________________
भाष्यगाथाः ४३०३-१०] तृतीय उद्देशः ।
११६७ द्वितीयपदमत्रोच्यते-'अनाभोगो नाम 'किमत्र साधवो वर्षाकल्प मासकल्पं वा कृतवन्तो न वा ?' इति न सम्यक् परिज्ञातं ततः परक्षेत्रेऽपि गृह्णीयुः, पश्चाद् ज्ञाते क्षेत्रिकाणां प्रयच्छन्तः शुद्धाः, अप्रयच्छतां त एव दोषाः । अथ 'आकुट्टिकया' आभोगेन गृहीतं परं ग्लानादीनामर्थे ततो यावत् तेषामुपयुज्यते तावद् गृह्णन्ति, 'शेषम्' अतिरिक्तं न गृहन्ति ।। ४३०७॥
॥ समवसरणप्रकृतं समाप्तम् ॥
10
य था र ला धि क व स्त्र प रि भा ज न प्रकृ त म् सूत्रम्
कप्पइ निग्गंथाण वा निग्गंथीण वा अहाराइणियाए . चेलाइं पडिग्गाहित्तए १६ ॥ अस्य सम्बन्धमाह
दिडं वत्थग्गहणं, तेसिं परिभायणे इमं सुत्तं ।।
अविणय असंविभागा, अधिकरणादी य णेवं तु ॥ ४३०८ ॥ द्वितीयसमवसरणे दृष्टं तावद् वस्त्रग्रहणम् । सम्प्रति तेषां वस्त्राणां परिभाजने' विभज्य प्रदाने यो विधिस्तदभिधायकमिदं सूत्रमारभ्यते । इत्थं विभज्य प्रदाने किं प्रयोजनम् ? इति चेद् अत आह–'एवं' यथारत्नाधिकं वस्त्राणां विभज्य दानेऽविनयोऽसंविभागोऽधिकरणादयश्च 15 दोषा न भवन्तीति ॥ ४३०८॥ . ___ अनेन सम्बन्धेनायातस्यास्य व्याख्या-कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा 'यथारानिकं' यो यो रानिकः-भावरलैरधिकस्तदनतिक्रमेण चेलानि प्रतिग्रहीतुमिति सूत्रार्थः ।। अथ नियुक्तिविस्तरःसंघाडएण एकतों, हिंडंती वंदएण जयणाए।
20 साधारणऽणापुच्छा, उ अदत्तं एकओ भागा ॥ ४३०९ ॥ सङ्घाटकेन 'एकतः' एकस्यां दिशि साधवो वस्त्रग्रहणार्थ हिण्डन्ते । अथ सङ्घाटकेन न प्राप्यते ततो वृन्देनापि यतनया पर्यटन्ति । अथ 'साधारणं' बहूनामाचार्याणां सामान्यं तत् क्षेत्रं ततो यदि तत्रापरेषामाचार्याणामनापृच्छया गृह्णन्ति तदा “अदत्तं" ति साधर्मिकस्तैन्यं भवति, अतस्तानापृच्छ्य स ग्रहीतव्यानि, - गृहीत्वा च तेषां वस्त्राणाम् 'एकतः' एकसदृशा भागाः 25 कर्तव्या न विसदृशा इति सङ्ग्रहगाथासमासार्थः ॥ ४३०९॥ साम्प्रतमेनामेव विवृणोति
निस्साधारण खेत्ते, हिंडतो चेव गीतसंघाडो ।
उप्पादयते वत्थे, असती तिगमादिवंदेणं ॥ ४३१० ॥ 'निस्साधारणे' एकाचार्यप्रतिबद्धे क्षेत्रे गीतार्थसङ्घाटको भिक्षां हिण्डमान एव वस्त्राण्युत्पाद१°रणाऽणपु तामा० ॥ २१ एतन्मध्यगतः पाठः भा. कां• एव वर्तते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org