________________
भाष्यगाथाः ४२८६ - ९३ ]
तृतीय उद्देशः ।
११६३
'इतरे' पार्श्वस्थादयो वर्षास्वपि वस्त्राणि गृह्णन्ति, न च नियमेनैव चतुर्मासानन्तरं ते विहरन्ति, अतस्तैः शुद्धे अशुद्धे वा उपकरणे गृहीते यत् शेषं वस्त्रादिकं श्राद्धाः प्रयच्छन्ति तद् मासद्वयमध्येऽपि गृह्णन्ति ॥ ४२८९ ॥
सक्खेते परखेत्ते वा, दो मासा परिहरेतु गेव्हंति ।
जं कारणं ण णिग्गय, तं पि बहिंझोसियं जाणे ॥ ४२९० ॥
स्वक्षेत्रं-यत्रात्मना वर्षाकल्पः कृतः परक्षेत्र - यत्रापरे संविमा वर्षाकल्पं स्थितास्तत्र स्वक्षेत्रे परक्षेत्रे वा द्वौ मासौ परिहृत्य तृतीयमासि गृह्णन्ति । अथ चतुर्मासानन्तरं कर्दमादिभिः कारर्न निर्गतास्ततः 'यं' यावन्तं कालं कारणमपेक्ष्य न निर्गतास्तमपि कालं 'बहिजो षितं ' बहि:क्षिप्तं 'जानीयाद्' गणयेत्, तावन्तमपि कालं बहिर्निर्गता इव मन्तव्या इति भावः ॥ ४२९० ॥ कैः पुनः कारणैर्न निर्गता: : इत्याह
10
चिक्खल्ल;वास-असिवादिएसु जहिँ कारणेसु उ ण णिति । दिते पडिसेधेत्ता, गेहंति उ दोसु पुण्णेसु ।। ४२९१ ॥ चिक्खल्लः–कर्दमस्तद|कुलाः पन्थानः, वर्षं वा नोपरमते, अशिव- दुर्भिक्षादीनि वा बहिरुपस्थितानि, एवमादिभिः कारणैर्यत्र न निर्गच्छन्ति तत्र यदि केचिद् वस्त्रादिना निमन्त्रयन्ति तदा तान् ददतः प्रतिषिध्य द्वयोस्तु मासयोः पूर्णयोर्वस्त्रादिकं गृह्णन्ति ॥ ४२९१ ॥
कुतः ? इत्याह
5
भावो उणिग्गतेहिं, वोच्छिजइ देंति ताइँ अण्णस्स । अत्तट्ठेति व ताई, एमेव य कारणमणिते ।। ४२९२ ॥
'ये साधव इह क्षेत्रे वर्षावासं स्थितास्तेषां वस्त्राणि दास्यामः' इत्येवं यः श्राद्धानां भावः स निर्गतेषु साधुषु व्यवच्छिद्यते, यानि वा वस्त्राणि दातुं सङ्कल्पितानि तानि 'अन्यस्य' पार्श्वस्थादे: 20 प्रयच्छन्ति स्वयमेव वा 'आत्मार्थयन्ति' परिभुञ्जत इत्यर्थः । अथ चतुर्मासानन्तरं कारणमपेक्ष्य न निर्गच्छन्ति ततो मासद्वयमध्ये श्राद्धानामभ्यर्थनायामप्यगृह्णानेष्वेवमेव भावो व्यवच्छिद्यते, अतो द्वौ मासौ परिहृत्य ग्रहीतव्यम् । कारणे तु मासद्वयमध्येऽपि गृह्णीयात् ॥ ४२९२ ॥ तदेव दर्शयति
१ गृहतामेवमेव भा० ॥ २ दिनानि त कां० ॥
गच्छे सवाल- बुड्ढे, असती परिहर दिवड्डमासं तु ।
पणतीसा पणुवीसा, पण्णरस दसेव एकं च ॥ ४२९३ ॥
सबाल-वृद्धे गच्छे वस्त्राभावे शीतं सोढुमसमर्थे सार्धं मासं 'परिहर' वर्जय, परिहृत्य च तत ऊर्द्धं गृह्णीयात् । अथ सार्धमासमपि परिहर्तुं न शक्तस्ततः पञ्चत्रिंशतं दिनानि परिहर, अप गच्छो न संस्तरति ततः पञ्चविंशतिदिनानि, तथाप्यसंस्तरणे पञ्चदश दिनानि, तथाप्यशक्तौ दश दिवसान्, तथाप्यसामर्थ्य एकमपि दिनं परिहरेदिति सङ्ग्रहगाथासमासार्थः ॥ ४२९३ ॥ 30 अथैनामेव विवृणोति —
बाल-सह- वुड्डु - अतरंत खमंग - सेहाउलम्मि गच्छमि ।
Jain Education International
15
For Private & Personal Use Only
25
www.jainelibrary.org