SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ समवसरणप्रकृते सूत्रम् १५ च गुरुप्रदत्तं यथोक्तं वोढव्यम् । अथवा कार्य समुत्पन्ने यत् पात्रं वा चीवरं वा चारणादिषु गृहीतं तत् सर्व कृते कायें परिष्ठापनीयम् , अपरिणामकप्रत्ययनिमित्तं च यथालघीयः प्रायश्चित्तं वोढव्यम् ॥ ४२७८ ॥ सज्झायट्ठा दप्पेण वा वि जाणतए वि पच्छित्तं । कारण गहियं तु विदू, धरतऽगीएसु उज्झति ॥ ४२७९ ॥ __ खाध्यायार्थ दर्पण वा यदि "बहि-अंत-ऽसन्नि-सन्निसु, जं दिढे तेसु चेव जमदिहें।" (गा० ४२७१) इत्यादिकं क्रममुल्लङ्य गृहीतं तत्र 'जानतोऽपि' गीतार्थस्यापि प्रायश्चित्तम् । यत्तु कारणे क्रमेण विधिना गृहीतं तद् यदि सर्वेऽपि 'विदः' गीतार्थास्तदा धारयन्ति । अथागीतार्थमिश्रास्ततोऽन्यस्मिनुपकरणे लब्धे तद् उज्झन्ति ॥ ४२७९ ॥ अथ यस्मिन् काले वर्षा10 वासे स्थातव्यं यावन्तं वा कालं येन वा विधिना तदेतदुपदर्शयति आसाढपुण्णिमाए, वासावासासु होति अतिगमणं । [द.श्रु.नि. ६३] मग्गसिरबहुलदसमी, उ जाव एकम्मि खेत्तम्मि ॥ ४२८० ॥ आषाढपूर्णिमायां वर्षावासप्रायोग्ये क्षेत्रे 'अतिगमनं' प्रवेशः कर्तव्यो भवति । तत्र चापवादतो मार्गशीर्षबहुलदशमी यावदेकत्र क्षेत्रे वस्तव्यम् । एतच्च चिक्खल्ल-वर्षादिकं वक्ष्य16माणं कारणमङ्गीकृत्योक्तम् । उत्सर्गतस्तु कार्तिकपूर्णिमायां निर्गन्तव्यम् ॥ ४२८०॥ इदमेव भावयति बाहि ठिया वसमेहिं, खेत्तं गाहेत्तु वासपाउग्गं । [द.श्रु.नि. ६४] कप्पं कत्तु ठवणा, सावणबहुलस्स पंचाहे ॥ ४२८१ ॥ यत्राषाढमासकल्पः कृतस्तत्र अन्यत्र वा प्रत्यासन्नग्रामे स्थिता वर्षाक्षेत्रं वृषभैः साधुसामाचारी 20 माहयन्ति । ते च वृषभा वर्षाप्रायोग्यं संस्तारक-तृण-डगल-क्षार-मल्लकादिकमुपधि गृहन्ति । तत आषाढपूर्णिमायां प्रविष्टाः प्रतिपद आरभ्य पञ्चभिरहोभिः पर्युषणाकल्पं कथयित्वा श्रावणबहुलपञ्चम्यां वर्षाकालसामाचार्याः स्थापनां कुर्वन्ति, पर्युषणयन्तीत्यर्थः ॥ ४२८१ ॥ एत्थ य अणभिग्गहियं, वीसतिरायं सवीसगं मासं । [द.श्रु.नि. ६५] तेण परममिग्गहियं, गिहिणायं कत्तिओ जाव ॥ ४२८२ ॥ 28 'अत्र' इति श्रावणबहुलपञ्चम्यादावात्मना पर्युषितेऽपि 'अनभिगृहीतम्' अनवधारितं गृहस्थानां पुरतः कर्त्तव्यम् । किमुक्तं भवति ?-यदि गृहस्थाः पृच्छेयुः-आर्याः ! यूयमत्र स्थिता वा ! न वा ? इति; एवं पृष्टे सति ‘स्थिता वयमत्र' इति सावधारणं ने वक्तव्यम् , किन्तु साकारम् , यथा---नाद्यापि कोऽपि निश्चयः स्थिता अस्थिता वेति । इत्थमनभिगृहीतं कियन्तं कालं वक्तव्यम् ! उच्यते-यद्यभिवर्धितोऽसौ संवत्सरस्ततो विंशतिरात्रिन्दिवानि, अथ चान्द्रो30 ऽसौ ततः सविंशतिरानं मासं यावदनभिगृहीतं कर्तव्यम् । “तेणं" ति विभक्तिव्यत्ययात् 'ततः परं' विंशतिरात्रात् सविंशतिरात्रमासाच्च ऊर्द्धम् 'अभिगृहीतं' निश्चितं कर्तव्यम् 'गृहिज्ञातं च' गृहस्थानां पृच्छतां ज्ञापना कर्तव्या, यथा-वयमत्र वर्षाकालं स्थिताः । एतच्च गृहिज्ञातं १°म्यामारम° भा०॥ २ न कर्त्तव्यम् मो० त० हे. ताटी.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy