________________
भाष्यगाथाः ४२७९-८५] तृतीय उद्देशः ।
११६१ कार्तिकमासं यावत् कर्त्तव्यम् ॥ ४२८२ ॥ किं पुनः कारणम् इयति काले व्यतीत एवं गृहिज्ञातं क्रियते ? नार्वाग् ? इति अत्रोच्यते
असिवाइकारणेहिं, अहवण वासं ण सुदु आरद्धं । [द.श्रु.नि. ६६]
अभिवड्डियम्मि वीसा, इयरेसु सवीसती मासे ॥ ४२८३ ॥ . कदाचित् तत्र क्षेत्रेऽशिवं भवेत् , आदिशब्दाद् राजद्विष्टादिकं वा भयमुपजायेत, एव-5 मादिभिः कारणैः; अथवा तत्र क्षेत्रे न सुष्ठु वर्ष वर्षितुमारब्धं येन धान्यनिष्पत्तिरुपजायते, ततश्च प्रथममेव 'स्थिता वयम्' इत्युक्ते पश्चादशिवादिकारणे समुपस्थिते यदि गच्छन्ति ततो लोको ब्रूयात्-अहो ! एते आत्मानं सर्वज्ञपुत्रतया ख्यापयन्ति परं न किमपि जानते, मृषावादं वा भाषन्ते, 'स्थिताः स्मः' इति भणित्वा सम्प्रति गच्छन्ति इति कृत्वा । अथाशिवादिकारणेषु सञ्जातेष्वपि तिष्ठन्ति तत आज्ञादयो दोषाः । अपि च 'स्थिताः स्मः' इत्युक्त गृहस्था-10 श्चिन्तयेयुः-अवश्यं वर्ष भविष्यति येनैते वर्षारात्रमत्र स्थिताः; ततो धान्यं विक्रीणीयुः गृहं वा छादयेयुः हलादीनि वा संस्थापयेयुः । यत एवमतोऽभिवर्धितवर्षे विंशतिराने गते 'इतरेषु च' त्रिषु चन्द्रसंवत्सरेषु सविंशतिरात्रे मासे गते गृहिज्ञातं कुर्वन्ति ॥ ४२८३ ॥
__ एत्थ उ पणगं पणगं; कारणिगं जा सवीसती मासो । [द.श्रु.नि. ६७]
सुद्धदसमीठियाण व, आसाढीपुण्णिमोसरणं ॥ ४२८४॥ 16 'अत्र' इति आषाढपूर्णिमायां स्थिताः पञ्चाहं यावद् दिवा संस्तारक-डगलादि गृहन्ति, रात्रौ च पर्युषणाकल्पं कथयन्ति, ततः श्रावणबहुलपञ्चम्यां पर्युषणं कुर्वन्ति । अथाषादपूर्णिमायां क्षेत्रं न प्राप्तास्तत एवमेव पञ्चरात्रं वर्षावासप्रायोग्यमुपधिं गृहीत्वा पर्युषणाकल्पं च कथयित्वा दशम्यां पर्युषणयन्ति । एवं कारणिकं रात्रिन्दिवानां पञ्चकं पञ्चकं च वर्धयता तावद् नेयं यावत् सविंशतिरात्रो मासः पूर्णः । अथवा ते आषाढशुद्धदशम्यामेव वर्षाक्षेत्रे स्थितास्ततस्तेषां 20 पञ्चरात्रेण डगलादौ गृहीते पर्युषणाकल्पे च कथिते आषाढपूर्णिमायां 'समवसरणं' पर्युषणं भवति, एष उत्सर्गः । शेषं कालं पर्युषणमनुतिष्ठतां सर्वोऽप्यपवादः । 1 अपवादेऽपि सविंशतिरात्राद् मासात् परतो नातिक्रमयितुं कल्पते । यद्येतावत्यपि गते वर्षाक्षेत्रं न लभ्यते ततो वृक्षमूलेऽपि पर्युषणयितव्यम् - ॥ ४२८४ ॥ अथ पञ्चकपरिहाणिमधिकृत्य ज्येष्ठकल्पावग्रहप्रमाणमाह
इय सत्तरी जहण्णा, असिती णउई दसुत्तर सयं च । [द.श्रु.नि. ६८]
जति वासति मग्गसिरे, दस राया तिणि उक्कोसा ॥४२८५॥ 'इतिः' उपप्रदर्शने । ये किल आषाढपूर्णिमायाः सविंशतिराने मासे गते पर्युषणयन्ति तेषां सप्ततिदिवसानि जघन्यो वर्षावासावग्रहो भवति, १ भाद्रपदशुद्धपञ्चम्या अनन्तरं कार्तिकपूर्णिमायां सप्ततिदिनसद्भावात् । एवं ~ ये भाद्रपदबहुलदशम्यां पर्युषणयन्ति तेषाम-30 शीतिर्दिवसा मध्यमो वर्षाकालावग्रहः, श्रावणपूर्णिमायां नवतिर्दिवौः, [श्रावणशुद्धपञ्चम्यां
१°सवर्ण तामा• विना ॥ २-३ एतदन्तर्गतः पाठः भा. नास्ति ॥ ४ एतदनन्तरं चूर्णी विशेषचूर्णी चात्र “सावणसुद्धपंचमीए सयं" इति वर्तते ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org