________________
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ यथारना प्रकृते सूत्रम् १६ यति । अथ सङ्घाटकेन हिण्डमाना न प्राप्नुवन्ति ततः 'त्रिकादिवृन्देन' त्रिचतुःपञ्चादिसाधुसमूहेन पर्यटन्त उत्पादयन्ति ॥ ४३१० ॥ स साधारणक्षेत्रे पुनरयं विधिः--
दुगमादीसामण्णे, अणपुच्छा ति विह सोधि णवमं वा।
संभोइयसामने, तह चेव जहेक्कगच्छम्मि ॥४३११॥ । द्विकादीनां-द्वित्रिप्रभृतीनामाचार्याणां सामान्ये क्षेत्रे तेषामनापृच्छया गृहतस्त्रिविधा 'शोधिः' प्रायश्चित्तम्-जघन्ये पञ्चकम् , मध्यमे मासिकम् , उत्कृष्ट चतुर्लघवः; 'नवमं वा' सूत्रादेशेनानवस्थाप्यम् । ते चाचार्याः परस्परं । सौम्भोगिका असाम्भोगिका वा । तत्र » साम्भोगिकसामान्ये क्षेत्रे वस्त्रग्रहणे तथैव विधिरवसातव्यो यथा एकस्मिन् गच्छे । सडाटकादिक्रमेण - अनन्तरगाथायामुक्तः ॥ ४३११ ॥ १ अँसाम्भोगिकेषु विधिमाह-~ 10
अमणुण्णकुलविरेगे, साही पडिवसभ-मूलगामे य । __ अहवा जो जं लाभी, ठायंति जधासमाधीए ॥ ४३१२॥ अमनोज्ञाः-असाम्भोगिकास्तैः सह यत् क्षेत्रं साधारणं तत्र कुलादीनां विरेकः-विभजनं कव्यम् , यथा--एतेषु कुलेषु युष्माभिर्वस्त्राणि ग्रहीतव्यानि, एतेषु पुनरस्माभिः; यद्वाऽस्यां
साहिकायां-गृहपतिरूपायां भवद्भिः, अस्यां पुनरस्माभिः; अथवा प्रतिवृषभग्रामेषु यूयं ग्रही15 प्यथ, वयं मूलग्रामे ग्रहीष्यामः; मूलग्रामे वा यूयं, वयं प्रतिवृषभग्रामेषु; अथवा यो यद् वस्त्रं
कुलादौ पर्यटन् “लाभी" लप्स्यते तेन तस्य ग्रहणं कर्तव्यम् । एतेषामन्यतमेन प्रकारेण व्यवस्था स्थापयित्वा यथासमाधिना तत्र तिष्ठन्ति ॥ ४३१२ ॥ " एवमसाधारणे साधारणे वा क्षेत्रे वस्त्राणि गृहीत्वा किं कर्त्तव्यम् ? इत्याह
वत्थेहिँ आणितेहिं, देंति अहारातिणि तहिं वसभा। 20
अदाणे गुरुणो लहुगा, सेसे लहुओ इमे होंति ॥ ४३१३ ॥ वस्त्रेषु समानीतेषु ये वृषभास्ते यथारत्नाधिकं तत्र वस्त्राणि प्रयच्छन्ति । यदि तत्र गुरूणां . प्रथमतो वस्त्रदानं न कुर्वन्ति तदा चतुर्लघुकाः। शेषाणां यथारत्नाधिकं विभज्य न प्रयच्छन्ति लघुमासः । ते च रत्नाधिकाः 'इमे' वक्ष्यमाणा भवन्ति ॥ ४३१३ ॥
तत्र गुरूणां यादृशानि वस्त्राणि दीयन्ते तदेतत् प्रतिपादयति25. विदु क्खमा जे य मणाणुकूला, जे योवजुजंति असंथरंते । ..
गुरुस्स साणुग्गहमप्पिणित्ता, भाएंति सेसाणि उ झंझहीणा ॥ ४३१४ ॥ साधुभिर्यथाविधि गृहीत्वा भूयांसि वासांसि वृषभाणां समर्पितानि, ततो वृषभाः “विदु" त्ति 'विदित्वा' सुन्दरा-ऽसुन्दरताविभागं विज्ञाय यानि 'क्षमाणि' दृढानि यानि च 'मनोऽनु
कूलानि' गुरूणां मनसोऽभिरुचितानि यानि चाऽसंस्तरति गच्छे गुरुपरिभुक्तान्यपि शेषसाधू. 30 नामुपयुज्यन्ते तानि गुरोः 'सानुग्रहं' सविशेषं यथा भवति एवमर्पयित्वा शेषाणि वस्त्राणि
झञ्झा-कलहस्तेन हीनाः-विरहिताः सन्तो यथारत्नाधिकं परिभाजयन्ति ॥ ४३१४ ॥ ____ अथ तानेव रत्नाधिकानाह
१-२ - एतन्मध्यगतः पाठः भा० कां० एव वर्तते ॥ ३-४ » एतदन्तर्गतः पाठः भा० नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org