________________
भाष्यगाथाः ४२९४ - ४३०२ ]
तृतीय उद्देशः ।
Jain Education International
११६५
यो गृहाति तस्य दोषानुपदर्शयति-
करणाणुपालयाणं, भगवतों आणं पडिच्छमाणाणं । जो अंतरा उ गेहति, तट्टाणारोवणमदत्तं ।। ४२९९ ॥ करणस्य - पिण्डविशुद्ध्यादेः अनु - पश्चात् पूर्वऋषिपरम्पराक्रमेण पालकाः करणानुपालकास्तेषाम्, करणस्य च चरणाविनाभावित्वात् चरणानुपालकानामित्यपि द्रष्टव्यम्, एतेन शीतल - 5 विहारितादोषस्तेषां परिहृतो भवति 'भगवतः' वर्द्धमानस्वामिनो या आज्ञा तां तथेति प्रतिपत्या प्रतीच्छताम् अनेन यथाच्छन्दतादोषस्तेषां नास्तीत्युक्तं भवति; एवंविधानां साधूनां क्षेत्रे 'अन्तरा' तैरगृहीते उपकरणे यो वस्त्रादि गृह्णाति तस्य ' तत्स्थानारोपणा' स्वस्थानप्रायश्चित्तम्, तद्यथा - - उत्कृष्टे चतुर्लघवः, मध्यमे मासिकम् जघन्ये पञ्चकम् ; सूत्रादेशेन वा साधर्मिकस्तैन्यमिति कृत्वाऽनवस्थाप्यम् । "अदत्तं " ति भगवता नानुज्ञातमिति कृत्वा तीर्थकरादत्तमपि 10 भवति ॥ ४२९९ ॥
"
उवरिं पंचमपुणे, गहणमदत्तं गत त्ति गेण्हंति ।
अणपुच्छ दुपुच्छावा, तं पुण्णें गत त्ति गेव्हंति ॥ ४३०० ॥ परक्षेत्रे द्वयोर्मासयोरुपरि पञ्चसु दिनेष्वपूर्णेषु यदि ग्रहणं करोति तदा अदत्तादानदोषः प्रसज्यते । अथ जानन्ति गता अन्यदेशं क्षेत्रखामिनस्ततोsपूर्णेष्वपि पञ्चरात्रिन्दिवेषु गृह्णन्ति । 10 •1 अथ शङ्कितं ततो न गृह्णन्ति । अथ ते परदेशं न गतास्ततो यद्यनापृच्छया - दुःपृच्छया → वा वस्त्रं गृह्णन्ति ततस्तथैवादत्तादानदोषं प्राप्नुवन्ति । यत एवमतः 'तद्' वस्त्रादिकमुपकरणं 'गता निःशङ्कितमन्यदेशं क्षेत्रिकाः' इति विज्ञाय पूर्णे मासद्वये गृह्णन्ति । अत्राना - पृच्छा नाम - 'क्षेत्रिकैर्वस्त्रग्रहणं कृतं न वा' इति न पृच्छति, दुःपृच्छा पुनः - अविधिना प्रच्छनं ॥ ४३०० ॥ सा चेयम् —
गोवाल- वच्छवाला - कासग - आदेस - बाल- बुड्ढाई |
अविधी विही उ सावग - महतर - धुवकम्मि- लिंगत्था ॥ ४३०१ ॥ ये गोपाल - वच्छपाल - कर्षकाः प्रभाते निर्गताः सन्तो भूयः प्रदोषे ग्रामं प्रविशन्ति, ये वा तत्रादेशाः - प्राघूर्णका अन्यमामादायाताः, ये वा बाल-वृद्धादयोऽत्यन्तमुग्धा विस्मरणशीलाश्च तान् पृच्छति—किं श्रमणैः कृतं वस्त्रग्रहणं न वा ? इति एषा अविधिपृच्छा । विधिपृच्छा 26 पुनरियम् — श्रावका ग्राममहत्तरा वा प्रच्छनीया येषु साधूनां वस्त्रग्रहणसम्भवो भवति, ये वा ध्रुवकर्मिकाः - लोहकार - रथकारादयः ये वा लिङ्गस्थाः - लिङ्गधारिणस्तान् पृच्छति 'वस्त्रादिग्रहणं साधुभिः कृतं न वा ?' इति ॥ ४३०१ ॥ परक्षेत्रे वस्त्रग्रहणविधिमभिधित्सुराह - गंतूण पुच्छिऊण य, तेसिं वयणे गवेसणा होति । तेसrssidy सुद्धेसु जत्तियं सेस अग्गहणं ॥ ४३०२ ॥
क्षेत्रस्वामिनां समीपे गत्वा विधिवद् आपृच्छ्य तेषां साधूनां 'वचने' अनुज्ञायां तदीये क्षेत्रे वस्त्रगवेषणा कर्त्तव्या भवति । अथ न ज्ञायन्ते ते कुत्रापि गता अमीभिश्च साधुभिस्तत्र एतचिह्नान्तर्गतः पाठः भा० कां० एव वर्तते ॥
१-२
For Private & Personal Use Only
20
30
www.jainelibrary.org