________________
११६२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ समवसरणप्रकृते सूत्रम् १५ दिवसशतम् , ] श्रावणबहुलदशम्यां दशोत्तरं दिवसशतं मध्यम एव वर्षाकालावग्रहो भवति । शेषान्तरेषु दिवसपरिमाणं गाथायामनुक्तमपि इत्थं वक्तव्यम्-भाद्रपदामावास्यां पर्युषणे क्रियमाणे पञ्चसप्ततिदिवसाः, भाद्रपदबहुलपञ्चम्यां पञ्चाशीतिः, श्रावणशुद्धदशम्यां पञ्चनवतिः, श्रावणामावास्यां पञ्चोत्तरं शतम् , श्रावणबहुलपञ्चम्यां पञ्चदशोत्तरं शतम् , आषाढपूर्णिमायां तु पर्युषिते विंशत्युत्तरं दिवसशतं भवति । एवमेतेषां प्रकाराणामन्यतरेण वर्षावासमेकक्षेत्रे स्थित्वा कार्तिकचातुर्मासिकप्रतिपदि निर्गन्तव्यम् । अथ मार्गशीर्षे गाढं वर्ष वर्षति कर्दमजलाकुलाश्च पन्थानः ततोऽपवादेनैकं दशरात्रमवतिष्ठन्ते, अथ तथापि वर्ष नोपरमते ततो द्वितीयं दशरात्रं तत्रासते, अथैवमपि वर्ष न तिष्ठति ततस्तृतीयमपि दशरात्रमासते, एवं
त्रीणि दशरात्राण्युत्कर्षतस्तत्र क्षेत्रे आसितव्यम् , मार्गशिरःपौर्णमासी यावदित्यर्थः । तत ऊर्दू 10 यद्यपि कर्दमाकुलाः पन्थानः, वर्ष चागाढमनुपरतं वर्षति, यद्यपि च पानीये प्लवमानस्तदानीं ग़म्यते तथाप्यवश्यं निर्गन्तव्यम् । एवं पाञ्चमासिको ज्येष्ठकल्पावग्रहः सम्पन्नः ॥ ४२८५ ॥ अथ तमेव पाण्मासिकमाह
काऊण मासकप्पं, तत्थेव ठिताणऽतीतें मग्गसिरे ।
सालंबणाण छम्मासिओ उ जेट्ठोग्गहो होति ॥ ४२८६ ॥ 1. यस्मिन् क्षेत्रे आषाढमासकल्पः कृतस्तद् वर्षावासयोग्यम् अन्यच्च तथाविधं क्षेत्रं नास्ति ततो मासकल्पं कृत्वा तत्रैव वर्षावासं स्थितानां ततश्चतुर्मासानन्तरं कर्दम-वर्षादिभिः कारणैरतीते मार्गशीर्षमासे निर्गच्छतां 'सालम्बनानाम्' एवंविधालम्बनसहितानां पाण्मासिको ज्येष्ठावग्रहो भवति, एकक्षेत्रेऽवस्थानमित्यर्थः ॥ ४२८६ ॥
अह अत्थि पदवियारो, चउपाडिवयम्मि होति निग्गमणं ।
अहवा वि अणिताणं, आरोवण पुव्वनिद्दिट्ठा ॥ ४२८७॥ ___ अथास्ति कर्दम-वर्षादिकारणाभावात् पदविचारः ततश्चतुर्णा मासानां पर्यन्ते या प्रतिपत् तस्यां निर्गमनं कर्त्तव्यम् । अथ ते पदप्रचारसम्भवेऽपि न निर्गच्छन्ति ततोऽनिर्गच्छता 'पूर्वनिर्दिष्टा' मासकल्पप्रकृते प्रागभिहिता चतुर्लघुकाख्या आरोपणा मन्तव्या ॥ ४२८७ ॥
__ अथ निर्गतानां सामाचारीमुपदर्शयति25
पुण्णम्मि णिग्गयाणं, साहम्मियखेत्तवजिते गहणं ।
संविग्गाण सकोसं, इयरे गहियम्मि गेहंति ॥ ४२८८ ॥ पूर्णे वर्षावासावग्रहे निर्गतानां यत्र साधर्मिकैवर्षावासः कृतस्तत् क्षेत्रं वर्जयित्वा अन्येषु श्राम-नगरादिषूपकरणस्य ग्रहणं भवति । ये संविनाः साम्भोगिका असाम्भोगिका वा तेषां यद् वर्षाक्षेत्रं तत् सक्रोशयोजनं परिहृत्य गृह्णन्ति । इतरे-पार्श्वस्थादयस्तेषां यद् वर्षावासक्षेत्रं तत्र 30 तैर्गृहीते उपकरणे पश्चात् संविमा गृह्णन्ति, तेषां च क्षेत्रं मासद्वयं न परिहियते ॥ ४२८८ ॥ कुतः ? इति चेद् उच्यते
वासासु वि गिण्हंती, णेव य णियमेण इतर विहरंती । तहिइं सुद्धमसुद्धे, गहिए गिण्हति जं सेसं ॥ ४२८९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org