________________
15
११७० सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ यथारना०प्रकृते सूत्रम् १६ हस्य' गुरुसम्बन्धिपितृ-पितृव्यादेः, ततः प्रवर्तिनः, तदनन्तरं स्थविरस्य, ततः "गणि" ति गणावच्छेदिकस्य, ततः श्रुतसम्पन्नस्य, ततोऽभाषिकस्य, ततो लब्धिमतो यथाक्रमं दातव्यम् । अर्धपक्रान्तिचारणिका प्राग्वत् कर्त्तव्या । तदनन्तरं यो यः पर्यायरात्निकस्तस्य तस्य प्रथमम् , अवमरात्रिकस्य तु पश्चाद् यथाक्रमं दातव्यम् ॥ ४३१८ ॥ एवं तावत् सङ्घाटकेनानीतानां 5 विधिरुक्तः । अथ वृन्देनानीतानां यो विधिस्तमभिधित्सुराह
णेगेहिं आणियाणं, परित्त परियाग खुभिय पिंडेता।
आवलिया मंडलिया, लुद्धस्स य सम्मता अक्खा ॥ ४३१९ ॥ अनेकैः साधुभिरानीतानां वस्त्राणां परिभाजने विधिरुच्यते-आचार्यादिक्रमेण परीत्तोपधीनां यावद् दत्त्वा ततो ये' पर्यायरानिकास्तेषामहिण्डमानानामपि प्रथमतो दातव्यम् । तत्र च 10 यस्तानि वस्त्राणि समानीतानि ते 'पिण्डित्वा' सम्भूय 'क्षुभितं' क्षोभं कुर्वीरन् , कलहमिति यावत् । कश्चितु ब्रूयात्-आवलिकया मण्डलिकया वा विभजनं विधीयताम् । “लुद्धस्स य सम्मता अक्ख" ति कस्यापि पुनर्लब्धस्याक्षान् पातयित्वा वस्त्रविभजनमभिमतम् । एष सङ्ग्रहगाथासलेपार्थः ॥ ४३१९ ॥ साम्प्रतमेनामेव विवरीषुराह
गेहंतु पूया गुरवो जदिटुं, सचं भणामऽम्ह वि एयदिटुं ।
अणुण्हसंवट्टियऽककसंगा, गिण्हंति जं अनि न तं सहामो ॥ ४३२०॥ अहिण्डमानानां वस्त्रेषु दीयमानेषु ये वस्त्राणामानेतारस्ते ब्रवीरन्-यद् ‘इष्टं' मनोऽनुकूलं वस्त्रं गुरवो गृहन्ति तत् ते सकलगच्छवामितया पूज्या इति कृत्वा गृहन्तु, यद् गुरूणामुत्कृष्टं बस्तु दीयते तत् 'सत्यम्' अवितथमिति वयमपि भणामः, न केवलं वचसैव भणामः किन्तु मनसाऽप्यस्माकमेतदिष्टमेव, परमनुप्णेन-भिक्षापरिभ्रमणाभावादुष्णलगनाभावेन संवर्तितानि20 वर्तुलीभूतानि अत एवाकर्कशानि अङ्गानि-पाणि-पाद-पृष्ठोदरप्रभृतीनि येषां तेऽनुष्णसंवर्तिताकर्कशाङ्गा एवंविधाः सन्तो यद् 'अन्ये' अहिण्डमानाः प्रथमं गृह्णन्ति न तद् वयं सहामहे ॥४३२०॥
आगंतुगमादीणं, जइ दायव्वाइँ तो किणा अम्हे ।
कम्मारभिक्खुयाणं, गाहिज्जामो गइमसग्धं ॥ ४३२१ ॥ आगन्तुकाः-उपसम्पत्तारस्तेषाम् आदिशब्दाद् ग्लानादीनां च यदि दातव्यानि वस्त्राणि ततः 25"किण" ति केन कारणेन वयं 'कर्मकारभिक्षुकाणां' देवद्रोणीवाहकभिक्षुविशेषाणां गतिम् 'अश्लाघ्यां' निन्दनीयां ग्राह्यामहे ? । किमुक्तं भवति ?-'यदि नामास्मदानीतानां वस्त्राणामेते आगन्तुकादयः खामिभावं भजन्ते ततः किमेवं वयं देवद्रोणीवाहकभिक्षुकवद् मुधैव वस्त्राद्या. नयनकर्म कार्यामहे ?' - इति वस्त्राण्यानेतारश्चिन्तयेयुः ॥ ४३२१ ॥ ततः--
विरिचमाणे अहवा विरिके, खोभं विदित्ता बहुगाण तत्थ । 30 ओमेण कारिंति गुरू विरेगं, विमज्झिमो जो व तहिं पडू य ॥ ४३२२ ॥
एवं 'विरिच्यमाने' विभज्यमानेऽथवा 'विरिक्ते' विभक्ते उपकरणे बहूनामनन्तरोक्तं क्षोभ १°येऽहिण्डमानाः पर्यायरात्निकास्तेषां दात भा० ॥२°समासार्थः का० ॥३१ एन. नितान्तर्गतः पाठः भा० नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org