SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ४२४५-५३ ] तृतीय उद्देशः । ११५३ चेद् उच्यते--- द्वयोर्जनयोः सम्बन्धिना यावतोपकरणेनैकस्य साधेोर्योग्यः परिपूर्णः प्रत्यवतारो - ऽतिरिक्तो निप्पद्यंते, यच्च वर्षासु वर्षाकल्पादिकमुपयुज्यते तदात्मनो योग्यं द्विगुणं भवति, इयत्प्रमाणं ग्रहीतव्यम् । इदमुक्तं भवति — एकैकः साधुरर्धतृतीयान् प्रत्यवतारान् गृह्णाति । किं कारणम् ? कदाचिदध्वनिर्गताः साधवो विविक्ता आगच्छेयुः ततो द्वौ साधू एकस्य साधोः सम्पूर्णं प्रत्यवतारं प्रयच्छतः, तयोश्चात्मनः प्रत्येकं द्विगुणाः प्रत्यवतारास्तिष्ठन्ति । यद्येवं न 5 गृह्णन्ति ततश्चतुर्लघुकाः, तत्राप्याज्ञादयो दोषा भवन्ति ॥ ४२४९ ॥ वर्षावतिरिक्तोपकरणग्रहणे कारणमुपदर्शयितुं दृष्टान्तमाह Goatवक्खर हादियाण तह खार- कडुय-भंडाणं । वासारत्त कुटुंबी, अतिरेगं संचयं कुणइ ॥ ४२५० ॥ द्रव्यं - हिरण्यादि, उपस्करः - सूर्पादि, स्नेहः - घृतं तैलं वा, आदिशब्दादेरण्डादितैलपरिग्रहः, 10 क्षारः - वस्तुलादिः लवणं वा, कटुकं शुण्ठी- पिप्पल्यादि, भाण्डानि - वट- पिठरादीनि, अथवा कटुभाण्डं - वेसण - मरिच-हिङ्गु प्रभृतिद्रव्यजातम् । एतेषां द्रव्योपस्करादीनां कुटुम्ब्यपि वर्षारात्रे - ऽतिरिक्तं सञ्चयं करोति ॥ ४२५० ॥ किं कारणम् ? इति चेद् उच्यते वणियाण संचरंती, हट्टा ण वहंति कम्मपरिहाणी | लण्णाssसे व किं काहिति अगहिते पुवि ॥ ४२५१ ॥ 15 वर्षाकाले वणिजो ग्रामेषु क्रयविक्रयार्थं न सञ्चरन्ति, पत्तनेष्वपि वर्ष- वर्दलवशेन हट्टा न वहन्ति, अपि च यदि कुटुम्बी द्रव्योपस्करादीनामतिरिक्तं सञ्चयं न कुर्यात् तत उत्पन्ने प्रयोजने क्रयविक्रयार्थं तेन आपणवीथ्यां गन्तव्यम्, ततश्च हलकर्षणप्रभृतीनां कर्मसंयोगानां परिहाणिर्भवति, ग्लानत्वे वा सञ्जाते 'आदेशेषु वा' प्राघूर्ण केष्वागतेष्वतिरिक्तसञ्चये पूर्वमगृहीते किं पथ्य भोजन- प्राघूर्णकभक्त्यादिकं करिष्यति ? ॥ ४२५१ ॥ तह अतिथिगा वि य, जो जारिसों तस्स संचयं कुणति । इह पुण छह विराहण, पढमम्मि य जे भणिय दोसा ।। ४२५२ ॥ ' तथा ' इति दृष्टान्तान्तरोपन्यासे । 'अन्यतीर्थिका अपि' सरजस्कादयः 'यो यादृशः' यस्य येनोपकरणेन प्रयोजनमित्यर्थः स तस्यातिरिक्तं सञ्चयं वर्षासु करोति, यथा— सरजस्का रक्षायाः, दकसौकरिका मृत्तिकायाः, बोटिकाश्छगण लवणयोरित्यादि । 'इह' इति अस्मिन् 25 पुनर्जेनशासने यद्यतिरिक्तमुपकरणं न गृह्णन्ति ततः षण्णां जीवनिकायानां विराधना भवति । अथातिरिक्तोपकरणाभावाद् वर्षासूपधिं गृह्णन्ति ततो ये प्रथमे समवसरणे उपकरणं गृह्णतो दोष भणितास्तान् प्राप्नुवन्ति ॥ ४२५२ ॥ कथं पुनः षण्णां कायानां विराधना भवति । इति उच्यते रयहरणेणोल्लेणं, पमजणे फरुससाल पुढवीए । गामंतरित गलणे, पुढवी उदगं च दुविहं तु ॥ ४२५३ ॥ १द्यते, येन वर्षा” भा० कां० विना ॥ २°च्छन्ति, तयो' मो० ले० विना ॥ ३ 'गुणः प्रत्यवतारस्तिष्ठति भा० कां० ॥ Jain Education International For Private & Personal Use Only 20 30 www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy