________________
10
भाष्यगाथाः ४२५४-६२] तृतीय उद्देशः ।
११५५ कुर्वन्ति तन्निष्पन्नम् ॥४२५७॥ के' पुनः प्रथमसमवसरणे वस्त्रग्रहणे दोषाः ? इत्याह-»
अत्तट्ठ परट्ठा वा, ओसरणे गेण्हमाणे पण्णरस ।
दाउ परिभोग छप्पति, डउरं उल्ले य गेलणं ॥ ४२५८ ॥ अथात्मनो वा परेषां वा-अध्वनिर्गतादीनामर्थाय प्रथमसमवसरणे उपधिं गृह्णन्ति तत आधाकर्मादयः पञ्चदशोद्गमदोषा भवन्ति । आत्मोपधिमध्वनिर्गतादीनां दत्त्वा तमेवैकं प्रत्यवतारं 5 नित्यं परिभुञ्जानस्य षट्पदिकाः सम्मूर्च्छन्ति । तासु चान-पानमध्ये पतितासु भक्षितासु च "डउरं" ति जलोदरं भवति । एकप्रत्यवतारेण चाट्टैण रात्रौ प्रावृतेन सुप्तस्य भक्तं न जीर्यति, अजीर्यति च ग्लानत्वमुपजायते ॥ ४२५८ ॥
तम्हा उ गेण्हियव्वं, बितियपदम्मि जहा ण गेण्हेजा।
__ अद्धाणे गेलन्ने, अहवा वि भवेज असतीए ॥ ४२५९॥ यत एवं तस्मात् कारणादात्मनो द्विगुणप्रत्यवतारादेतिरिक्तं ग्रहीतव्यम् । द्वितीयपदे यथा न गृह्णीयुस्तथाऽभिधीयते-अध्वनि वहमानानां ग्लानत्वे वा द्विविधायामसत्तायां वा वर्तमानानामग्रहणं भवेत् ॥ ४२५९ ॥ इदमेव व्याख्याति
कालेणेवदिएणं, पाविस्सामंतरेण वाघातो।
गेलण्णे वाऽऽत-परे, दुविधा पुण होति असती उ ॥ ४२६०॥. 15 ग्रीष्मस्य चरमे मासि केचिदध्वानं प्रतिपन्नाश्चिन्तितवन्तश्च-यावदाषाढपूर्णिमा नोपैति तावदेतावता कालेन वर्षाक्षेत्रं प्राप्स्यामः, अन्तरा च नद्यादिव्याघातो भवेद् अत आषाढपूर्णिमाकाले अतिक्रान्ते प्राप्ताः ततो द्विगुणोऽतिरिक्तो वा उपधिर्न गृहीतः । अथवा आत्मनो ग्लानत्वेन परस्य वा-ग्लानस्य व्यावृततया नातिरिक्तो गृहीतः । असत्ता पुनर्द्विविधा भवतिसदसत्ता असदसत्ता च । सदसत्तायामनेषणीयं लभ्यते, अथवा बहवः साधवो वस्त्रग्रहणस्या- 20 कल्पिका एकः कल्पिकः अतः सर्वेषां योग्योऽतिरिक्तोपधिम्रहीतुं न पार्यते । असदसत्ता तु मार्गितमपि न लभ्यते । एतैः कारणैः पूर्वमतिरिक्तोपधावगृहीतेऽपि शुद्धः ॥ ४२६० ॥
गहिए व अगहिए वा, अप्पत्ताणं तु होति अतिगमणं ।
उवही-संथारग-पादपुंछणादीण गहणट्ठा ॥ ४२६१ ॥ एवं गृहीतेऽगृहीते वा वर्षावासप्रायोग्ये उपधौ कालतोऽप्राप्तानामाषाढपूर्णिमाया अर्वाक् 23 पञ्चभिर्दिवसैवर्षाक्षेत्रे 'अतिगमनं' प्रवेशो भवति । किमर्थम् ? इत्याह-उपधिः-वर्षाकल्पादिकः संस्तारकः-काष्ठमयः कम्बिकामयो वा पादप्रोञ्छनं-रजोहरणम् आदिशब्दात् तृण-डगलादिपरिग्रहः, एतेषां ग्रहणार्थमप्राप्ते काले प्रवेष्टव्यम् ॥ ४२६१ ॥ इदमेव व्यक्तीकरोति
कालेण अपत्ताणं, पत्ता-ऽपत्ताण खेत्तओ गहणं ।
वासाजोगोवधिणो, खेत्तम्मि तु डगलमादीणि ॥ ४२६२ ॥ 30 कालतो नियमादप्राप्तानां क्षेत्रतः प्रातानामपाप्तानां वा वर्षावासयोग्यपटलक-पात्रबन्धादेरुप१रा एतचिह्नगतमवतरणं भा० नास्ति ॥ २'दधिकं प्र° को० ॥ ३ °तरे उ वा ताभा० ॥ ४°घातेन रुद्धा: अत भा०॥५यामेषणीयं न ल°क०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org