________________
भाष्यगाथाः ४३११-१८]
तृतीय उद्देशः ।
उवसंपज गिलाणे, परित सुत सोअव्वए य जाती य । तव भासा लीए, ओमे दुविहस्स अरिहा उ ।। ४३१५ ॥ " उवसंपज्ज" त्ति यः तत्प्रथमतया उपसम्पदं प्रतिपद्यते । 'ग्लानः' मन्दः, स च द्विधाआगाढोsनागाश्व | 'परीतः ' परिमितोपधिः । “सुत" ति बहुश्रुतः । " सो अवए" ति यो व्याख्यानमण्डल्या उत्थितानां सूत्रार्थे श्रोतव्ये ज्येष्ठतया व्यवह्रियते । "जाइ" ति जातिस्थविर: 5 षष्टिवर्षपर्यायः । "तव” त्ति तपखी । "भास" त्ति यः अभाषिकः - तद्देशभाषायामनभिज्ञः । "लद्धीए" त्ति यस्य लब्ध्या वस्त्राणि लभ्यन्ते । एतेषामुपसम्पद्यमानादीनां यथाक्रमं दत्त्वा ततो यो यः पर्यायरत्नाधिकः स स प्रथमं गृह्णाति, "ओमि" त्ति अवमरालिकः पश्चाद् गृह्णाति । एते यथाक्रमं 'द्विविधस्य' ओघोपधेरौपग्रहिकोंपधेश्च ग्रहणे 'अर्हाः' योग्या मन्तव्याः ॥ ४३१५ ॥ एएसि परूवणया, जा य विणा तेहिं होति परिहाणी | अहवा एकेक्स्स उ, अड्डोकंतीकमो होति ।। ४३१६ ॥
10
'एतेषाम्' उपसम्पद्यमानादीनां 'प्ररूपणा' व्याख्या कर्त्तव्या, सा चानन्तरमेव कृता । यधेतेषां यथाक्रमं वृषभा न प्रयच्छन्ति ततो या तेषां 'तैः' वस्त्रैर्विना 'परिहाणिः ' संयमविराधनादिका भवति तन्निष्पन्नं प्रायश्चित्तम् । अथवा 'एकैकस्य' उपसम्पद्यमानादेः प्रत्येकं ग्लानादिविषयोऽयमर्द्धापकान्तिक्रमो भवति ॥ ४३१६ ॥ तद्यथा
उवसंपज गिलाणो, अगिलाणो वा वि दोण्णि वि गिलाणा । तत्थ वि य जो परित्तो, एस गमो सेसगेसुं पि ॥ ४३१७ ॥ उपसम्पद्यमानो द्विविधः - ग्लानोऽग्लानश्च । तत्र यो ग्लानस्तस्य दातव्यम् । अथ द्वावप लानावग्लानौ वा ततो यस्तत्र परीतोपधिस्तस्मै द्वातव्यम् । एवमेषः 'गमः' प्रकारः 'शेषेष्वपि ' बहुश्रुतादिपदेषु मन्तव्यः, तद्यथा - द्वावपि परीत्तोपधी अपरीतोपधी वा ततो यो बहुश्रुत - 20 स्तस्मै देयम् । अथ द्वावपि बहुश्रुतौ ततो यश्चिन्तनिका कारकस्तस्य दातव्यम् । अथ द्वावपि चिन्तनिकाकारकौ ततो यस्तत्र जातिस्थविरस्तस्य दातव्यम् । अथ द्वावपि जातिस्थविरौ ततो यस्तपखी तस्य दातव्यम् । अथोभावपि तपखिनौ ततो योऽभाषिकस्तस्मै दातव्यम् । अथ द्वावप्यभाषिकौ भाषिकौ वा ततो यो लब्धिमान् तस्मै प्रदातव्यम् ॥ ४३१७ ॥
प्रकारान्तरेण यथारलाधिकपरिपाटीमाह-
११६९
आयरिए य गिलाणे, परित्त पूया पवत्ति थेर गणी । सुत भासा लद्धीए, ओमे परियागरातिणिए ॥ ४३१८ ॥ आचार्यस्य पूर्वं विशिष्टानि वस्त्राणि दत्त्वा ततो ग्लानस्य दातव्यानि । ततः परीत्तोपधेः, ततः “पूय” चि चूर्ण्यभिप्रायेण 'पूजनार्हस्य' उपाध्यायस्य बृहद्भाष्याभिप्रायेण तु 'पूजना
१ “पूयणारिद्दस्स उवज्झायस्स” इति चूर्णो विशेषचूर्णौ चापि पाठः ॥
२ “अधबा अण्णा वि इमा, अधराविणियाए होति परिवाडी । आयरिए य गिलाणे, परित्त पुजे गुरूणं च ॥ पूताऽऽयरियपि माती, ततो पवत्ती य थेर गण गच्छे । सुत भासा लद्धीए, तोमे परिभागरायणिये ॥"
बृहद्भाष्यम् ॥
Jain Education International
For Private & Personal Use Only
15
25
www.jainelibrary.org