________________
भाष्यगाथाः ४२७१-७८] तृतीय उद्देशः । ___ यद् 'दूरे' ग्रामाद् बहिर्षस्त्रं तद् यदि प्रथमं कल्पते तत एवं नाम क्षेत्राद् बहिः सुतरां प्रथमतरं गृह्णन्तु । सूरिराह-एवं भणतो भवतश्चतुर्गुरुकाः । अथ क्षेत्राद् बहिर्गच्छति ततो गुरुका वा लघुका वा प्रायश्चित्तम् । तत्र नवप्रावृषि चत्वारो गुरवः, शेषे वर्षाकाले चत्वारो लघवः ॥ ४२७३ ॥ "कारण गमणे बहुगुण"मिति पदं व्याचष्टे-»
संबद्ध-भाविएस, कप्पति जा पंच जोयणे कज्जे ।।
जुण्णे व वासकप्पं, गेण्हति जं बहुगुणं चऽण्णं ॥ ४२७४ ॥ . यानि साधर्मिकसम्बन्धेन सम्बद्धानि परस्परं गमना-ऽऽगमनभावितानि च क्षेत्राणि तेषु वर्षासु कल्पते साधर्मिकाणामुदन्तवहनार्थं चत्वारि पञ्च योजनानि वा यावद् गन्तुं वस्तुं वा । एवं कार्ये गतस्य तस्यापान्तराले वर्षात्राणेन कश्चिद् निमन्त्रणां कुर्यात् , तस्य च प्राक्तनो वर्षाकल्पः परिजीर्णः, तच्च वर्षात्राणं घन-मसृणमभिनवं च, ततो वर्षासु बहुगुणमिति कृत्वा 10 गृह्णाति । कारणतः 'अन्यदपि' पटलकादिकं घन-मसृणादिगुणोपेतमाचार्यप्रायोग्यं वा यद् वस्त्रं लभ्यते तदपि 'भूयान् गुणोऽत्र गृहीते भविष्यति' इति कृत्वा गृह्यते । एवं कारणे गमनं ग्रहणं चोभयमपि दृष्टम् , कारणाभावे तु न कल्पते गन्तुं ग्रहीतुं वा ॥ ४२७४॥ अथ गृह्णाति ततोऽमून् षोडश दोषान् प्रामोति
आहाकम्मुद्देसिय, पूतीकम्मे य मीसजाए य । पि. नि. ९२] 18 ठवणा पाहुडियाँए, पादोकर कीत पामिच्चे ॥ ४२७५ ॥ परियट्टिए अभिहडे, उब्भिण्णे मालोहडे इ य । [पि. नि. ९३]
अच्छिज्जे अणिसिढे, धोते रत्ते य घढे य ॥ ४२७६ ॥ ' आधाकर्म १ औदेशिकं २ पूतिकर्म ३ मिश्रजातं ४ स्थापना ५ प्राभृतिका ६ प्रादुष्करणं ७ क्रीतं ८ प्रामित्यं ९ परिवर्तितम् १० अभ्याहृतम् ११ उद्भिन्नं १२ मालापहृतम् १३ 20 आच्छेद्यम् १४ अनिसृष्टं चेति १५ पञ्चदश दोषाः । “धोए रत्ते य घटे य" ति साधूनामर्थाय मलिनवस्त्रं 'धौतं' चौखं कृतमित्यर्थः, एवं 'रक्तं' प्रदत्तरागम् , 'घृष्टं मसूणपाषाणादिनोतेजितम् , एते त्रयोऽप्येक एव दोष इति ॥ ४२७५ ॥ ४२७६ ॥
एते सव्वे दोसा, पढमोसरणे ण वजिता होति ।
जिणदिटेहिं अगहिते, जो गेहति तेहि सो पुट्ठो ॥ ४२७७॥ 25 एते सर्वेऽप्याधाकर्मादयो दोषाः प्रथमे समवसरणे वस्त्रादिकं गृह्णता न वर्जिता भवन्ति । अथ पूर्व दर्पतो न गृहीतमुपकरणं ततः प्रथमे समवसरणे यो गृह्णाति. सोऽपि जिनैः-तीर्थकरैयें दृष्टाः कर्मबन्धदोषास्तैः स्पृष्टो मन्तव्यः, भावतस्तेन दोषाणामङ्गीकृतत्वात् ॥ ४२७७ ॥
पढमम्मि समोसरणे, जावतियं पत्त-चीवरं गहियं । सव्वं वोसिरियव्यं, पायच्छित्तं च वोढव्वं ॥ ४२७८ ॥
.30 प्रथमे समवसरणे दर्पतो यावत् पात्र-चीवरं गृहीतं तावत् सर्वमपि व्युत्लष्टव्यम् , प्रायश्चित्तं १ गहरा भा०॥ २ ॥ एतदन्तर्गतमवतरणं भा० नास्ति ॥ ३°या वा, पा तामा०॥ ४ 'रक्तं' सुढिप्रभृतिभिः प्रद° भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org