________________
तह वि अठियस्स दाउ, विगिंचणोयट्ठिए खरंटणया । अक्खे होंति गुरुगा, लहुगा सेसेस ठाणेसु ॥। ४३२७ ॥
तथाप्यस्थितस्य तस्य तद् अभीष्टं वस्त्रं दत्त्वा विवेचनं कर्तव्यम्, 'निर्गच्छ मदीयाद् 5 गच्छात्' इति भणनीयमिति भावः । ततो यदि भूयोऽप्युपतिष्ठते - मिथ्या मे दुष्कृतम्, न पुनरेवं विधास्यामीति; ततः 'खरण्टना' वक्ष्यमाणा कर्त्तव्या, प्रायश्चित्तं च दातव्यम् । किम् ? इत्याह-- ' अक्षेषु गुरुका भवन्ति' यो ब्रवीति 'अक्षान् पातयित्वा विभजत' तस्य चतुर्गुरुकम् । 'शेषेषु स्थानेषु' क्षोभकरणा-ऽऽवलिका मण्डलिकाविभाजनलक्षणेषु चतुर्लघुकम् ॥ ४३२७ ॥ अथ खरण्टनामुपदर्शयति
10
११७२
एवमप्युक्तो यदि नोपरमते ततः को विधिः ? इत्याह
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ यथारत्ना० प्रकृते सूत्रम् १६
हिरन्न-दारं पसु पेसवरगं, जदा व उज्झित्तु दमे ठितो सि ।
किलेसलद्धेसु इमेसु गेही, जुत्ता न कत्तुं तव खिंसणेवं ।। ४३२८ ।। हिरण्यं च - सुवर्ण दाराश्च - कलत्रं हिरण्य-दारम्, पशवश्व - गो-महिषीप्रभृतयः प्रेष्याश्चकर्मकरीस्तेषां वर्गः-समूहः, तमेवमादिकं परिग्रहं 'उज्झित्वा' तृणवत् परित्यज्य यदा किल त्वमेवंविधे 'दमे' संयमे स्थितोऽसि तदा साम्प्रतमेषु वस्त्रेषु 'क्लेशलब्धेषु' प्रभूतगृहपरिभ्रम15 णादिप्रयासप्राप्तेषु तव गृद्धिः कर्त्तुं न युक्ता । एवं खिंसना तस्य कर्त्तव्या ॥। ४३२८ ॥ सम्मं विदित्ता समुट्ठियं तु, थेरा सि तं चैव कदाइ देजा ।
अनेसि गाहे बहुदोसले वा, छोढूण तत्थेव करिंति भाए ॥। ४३२९ ।। 'सम्यग्' अपुनःकरणेन समुपस्थितं तं विदित्वा 'स्थविरा: ' सूरयः कदाचित् तस्यैव 'तद्' वस्त्रं दद्युः । अथान्येषामपि बहूनां तद्वस्त्रग्रहणे 'ग्राह: ' महान् निर्बन्धः, “बहुदोसले वा " 20 प्रभूतदोषवानसौ संयतो बहुभिः सह द्वेषवान् - विरोधविधायी यः स बहुद्वेषवानिति वा, ततस्तस्य दीयमानेऽन्येषां महदप्रीतिकमुपजायते; एवंविधं कारणं विचिन्त्य ' तत्रैव' तेषु वस्त्रेषु मध्ये प्रक्षिप्य एकसदृशान् भागान् कुर्वन्ति, ततो यथारत्नाधिकं गृह्णन्ति ॥ ४३२९ ॥
एवं तावदने कैरानीतानां वस्त्राणां परिभाजने विधिरुक्तः, अथ क्षपकेणानीतानां तेषामेव विधिमभिधित्सुराह—
25
खमए लडूण अंबले, दाउ गुलूण य सो वलिट्ठए ।
as गुलुं एमेव सेसए, देह जईण गुलूहिं बुच्चई || ४३३० ॥
सयमेव य देहि अंबले, तव जे लोयइ इत्थ संजए ।
इइ छंदि - पेसिओ तहिं, खमओ देइ लिसीण अंबले ।। ४३३१ ॥
कोsपि क्षपकः कुत्रापि भावितकुलादौ ' अम्बराणि' वस्त्राणि लब्ध्वा यानि 'वरिष्ठानि ' 30 सर्वप्रधानानि वासांसि तानि गुरूणां दत्त्वा ततो गुरुं ब्रवीतिं - एवमेव शेषाण्यपि मदानी - तानि वस्त्राणि यतीनां प्रयच्छत । ततो गुरुभिरसावुच्यते स्वयमेव त्वममूनि अम्बराणि देहि यस्तवात्र संयतः 'रोचते' वस्त्रदानयोग्यतया रुचिगोचरीभवति । 'इति' अमुना
१ 'रादयस्ते भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org