्व्या वक्ष्यामि ॥ ४३३३ ॥ तत्र सच्चित्तग्रहणं तावदाह सचित्तं पुण दुविहं, पुरिसाणं चेव तह य इत्थीणं । एकेक पि य इत्तो, पंचविहं होइ नायव्वं ।। ४३३४ ॥ सचित्तग्रहणं पुनर्द्विविधम् , तद्यथा-'पुरुषाणां च' आचार्यादीनां 'स्त्रीणां च' प्रवर्तिनीप्रभृतीनाम् । एकैकमपि 'इतः' मूलभेदापेक्षया 'पञ्चविधं वक्ष्यमाणनीत्या पञ्चप्रकारं भवति 20 ज्ञातव्यम् ॥ ४३३४ ॥ कुतः पुनस्तेषां पुरुषाणां स्त्रीणां वा ग्रहणं क्रियते ! इत्याह उदगाऽगणि तेणोमे, अद्धाण गिलाण सावय पदुद्धे । तित्थाणुसज्जणाए, अइसेसिगमुद्धरे विहिणा ॥ ४३३५ ॥ उदके वाहकेन आचार्यादयो नेतुमारब्धाः, "अगणि" ति महानगरप्रदीपनके वा दाहस्तेषां समुपस्थितः, "तेण" त्ति शरीरस्तेना आचार्यादीन् व्यपरोपयितुमिच्छन्ति, अवमं-दुर्भिक्षं तत्र 25 भक्त-पानलाभाभावात् प्राणसंशयस्तेषामुपतस्थे, अध्वा नाम-छिन्नापातं महदरण्यं तं प्रपन्नानामपान्तराले बुभुक्षा-परिश्रमादिभिरग्रतो गन्तुमशक्नुवतां जीवितं संशयतुलामधिरूढम् , "गिलाण" ति शूल-विष-विशूचिकादिकमागाढग्लानत्वमुदपादि, श्वापदाः-सिंह-व्याघ्रादयस्तैरुपद्रोतुमारब्धाः, प्रद्विष्टः-प्रद्वेषमापन्नो राजा साधूनां प्राणापहारं कर्तुमभिलषति । एतेष्वागाढकारणेषु 'तीर्थानुषजनायै' तीर्थस्याव्यवच्छेदेनानुवर्तनाय योऽतिशायी-विशिष्टपात्रभूतः प्रव-30 चनाधारः पुरुषस्तं 'विधिना' वक्ष्यमाणनीत्या समुद्धरेत् ॥ ४३३५ ॥ अथ यदुक्तम्- 'एकैकं पञ्चविधं ग्रहणं भवति' तत्र पुरुषविषयं तावदाह आयरिए अभिसेगे, भिक्खू खुड्डे तहेव थेरे य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy