SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ ११५४ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ समवसरणप्रकृते सूत्रम् १५ "फरुससाल" ति कुम्भकारशाला तस्यां वर्षासु स्थितानां द्वितीयरजोहरणाभावे यद् वर्षेणाभूतं रजोहरणं तेनैव प्रमार्जने पृथिवीकायस्य विराधना । ग्रामान्तरं वा भिक्षाचर्यादिकार्येण "इंत" ति गच्छत आगच्छतो वा अन्तरा गाढतरं वर्षितुमारब्धे मलिनरजोहरणे परिगलति पृथिवीं 'द्विविधं च' भौमा-ऽऽन्तरिक्षभेदाद् द्विप्रकारमुदकं विराधयति ॥ ४२५३ ॥ अहवा अंबीभूए, उदगं पणओ य तावणे अगणी। उल्लंडगबंध तसा, ठाणाइसु केण व पमजे ॥ ४२५४ ॥ अथवा द्वितीयरजोहरणाभावे यदाऽऽदें रजोहरणं शोषयति ततोऽवग्रहात् स्फिटति । अथ न शोष्यते ततोऽम्लीभवति । एवमम्लीभूते तस्मिन्नुदकं विराध्यते, पनकश्च सम्मूर्च्छति । अथैतदोषपरिहारार्थमग्नौ तापयति ततोऽग्निविराधना । अथाट्टैण प्रमार्जयति ततो दशिकान्तेषु 10 उल्लण्डकाः-मृद्गोलकाः प्रतिबध्यन्ते । तेषु प्रतिबद्धेषु यदि प्रमार्जनं करोति ततस्त्रसविराधना, अथ न प्रमार्जयति ततः संयमविराधना । स्थान-निषदनादिषु वा केन प्रमार्जयतु ॥४२५४॥ एमेव सेसगम्मि, संजमदोसा उ भिक्खणिजोए । चोल-निसिज्जा उल्ले, अजीर गेलण्णमायाए ॥ ४२५५ ॥ एवमेव वर्षाकल्पादावपि शेषोपकरणे 'भिक्षानिर्योगे च' पटलक-पात्रबन्धरूपे द्विगुणेऽ. 15 गृहीते 'संयमदोषाः' षट्कायविराधनालक्षणा रजोहरणवद् वक्तव्याः । चोलपट्टे रजोहरणनिष द्यायां च द्विगुणायामगृह्यमाणायां बहिर्गतानां वर्षेणाीभावे सञ्जाते नित्यपरिभोगेन भक्तं न जीर्यते, अजीर्यमाणे च भक्ते ग्लानत्वं भवति, ततश्च 'आत्मविराधना' परिताप-महादुःखादिका ॥ ४२५५ ॥ किञ्च अद्धाणणिग्गतादी, परिता वा अहब णड गहणम्मि । 20 जं च समोसरणम्मि, अगेण्हणे जं च परिभोगो ॥ ४२५६ ।। छिन्नादच्छिन्नाद्वा अध्वनो निर्गताः आदिशब्दादशिवादिकारण विनिर्गता वा ये 'परीत्ताः' परिमितोपकरणाः अथवा "नट्ठ" त्ति नष्टोपकरणा हारितोपधय इत्यर्थः “गहणम्मि" त्ति प्रत्य नीकेन वा उपधेर्ग्रहणे कृते विविक्ता आगच्छेयुः । एतेषामागतानामतिरिक्तोपकरणाभावाद् __ यद्युपग्रहं न करोति तत उपधिनिष्पन्नं प्रायश्चित्तम् । अथ तदर्थ नूतनमुपधिं गृहन्ति ततोऽप्यु25 पधिनिष्पन्नम् , यच्च प्रथमे समवसरणे उपकरणग्रहणे दोषजालं तत् प्राप्नुवन्ति । अथ न गृह्णन्ति तत उपकरणं विना यत् तृणादिपरिभोगे दूषणकदम्बकं तद् आसादयन्ति ॥ ४२५६ ॥ अमुमेवार्थं व्याख्याग्रन्थेन स्पष्टयति अद्धाणणिग्गयादीणमदेंते होति उवधिनिष्फन्न । जं ते अणेसणऽग्गि, सेवे देंतऽप्पणा जं च ॥४२५७ ॥ 30 अध्वनिर्गतादीनामतिरिक्ताभावे उपकरणं यदि न प्रयच्छन्ति तत उपधिनिष्पन्नं भवति, प्रायश्चित्तमिति शेषः । तच्च जघन्ये पञ्चकम् , मध्यमे मासलघुकम् , उत्कृष्ट चतुर्लघवः । 'ते च' अध्वादिनिर्गता अनेषणीयोपकरणमग्निं वा यद् आसेवन्ते तन्निष्पन्नमप्रयच्छतां प्रायश्चितम् । अथात्मीयमुपकरणं तेषां प्रयच्छन्ति तत आत्मनः परिहाणिः, यच्चात्मना तृणादिसेवनं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy