________________
११७४
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ यथारना०प्रकृते सूत्रम् १६
गहणं तेसिं इणमो, संजोगक(ग)मं तु वोच्छामि ॥ ४३३६ ॥ 'आचार्यः' गच्छाधिपतिः 'अभिषेकः' सूत्रा-ऽर्थ-तदुभयोपेत आचार्यपदस्थापनार्हः 'भिक्षुः' प्रतीतः 'क्षुल्लकः' बालः 'स्थविरः' वृद्धः, एतेषां पञ्चानामपि ग्रहणम् इदम्' अनन्तरमेव वक्ष्यमाणं 'संयोगगम' संयोगतो गमाः-प्रकारा यस्य तत् तथा वक्ष्यामि ॥ ४३३६ ॥ 5 प्रतिज्ञातमेव निर्वाहयति
सव्वे वि तारणिजा, संदेहाओ परक्कमे संते ।
एकेक अवणिज्जा, जाव गुरू तत्थिमो भेदो ॥ ४३३७॥ 'पराक्रमे' शक्तौ सत्यां 'सर्वेऽपि' आचार्यादयः तादृशात् 'सन्देहाद्' नद्याधुदकनिमज्जनलक्षणात् तारणीयाः । अथ नास्ति तादृशः पराक्रमस्ततः स्थविरवर्जाश्चत्वारस्तारणीयाः, तत्रा10 प्यशक्तौ क्षुल्लक-स्थविरवर्जास्त्रयः, तत्राप्यसामर्थ्य आचार्या-अभिषेकौ द्वौ, तत्राप्यशक्तौ एक एव __ आचार्यस्तारयितव्यः । आह च-"एकेकं" इत्यादि, सर्वान् तारयितुमशक्तौ स्थविरादिकमेकैकमपनयेद् यावद् 'गुरुः' आचार्यः । तत्र चायं वक्ष्यमाणो» भेदो भवति ॥ ४३३७ ॥
तरुणे निप्फन्न परिवारे, सलद्धिए जे य होति अब्भासे ।
अभिसेगम्मि य चउरो, सेसाणं पंच चेव गमा ॥ ४३३८॥ 15 इह द्वावाचा?–एकस्तरुणोऽपरः स्थविरः । यद्यस्ति शक्तिस्ततो द्वावपि तारेणीयौ । अथ
नास्ति ततस्तरुणो निस्तारणीयः। अथ द्वावपि तरुणौ ततो यस्तयोः 'निष्पन्नः' सम्यक् सूत्रार्थकुशलः स तारयितव्यः । अथ द्वावपि निष्पन्नावनिष्पन्नौ वा ततो यः सपरिवारः स तारणीयः । अथ द्वावपि सपरिवारावपरिवारौ वा ततो यस्तत्र 'सलब्धिकः' लब्धिसम्पन्नस्तं तारयेत् । अथ द्वावपि सलब्धिकावलब्धिको वा ततो यः 'अभ्यासे' आसन्ने स्थितः स निस्तारणीयः । अत्रायं 20 विशेषसम्प्रदायः--द्वयोरभ्यासस्थितयोर्यस्तरीतुमशक्तः स तारणीयः । एवमेते आचार्यस्य पञ्च गमा अभिहिताः । अभिषेकस्तु नियमाद् निष्पन्नो भवति, अन्यथा तत्त्वत आचार्यपदस्थापनायोग्यत्वानुपपत्तेः । ततस्तस्मिन्नभिषेके निष्पन्ना-ऽनिष्पन्नगमाभावात् शेषाश्चत्वारो गमा एवमेव वक्तव्याः । 'शेषाणां' भिक्षु-क्षुल्लक-स्थविराणां पञ्चापि गमा भवन्ति, ते चाचार्यवद् वक्तव्याः । नवरं बालस्य निष्पन्नता श्रीवज्रस्वामिन इव भावनीया, तरुणता तु प्रथमकुमारत्वे 25 वर्तमानस्यावसातव्या । एवं स्थविरस्यापि जघन्यवृद्धत्वे वर्तमानस्य तरुणता, शेषस्य तु वृद्धता मन्तव्या । त्रयाणामपि च भिक्षुप्रभृतीनां परिवारो गुरुप्रदत्तो माता-पितृ-भ्रातृ-भगिनीप्रभृतिप्रव्रजितखजनवर्गों वा द्रष्टव्यः ॥ ४३३८ ॥ अथ स्त्रीविषयं पञ्चविधं ग्रहणमुपदर्शयति
पवत्तिणि अभिसेगपत्ता, थेरी तह भिक्खुणी य खुड्डी य ।
गहणं तासि इणमो, संजोगक(ग)मं तु वोच्छामि ॥ ४३३९ ॥ 30 'प्रवर्तिनी' सकलसाध्वीनां नायिका, 'अभिषेकप्राप्ता' प्रवर्गिनीपदयोग्या, 'स्थविरा' वृद्धा, 'भिक्षुणी' प्रतीता, 'क्षुल्लिका' बाला । एतासां पञ्चानामपि ग्रहणम् 'इदम्' अनन्तरमेव 'संयोगगम' संयोगतोऽनेकप्रकारं वक्ष्यामि ॥ ४३३९ ॥ यथाप्रतिज्ञातमेवाह१५ एतचिहान्तर्गतो प्रन्थसन्दर्भः भा० का० एव वर्त्तते ॥ २ रयितव्यौ । अ° कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org