SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ४३१९-२६ ] तृतीय उद्देशः । ११७१ विदित्वा यस्तत्र 'अवमः ' सर्वेषामपि पर्यायलघुः यो वा विमध्यमोऽपि तत्र वस्त्रविभजने 'पटुः ' कुशलस्तेन गुरवो विभजनं कारयन्ति ॥ ४३२२ ॥ अथ कोऽपि लुब्ध एवमप्यपरितुष्यन् ब्रूयात् – आवलिकया मण्डलिकया वा वस्त्राणि विभज्यन्ताम् ; ततः को विधि: ? इत्याहआवलियाऍ जति, तं दाऊणं गुरूण तो सेसं । हंति कमेणेव उ, उप्प रिवाडी न पूर्येति ।। ४३२३ ॥ मंडलियाऍ विसेसो, गुरुगहिते सेगा जहावुङ्कं । भाए समे करेत्ता, गेहंति अनंतरं उभओ ।। ४३२४ ॥ आवलिका नाम - ऋज्वायतश्रेण्या वस्त्राणां व्यवस्थापनम् तया समभागीकृत्य वस्त्रेषु स्थापितेषु यद् इष्टं वस्त्रं तद् गुरूणां दत्त्वा शेषाणि यथारत्नाधिकं गृह्णन्ति यावदावलिका निष्ठामुपगच्छति । उत्परिपाट्या तु ग्रहणं 'न पूजयन्ति ' न प्रशंसन्ति, तीर्थकरादय इति 10 गम्यते ॥ ४३२३ ॥ " मण्डलिकायामप्येवमेव, नवैरं तस्यां विशेषोऽयमुपदर्श्यते— पूर्वं गुरुभिर्गृहीते ततः शेषाः ‘यथावृद्धं' यो यः पर्यायवृद्धस्तदनतिक्रमेण समान् भागान् कृत्वा 'उभयोरपि' आद्यन्तलक्षणयोः पार्श्वयोः ‘अनन्तरम्' अव्यवहितं वस्त्राणि गृह्णन्ति । इयमत्र भावना - मण्डलिकया वस्त्रेषु स्थापितेषु प्रथममाचार्येण गृहीते ततो यः शेषाणां मध्ये रत्नाधिकः स मण्डलिकाया धुरि 15 स्थापितं वस्त्रं गृह्णाति, अवमरात्निकस्तु पर्यन्तस्थापितं - सर्वान्तिकम्, ततोऽपि योऽवमपर्यायः स धुरि स्थापितादनन्तरं गृह्णाति, तदपेक्षया लघुतरः पर्यन्तपार्श्वदुपान्त्यं गृह्णाति एवं तावद् गृहति यावद् मण्डलिका निष्ठिता भवति ॥ ४३२४ ॥ एवमपि विभज्यमाने कोऽपि लोभाभिभूतमानसो ब्रूयात् - अक्षान् पातयित्वा यद् यस्य भागे समायाति तत् तस्य दीयताम् ; एवं ब्रुवाणोऽसौ प्रज्ञापयितव्यः । कथम् ? इति चेद् उच्यते - 20 जइ ताव दलंतऽगालिणो, धम्मा-ऽधम्मविसेसबाहिला । बहुसंजयविंदमज्झके, उवकलणे सि किमेव मुच्छितो ।। ४३२५ ॥ यदि तावद्गारिणो धर्मा-धर्मविशेषबाह्या अपि मूर्च्छा परित्यज्य साधूनामित्थमात्मीयानि वस्त्राणि “दलंति” प्रयच्छन्ति, ततः 'बहुसंयतवृन्दमध्यके' प्रभूतसाधुजनमध्यभागे त्वमेवैक उपकरणे किमेवं सम्यक्परिज्ञात जिनवचनोऽपि मूच्छितोऽसि ? नैतद् भवतो युज्यत इति 25 भावः ॥ ४३२५ ॥ एवमप्युक्तो यद्यसौ नोपशाम्यति ततो वक्तव्यम् - अजो ! तुमं चेव करेहि भागे, ततो णु घेच्छामों जहकमेणं । गिहाहि वा जं तुह एत्थ इट्ठ, विणासधम्मीसु हि किं ममत्तं ।। ४३२६ ॥ आर्य ! त्वमेव समान् भागान् कुरु, ततो यथाक्रमेण वयं ग्रहीष्यामः । यद्वा गृहाण यत् तवामीषां वस्त्राणां मध्ये 'इष्टम्' अभिरुचितम् विनाशधर्मौणि हि - विनश्वरखभावानिं 30 वस्त्रादीनि वस्तूनि, अतः किं नाम तेषु ममत्वं विधीयते ? || ४३२६ ॥ " १ कमेण जओ, उप्प मो० ॥ २ का नाम-परिमण्डलाकारेण वस्त्राणां स्थापना, तस्यां विशे' भा० ॥ ३ वरं तेषां विशे' भा० कां विना ॥ 5 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy