SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ ११६४ सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [ समवसरणप्रकृते सूत्रम् १५ सीतं अविसहमाणे, गेहंति इमाएँ जयणाए ॥ ४२९४ ॥ तथाविधवस्त्राभावाद् बाला-ऽसहिष्णु-वृद्ध-लान-क्षपक-शैक्षाकुले गच्छे शीतम् 'अविषहमाणे' सोढुमशक्ते साधवोऽनया यतनया खक्षेत्रे परक्षेत्रे वा वस्त्राणि गृहन्ति ।। १२९४ ॥ पंचूणे दो मासे, दसदिवसूणे दिवड्डमासं वा। . दस-पंचऽधियं मासं, पणुवीसदिणे व वीसं या ॥ ४२९५ ॥ पन्नरस दस य पंच व, दिणाणि परिहरिय गेण्ह एगं वा । अहवा एकेक दिणं, अउणट्टिदिणा' आरम्भ ॥ ४२९६ ॥ आगाढे कारणे पञ्चभिर्दिवसैरूनौ द्वौ मासौ परिहृत्य वस्त्रं ग्रहीतव्यम् । अथ तावन्तं कालं यावद् बाल-वृद्धादयः शीतेन परिताप्यमाना न संस्तरन्ति ततो दशदिवसोनौ द्वौ मासौ परि10 हृत्य वस्त्रं ग्राह्यम् । एवं सार्धमासं दशदिवसाधिकं वा पञ्चदिवसाधिकं वा अन्यूनाधिकं वा । मासं पञ्चविंशतिदिनानि विंशतिदिनानि पञ्चदशदिनानि दशदिनानि पञ्च वा दिनानि यथा क्रमं परिहृत्य वस्त्रं गृह्णीयात् । अथ पञ्च दिवसानपि वस्त्राभावे बाल-वृद्धादयो नात्मानं निर्वाहयितुमीशास्ततश्चत्वारि त्रीणि द्वे यावदेकमपि दिनं परिहृत्य ग्रहीतव्यम् । अथवा एकैकदिनहानिरत्र द्रष्टव्या, तद्यथा-यत्र वर्षावासं स्थितास्तत्र षष्टिदिनानि परिहृत्य उत्सर्गतो 16 वस्त्रग्रहणं कर्त्तव्यम् , कारणे पुनरेकोनषष्टिदिनान्यारभ्येकैकदिनं हापयता तावद् वक्तव्यं यावदेकमपि दिनं परिहृत्य वस्त्रग्रहणं कार्यम् ॥ ४२९५ ॥ ४२९६ ॥ व्याख्यातं प्रथमसमवसरणसूत्रम् , सम्प्रति द्वितीयसमवसरणसूत्रं व्याख्याति बिइयम्मि समोसरणे, मासा उक्कोसगा दुवे होति । ओमत्थगपरिहाणीय पंच पंचेव य जहण्णे ॥ ४२९७ ॥ 20 द्वितीयं समवसरणं नाम-ऋतुबद्धकालः, तत्र मासकल्पेन स्थिता वस्त्रादिकमुपकरणमुत्पा दयन्ति, मासकल्पानन्तरं च तत्र द्वौ मासावुत्कर्षतः परिहर्त्तव्यौ भवतः । कारणे तु तथैवावामुखपरिहाण्या पञ्च पञ्च दिनानि हापयता तावद् नेयं यावद् जघन्यत एकं दिनं परिहर्त्तव्यम् ॥ ४२९७ ॥ अमुमेवार्थ स्फुटतरमाह अपरिहरंतस्सेते, दोसा ते चेव कारणे गहणं । बाल-बुड्ढाउले गच्छे, असती दस पंच एक्को य ॥ ४२९८ ॥ यत्र क्षेत्रे मासकल्पः कृतस्तत्र द्वौ मासावपरिहरतस्त एव दोषा मन्तव्या ये वर्षावासे मासद्वयमपरिहरत उक्ताः । कारणे तु ग्रहणं कर्त्तव्यम् , कथम् ? इत्याह-बाल-वृद्धाकुले गच्छे वस्त्राभावे पञ्चकपरिहाण्या एकैकपरिहाण्या वा तावद् वक्तव्यं यावद् दश वा पञ्च वा एको वा दिवसः परिहर्तव्यः । यत्र संविनैर्मासकल्पो वर्षाकल्पो वा कृतस्तत्र मासद्वयादुपरि पञ्चसु 30दिवसेष्वपूर्णेष्वन्येषां न कल्पते किञ्चिदपि ग्रहीतुम् ॥ ४२९८ ॥ १ 'म् ॥ ४२९५॥ ४२९६ ॥ सूत्रम्-कप्पइ निग्गंथाण वा निग्गंथीण वा दोञ्चसमोसरणुदेसपत्ताई चेलाई पडिगाहित्तए ॥ अत्र भाष्यम्-बिहयम्मि भा० । चूर्णी विशेषचूर्णी चापीदं सूत्रं पूर्वमुपन्यस्त्रमपि (दृश्यता पत्र ११४९ टिप्पणी १) पुनरत्राप्युपक्षिप्तं वर्तते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy