SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ ११५२ भावोद्देशो द्विधा - प्रशस्तोऽप्रशस्तश्च ॥ ४२४४ ॥ उभयमपि दर्शयतिकोहाई अपसत्थो, णाणामादी य होइ उ पसत्थो । उदओ वि खलु पत्थो, तित्थकरा ऽऽहारउदयादी ।। ४२४५ ॥ क्रोध- मानादिरौदयको भावो अप्रशस्तो भावोद्देशः । ज्ञान दर्शनादिः क्षायोपशमिक औप5 शमिकः क्षायिको वा भावः प्रशस्तो भावोद्देशो भवति । 'उदयोऽपि' औदयिकभावोऽपि तीर्थकरा-ऽऽहारक-यशःकीर्त्यादिनामकर्मोदयरूपः प्रशस्तो भवति । आदिशब्दस्य गाथायां व्यत्ययेन निर्देशो बन्धानुलोम्यात् । अत्र क्षेत्रोद्देशेन कालोद्देशेन चाधिकारः, शेषास्तु विनेयव्युत्पादनार्थमुच्चरितार्थसदृशा इति कृत्वा प्ररूपिताः । तदत्र परेण यद् उद्गमौदेशिकं प्रतिपादितं तद् नाधिकृतमिति स्थितम् ॥ ४२४५ ॥ अथ " प्राप्तानाम्" इति पदं व्याख्यातिखित्तेण य कालेण य, पत्ता पत्ताण होति चउभंगो । दोहि विपत्तो ततिओ, पढमो वितिओ य एक्केणं ॥ ४२४६ ॥ क्षेत्रेण कालेन च प्राप्ता - प्राप्तानां चतुर्भङ्गी भवति-क्षेत्रेण प्राप्ता न कालेन ९ कालेन प्राप्ता न क्षेत्रेण २ क्षेत्रेण कालेन च प्राप्ताः ३ नापि क्षेत्रेण नापि कालेन ४ । अत्र तृतीयो भङ्गो द्वाभ्यामपि क्षेत्र - कालाभ्यां प्राप्तः, चतुर्थः पुनरुभाभ्यामप्यप्राप्तः ॥ ४२४६ ॥ अथामूनेव भङ्गान् भावयति - 10 15 सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ समवसरणप्रकृते सूत्रम् १५ वासाखित्त पुरोखड, उडुबद्ध ठियाण खेत्तओ पत्तो । अद्धाणमादिहिं, दुल्लभखित्ते व वीओ उ ।। ४२४७ ॥ वर्षाक्षेत्रे 'पुरस्कृतं' प्रथमत ऋतुबद्धकाले स्थितानां 'क्षेत्रतः प्राप्ताः' इति प्रथमो भङ्गो भवति । इयमत्र भावना - ऋतुबद्धे चरमो मासकल्पो यत्र कृतः अन्यच्च वर्षावासप्रायोग्यं क्षेत्रं नास्ति 20 ततस्तत्रैव वर्षावासं कर्तुकामा आषाढपूर्णिमामद्य प्यप्राप्नुवन्तः क्षेत्रतः प्राप्ता न कालत इत्याद्यो भङ्गो भवति । अध्वप्रतिपन्नतादिभिः कारणैर्दुर्लभे वा वर्षावासप्रायोग्ये क्षेत्रेऽपान्तराल एव आषाढ पूर्णिमा सञ्जाता एवं द्वितीयो भङ्गो भवति ॥ ४२४७ ॥ आसाढ पुणिमाए, ठिया उ दोहिं पि होंति पत्ता उ । [द. श्रु.नि. ६३ ] तत्थेव य पडिसिज्झइ, गहणं ण उ सेसभंगेसु ॥ ४२४८ ॥ 25 वर्षाक्षेत्रे आषाढपूर्णिमायां ये स्थितास्ते द्वाभ्यामपि क्षेत्र - कालाभ्यां प्राप्ता भवन्ति । आषाढपूर्णिमामप्राप्तानामन्तरा अध्वनि वर्त्तमानानां ऋतुबद्धे मासकल्पेन वा अन्यत्र क्षेत्रे स्थितानां चतुर्थो भङ्गो भवति । अत्र च 'तत्रैव' तृतीयभङ्ग एव वस्त्रादीनां ग्रहणं प्रतिषिध्यते, न 'शेषेषु' प्रथम - द्वितीय- चतुर्थभङ्गेपु, एकतरेण द्वाभ्यां वा अप्राप्तत्वात् ॥ ४२४८ ॥ एतेन " दोह पडिसेहो ” त्ति व्याख्यातम् । अथ "अप्पत्ताण तु गहणं, उवहिस्सा साइरे30 गस्स” ( गा० ४२४२ ) ति पश्चार्धं व्याचिख्यासुराह दुह जओ एगस्सा, णिष्फजति जं च होति वासासु । अग्गहणम्मि वि लहुगा, तत्थ वि आणादिणो दोसा ॥ ४२४९ ॥ इह वर्षाकाले क्षेत्र - कालाभ्यामप्राप्तैरेव सातिरेक उपधिग्रहीतव्यः । कियत्प्रमाणः ? इति For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy