SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ ११५६ सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ समवसरणप्रकृते सूत्रम् १५ हणं भवति, एतेन प्रथम - चरमभङ्गौ सूचितौ । कालतः प्राप्तैरप्राप्तैर्वा क्षेत्रतो नियमात् प्राप्तै गलादीनि ग्रहीतव्यानि, अनेन तु द्वितीय-तृतीयभङ्गौ गृहीताविति ॥ ४२६२ ॥ तान्येव डगलादीनि दर्शयति डगल-ससरक्ख-कुंड मुह- मत्तगतिग-लेव- पादलेहणिया । संथार-पीढ - फलगा, णिजोगो चैव दुगुणो तु ॥ ४२६३ ॥ इष्टका-चीरादिमयानि डगलानि पुतप्रोञ्छनार्थं गृह्यन्ते । सरजस्कः - क्षारः, स संज्ञा- खेलादिनिसर्जनार्थम् । कुटमुखं - घटकण्ठकः, तत्र ग्लानयोग्य मौषधं कायिकीमात्रकं वा स्थाप्यते । मात्रकत्रिकं - खेलमात्रकं कायिकीमात्रकं संज्ञामात्रकं चेति । लेपः - प्रतीतः, स विनष्टभाजनसंस्थापनार्थम् । पादलेखनिका वर्षासु कर्दमनिर्लेखनार्थम् । संस्तारकः परिशाटी अपरिशाटी 10 चेति द्विविधः, उभयोऽपि शयनार्थं जीवादिरक्षणार्थं च गृह्यते । पीठं - छगणादिमयम्, उपवेशनार्थम् । फलकः - चम्पकपट्टा दिमयः, शयनोपयोगी । पात्रसत्कश्च 'निर्योगः ' प्रत्यवतारो द्विगुणः । एतानि सर्वाण्यपि तदानीं गृह्यन्ते ॥ ४२६३ ॥ अथ शिष्यः प्रश्नयतिचचारि समोसरणे, मासा किं कप्पती ण कप्पति वा । कारणिग पंच रत्ता, सव्वेसिं मलगादीणं ॥ ४२६४ ॥ आषाढ पूर्णिमानन्तरं ये चत्वारः प्रथमसमवसरणे मासास्तेषु ग्रहीतुं कल्पते वा न वा ? | सूरिराह — उत्सर्गतो न कल्पते, द्वितीयपदे क्षेत्रस्याप्राप्तौ अध्वनिर्गता वा आषाढपूर्णिमायां प्राप्तास्ततः संस्ताराद्युपत्रिं डगलादीनि च पञ्च रात्रिन्दिवानि गृह्णन्ति, पर्युषणाकल्पं च रजन्यामाकर्षन्ति, ततः पञ्चम्यां पर्युषणं कुर्वन्ति । अथ पूर्वोक्तकारणात् पञ्चभ्यामेव ते प्राप्ताः ततः पञ्चरात्रं तथैव संस्तारक-डगलादीनि गृह्णन्ति, दशम्यां पर्युषणयन्ति । विशेषचूर्णिकृत् पुनराह - ताणं अलं आसाढपुण्णिमाए चेव ठिया, तेहि य उवही न गहिओ संथारगाई ता जाव पंचरतं ताव गेव्हंति, पच्छा पंच दिवसे पज्जोसवणाकप्पं कहंति, दसमीए पज्जोसवेंति, एएण कारणेणं कप्पइ पंचरतं, अह पंचमीए पत्ता ताहे तहेव पंच रत्तगा वति [ जाव भद्दवयसुद्धपंचमी ] चि । 20 5 15 एवं सर्वेषां मल्लकादीनामुपकरणानामर्थाय कारणिकानि पञ्च रात्रिन्दिवानि प्रवर्धमानानि - 25 तावद् मन्तव्यानि यावद् भाद्रपद शुद्धपञ्चम्यां गृहीतेऽगृहीते वा डगल- मल्लकादौ नियमात् पर्युषणं विधेयम् ॥ ४२६४ ॥ तेसिं तत्थ ठिताणं, पडिलेहुच्छुद्ध चारणादीसु । लेवाईण अगहणे, लहुगा पुत्रि अगहिते वा ।। ४२६५ ।। 'तेषां' साधूनां 'तत्र' वर्षाक्षेत्रे स्थितानामियं सामाचारी — सभा - प्रपा -ऽऽराम - देवकुल- शून्य- 30 गृहादिषु यद् वस्त्रम् 'उत्सुद्धं' पथिकादिभिः परित्यक्तं तत् प्रत्युपेक्षन्ते यदा किल कार्यमुत्पत्स्यते तदा ग्रहीष्यते । तदभावे चारणादिषु प्रत्युपेक्षन्ते । वर्षासु यदि लेपम् आदिशब्दात् पात्रं " १ योगी । पते सर्वेऽपि प्रथमतः क्षेत्रबहिर्गृह्यन्ते । अथ बहिर्न गृहीतास्ततः क्षेत्र एव गृह्यन्ते भा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy