________________
११६६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ समवसरणप्रकृते सूत्रम् १५ वस्त्रग्रहणं कियदपि कृतं ते च क्षेत्रवामिन आगताः ततस्तेषु 'शुद्धेषु' विधिना आगतेषु यावद् वस्त्रादि गृहीतं तावत् तेषां प्रत्यर्पयितव्यम् , शेषस्य १ चोपकरणस्य » ग्रहणं न कर्त्तव्यम् ॥ ४३०२॥ इदमेव सविशेषमाह
उप्पन्न कारणाऽऽगंतु पुच्छिउं तेहि दिण्ण गेण्हंति ।
तेसाऽऽगयेसु सुद्धेसु जत्तियं सेस अग्गहणं ॥ ४३०३ ॥ बाल-वृद्ध-शैक्षादीनां शीतपरितापनालक्षणे वस्त्रग्रहणकारणे उत्पन्ने खक्षेत्रे वस्त्रदुर्लभतां सम्यग निश्चित्य परक्षेत्रे वस्त्रग्रहणं कर्तुकामाः क्षेत्रवामिनामन्तिके गत्वा पृष्ट्वा च तैः 'दत्तम्' . अभ्य
नुज्ञातं यावत्प्रमाणं वस्त्रादि तावदेवं गृह्णन्ति, नातिरिक्तम् । अथ न ज्ञायन्ते ते कुत्रापि 10 गतास्ततो विधिपृच्छया उपकरणे गृहीते यदि ते क्षेत्रिकाः शुद्धा आगच्छेयुः ततः शुद्धेषु तेष्वागतेषु ततो यावद् गृहीतं तावत् तेषां प्रत्यर्पयन्ति, शेषस्य चाग्रहणम् ॥ ४३०३ ॥ कथं पुनस्ते क्षेत्रिका आगताः शुद्धा अशुद्धा वा भवन्ति ? इति उच्यते
पडिजग्गंति गिलाणं, ओसहहेऊहि अहव कजेहिं ।
एतेहिं होंति सुद्धा, अह संखडिमादि तह चेव ॥ ४३०४॥ 15 क्षेत्रिका मासद्वये पूर्णेऽपि अमीभिः कारणैर्न समागन्तुं शक्नुयुः--ग्लानं प्रतिजाग्रतः स्थिताः, ग्लानस्य वा औषधम्-अगदं तन्मीलनहेतोः स्थिताः, कुल-गण-सङ्घकार्येषु वा व्यापृताः; एवमादिभिः कारणैरनागच्छन्तः शुद्धाः । अथ सङ्खडिनिमित्तं स्थिता व्रजिकादिषु वा प्रतिबध्यमाना आगताः ततः 'तथैव' मासद्वयं यावत् तदीयं क्षेत्रम् , उपरि तु पञ्चरात्रं न ते प्रभवः, ततो यत् तैस्तत्र क्षेत्रे गृहीतं तद् गृहीतमेव, न क्षेत्रिकाणां प्रयच्छन्ति ॥ ४३०४ ॥ 20 अमूनि तु विशुद्धकारणानि
तेणभय सावयभया, वासेण णदीय वा वि(निरुद्धाणं ।
दायव्वमदेंताणं, चउगुरु तिविहं च णवमं वा ॥ ४३०५॥ स्तेनभयाद्वा श्वापदभयाद्वा » वर्षेण वा नद्या वा निरुद्धानां चिरादागमनमभूत् ततो यद् गृहीतं तत् तेषामागतानां दातव्यम् । अथ न ददति ततश्चतुर्गुरुकम् , उपकरणनिष्पन्नं 25 वा 'त्रिविधं' पञ्चक-मासिक-चतुर्लघुकलक्षणम् , 'नवमं वा' सूत्रादेशेनानवस्थाप्यम् ॥४३०५॥
परदेसगते गाउं, सयं व सेजातरं व पुच्छित्ता । __ गेण्हंति असहभावा, पुण्णेसु तु दोसु मासेसु ॥ ४३०६ ॥ खयमपि क्षेत्रिकान् परदेशगतान् । ज्ञात्वा शय्यातरं वा पृष्ट्वा परदेशगतान् - निश्चित्य द्वयोर्मासयोः पूर्णयोः 'अशठभावाः' शुद्धपरिणामा गृह्णन्ति ॥ ४३०६ ॥
बिइयपदमणाभोगे, सुद्धा देता अदेंते ते च्चेव ।
आउट्टिया गिलाणादि जत्तियं सेस अग्गहणं ॥ ४३०७॥ १ - एतन्मध्य गतः पाठः भा० कां० एव वर्तते ॥ २ °व ग्रहीतव्यम् , नाति° का० ॥ ३°द्धाः समाग° त० डे० ॥ ४-५ एतन्मध्यगतः पाठः भा० को. एव वत्तेते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org